एला

इयम् एला भारते अपि वर्धमानः कश्चन सस्यविशेषः । एला अपि सस्यजन्यः आहारपदार्थः । इयम् एला आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । एषा एला आङ्ग्लभाषायां Cardamom इति उच्यते । एषा एला वाणिज्यसस्यम् अपि । काफीवाटिकायाम् उपफलोदयरूपेण एलायाः वर्धनं क्रियते । एलासस्यं गुल्मवर्गस्य वृक्षकः भवति । अयं वृक्षकः आहाराणां गन्धस्य रुचेः च वर्धनार्थम् आवश्यकानि फलानि उत्पादयति । भारतीयपाकशालासु सर्वत्र एला भवति एव प्रायः । सर्वत्र अपि एला मधुरभक्ष्याणां निर्माणे अधिकतया उपयुज्यते । तद्विना वमनस्य निरोधकरूपेण, पित्तशामकरूपेण अपि एला उपयुज्यते ।

एला
हरितवर्णस्य कृष्णवर्णस्य च एला
Cardamom
एलासस्यं, पुष्पं, फलं, बीजं, मूलं चापि
एलासस्यं, पुष्पं, फलं, बीजं, मूलं चापि
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots
(अश्रेणिकृतः) Commelinids
गणः Zingiberales
कुलम् Zingiberaceae
उपविभागीयस्तरः
  • Amomum
  • Elettaria

प्रसिद्धेषु उपकरद्वव्येषु अन्यतमः एला । जलप्रदेशे अयं सम्यक् वर्धते । अस्य रुचिः कटुमिश्रितमधुरः ।

एलायां विधमानाः अंशाः

अस्मिन् पोटासियं लवणः २%, पिष्टं ३% पीतर‘झ्जकद्रव्यं, म्य़ाङ्गनीसयुक्तं भस्म उडनशीलं तैलं च भवति । तैले cineol, Terpineol, Terpinene, Limonene, sabinene च भवति ।

आयुर्वेदीयरीत्या उपयोगाः

मूत्रसम्बन्धीरोगशामकः

एला अनेकेषां मूत्रसम्बन्धिरोगाणां शामकः । एलायाः चूर्णस्य सेवनेन मूत्रविसर्जनसमये क्लेषः अस्ति चेत् अपगच्छति । अस्य चूर्णस्य सेवनेन मूत्रोत्पत्तौ समस्या विद्यते चेत् परिहृता भवति ।

मुखवासकः

एलायाः हितकरः गन्धः विद्यते । अतः अस्य सेवनं मुखवासनरोगं निवारयति ।

हृदयरोगे परिणामकारी

एला हृदयस्य उपरि अपि सत्परिणामं जनयति । घृतेन सह एलायाः सेवनेन हृदयरोगा ? शाम्यन्ति इति प्राचीनग्रन्थेषु उल्लेखः लभ्यते । अस्य सेवनं हृदयदौर्भल्यमपि दूरीकरोति ।

जीर्णकरः

अधिककदलीफलभक्षणेन अजीर्णता अनुभूयते चेत् एलायाः द्वित्रान् बीजान् सम्यक् चर्वित्वा गिलेत् । अनुक्षणं परिहारः लभ्यते ।

इतरे उपयोगाः

एलायाः वस्रगालितचूर्णं कृत्वा नस्यवत् सेवनेन शिरोवेदना शाम्यति ।एलायाः चूर्णं बादामि-खण्डशर्कशयोः च मिश्रीकृत्य नियमितरुपेण सेव्यते चेत् मस्तिष्कस्य बलवर्धनं भवति स्मरशक्तिः च वर्धते । पित्तकारणेन शिरोभ्रमणम् अनुभूयते चेत् गुडेन सह एलचूर्णं योजयित्वा पानकं निर्मीय पातव्यम् । अयं वमने, विरेचने अपि हितकरः ।

जागरूकता

एलायां रुक्षगुणः अपि वर्तते । अतः गर्भिव्यः स्त्रियः दीर्घकालम् अस्य सेवनं न कुर्युः । कफजन्यरोगेषु एलायाः प्रयोगः हानिकरः । एलायाः दुष्परिणामनिवारणार्थं ज्येष्ठमधोः चूर्णः सेवनीयः ।

एला०.५-१ ग्रां प्रमाणेन चिकित्सायां, प्रयुज्यते, एलायां बृहत् , लघु इति विधद्वयं भवति । औषधार्थं लघुः एलाएव उपयुन्यते ।

एलानिर्मितानि औषधानि

    १.एलादिचूर्णः
    २.एलाद्यरिष्टः
    ३.एलादिगुटिका
    ४.एलाद्यमोदकः
    ५.एलादिक्वाथः

अधिकानि चित्राणि

बाह्यसम्पर्कतन्तुः

Tags:

एला यां विधमानाः अंशाःएला आयुर्वेदीयरीत्या उपयोगाःएला निर्मितानि औषधानिएला बाह्यसम्पर्कतन्तुःएलाआहारःभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

आस्ट्रेलियासिंहः पशुःउद्भटःस्वामी विवेकानन्दः१०८२१७ दिसम्बरनव रसाःबुधवासरःवैश्विकस्थितिसूचकपद्धतिःगीतगोविन्दम्रसःअक्षय कुमाररसगङ्गाधरःडचभाषादेशाःहर्षचरितम्अलकनन्दानदीसंस्कृतम्काव्यप्रकाशःफलम्अक्तूबर १२नेपोलियन बोनापार्टइङ्ग्लेण्ड्नेताजी सुभाषचन्द्र बोसवेतालपञ्चविंशतिकासम्प्रदानकारकम्भरुचमण्डलम्मम्मटःप्रकरणग्रन्थाः (द्वैतदर्शनम्)गौतमबुद्धःविदुरःचातुर्वर्ण्यं मया सृष्टं...यवनदेशःभरद्वाजमहर्षिःफरवरी १५सभापर्वब्रह्मसूत्राणिहठयोगः१० फरवरीनीतिशतकम्बेट्मिन्टन्-क्रीडामास्कोनगरम्भारतस्य इतिहासःप्रथम कुमारगुप्तःस्वातन्त्र्यदिनोत्सवः (भारतम्)सऊदी अरबयथैधांसि समिद्धोऽग्निः...चिन्तास्वास्थ्यम्माघः२०१२१८०९देवनागरी१०७१इण्डोनेशियाफरवरी १३अदेशकाले यद्दानम्...सुखदुःखे समे कृत्वा...सितम्बर ५पक्षिणः१८७३अव्ययीभावसमासःसंन्यासं कर्मणां कृष्ण...असमियाभाषापुर्तगालीभाषाकर्कटराशिःधर्मःरक्तम्नवम्बर १६कठोपनिषत्ज्योतिषशास्त्रम्🡆 More