अभिमन्युः महाभारतस्य किञ्चन प्रधानं पात्रम्। चन्द्रवंशे जातोऽयमभिमन्युः अर्जुनसुभद्रयोः पुत्रः। बलरामः श्रीकृष्णश्च अस्य मातुलौ । विराटराजस्य पुत्री उत्तरा, बलरामस्य पुत्री शशिरेखा च अभिमन्योः द्वे पत्न्यौ । षोडशे वयसि एव कुरुक्षेत्रे चक्रव्यूहं प्रविष्टोऽयं शत्रूणां कापट्यकारणात् स्वप्राणान् त्यक्तवान् । उत्त्तरायाः गर्भाम्बुधौ समुत्पन्नः राजा परीक्षित् चन्द्रवंशस्य उत्तराधिकारिरूपेण हस्तिनापुरे राज्यभारं कृतवान् ।
अभिमन्युः | |
---|---|
अभिमन्युः उत्तरया सह | |
उत्तराधिकारी | परीक्षितः |
पत्नी | उत्तरा |
House | कुरुः |
पिता | अर्जुनः |
माता | सुभद्रा |
मतम् | हिन्दुक्षत्रियः |
अभिमन्युः आबाल्यादेव महान् चतुरमतिः आसीत् । गर्भावस्थायामेव विद्यमानः शिशुः अभिमन्युः श्रीकृष्णमुखात् व्यूहभेदनं तथा व्यूहे आक्रमणञ्च अभ्यस्तवान् आसीत् । मकरव्यूह:,कूर्मव्यूह:,सर्पव्यूह: इत्यादीनां व्यूहानां भेदनम् अभ्यस्तवान् । परं सुभद्रा ईषन्निद्रया आक्रान्ता इति हेतोः केवलं चक्रव्यूहस्य भेदनम् अवगतवान्,न तु ततः प्रत्यागमनम् । अभिमन्युः बाल्यकाले श्रीकृष्णपुत्रेण प्रद्युम्नेन,पित्रा अर्जुनेन च प्रशिक्षितः सन् मातुलयोः बलरामकृष्णयोः वात्सल्येन द्वारकायामभिवृद्धः ।
कुरुक्षेत्रयुद्धस्य त्रयोदशे दिने यदा कृष्णार्जुनौ संशप्तकैः सह योद्धुं गतवन्तौ तदा कौरवाः चक्रव्यूहं विरचय्य पन्थाह्वानमकुर्वन् । पाण्डवपक्षे अर्जुनं विहाय अभिमन्युरेव चक्रव्यूहस्य भेदनं जानाति स्म इति कारणेन व्यूहभेदनं कृत्वा अन्तः प्रविष्टवान् । किन्तु कर्णः कपटयुद्धेन अभिमन्योः हस्तद्वयं कर्तितवान् । जयद्रथः अभिमन्युं मारितवान् ।
This article uses material from the Wikipedia संस्कृतम् article अभिमन्युः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.