भारतम् शिक्षकदिनम्

शिक्षकदिनं ( ( शृणु) /ˈʃɪkʃhəkədɪnəm/) /ˈʃɪkʃhəkədɪnəm/(हिन्दी: शिक्षक दिवस, आङ्ग्ल: Teacher’s Day) सितम्बर-मासस्य पञ्चमे (५) दिनाङ्के आभारतम् आचर्यते । इदं दिनं डॉ.

सर्वपल्ली राधाकृष्णन्-महोदयस्य जन्मदिनम् । सः कश्चित् उत्तमः शिक्षकः आसीत् यः शिक्षणक्षेत्रम् अतीव प्रीणाति स्म । तस्य सम्माने तस्य जन्मदिनाङ्के शिक्षकदिनम् आचर्यते ।

शिक्षकदिनम्
शिक्षकदिनम्
शालायां विद्यादानरतः गुरुः
के आचरन्ति विश्वस्तरे आचर्यते
वर्गः राष्ट्रियम्
महत्त्वम् गुरु-शिष्ययोः पवित्रसम्बन्धस्य आचरणम्
दिनाङ्कः सेप्टेम्बर्-मासस्य ५ दिनाङ्के(भारते)

शिक्षणस्य शिक्षकस्य च महत्त्वम्

शिक्षणम् एव मानवतां बोधयति । शिक्षणेन विना मानवजीवनं पशुवदेव । प्राचीने काले अस्माकं देशे गुरुप्रणाल्या शिक्षणं प्रचलति स्म । गुरूणाम् आश्रमाः/गुरुकुलानि आसन्, येषु गुरवः छात्रेभ्यः शिक्षणं यच्छन्ति स्म । किन्तु इदानीं जनसङ्ख्यायाः वर्धनात्, पाश्चात्यसंस्कृत्याः प्रभावेन च शिक्षणपद्धतिः परिवर्तिता अस्ति । वर्तमानकाले प्रतिनगरं प्रतिग्रामं शिक्षणप्रदानार्थं शैक्षणिकसंस्थाः सन्ति । तथापि सर्वेभ्यः शिक्षणं न प्राप्यते । शिक्षणाय विद्यालयानां निर्माणं, छात्राणां, भवनानां, शिक्षकाणां च प्रबन्धनं प्रशासनस्य कर्तव्यम्, उत्तरदायित्वं च अस्ति । किन्तु तेषु शिक्षकः प्रमुखः, महत्वपूर्णः च अस्ति । शिक्षकाः चरित्रवन्तः, लोभरहिताः, परोपकारिणः भवन्ति चेत् छात्रान् सम्यक्तया मानवतायाः पाठं पाठयितुं शक्नुवन्ति । प्राचीनकाले सर्वेऽपि गुरवः उपर्युक्तस्वभाववन्तः आसन् । वर्तमानकालः धनप्रधानः अस्ति इत्यतः शिक्षकेभ्यः अपि वेतनस्य अत्यावश्यकता वर्तते । शिक्षक एव प्रत्येकं जनं मौलिकजीवनम् अध्यापयति । अतः शिक्षकाणां सम्माननाय शिक्षकदिवसस्य आचरणस्य परम्परा प्रारब्धा ।

शिक्षकदिवसस्य इतिहासः

भारतम् शिक्षकदिनम् 
शिक्षकदिनम्

जनाः सितम्बर-मासस्य पञ्चमे (५) दिनाङ्के शिक्षकदिवसम् आचरन्ति । स्वतन्त्रभारतस्य द्वितीयराष्ट्रपतेः डॉ. सर्वपल्ली राधाकृष्णन् इत्याख्यस्य जन्मदिनम् एव शिक्षकदिवसः कथ्यते । तस्य पिता शिक्षकः आसीत् । सः स्वयमपि उत्तमः शिक्षकः आसीत् । राधाकृष्णन् इत्याख्यस्य व्यक्तिगतजीवनं, साधना, अनेकानां विषयाणां गहनाध्ययनं, शिक्षणस्य कुशलता इत्यादयः आदर्शशिक्षकस्य सात्विकं स्वरूपम् अस्ति । सः स्वस्य प्रतिजन्मदिवसे योग्यानां शिक्षकाणां सम्मानं करोति स्म । अतः सर्वकारेणापि सितम्बर-मासस्य पञ्चमे (५) दिनाङ्के योग्यानां शिक्षकाणां सम्माननस्य परम्परायाः प्रारम्भः कृतः । अस्मिन् दिवसे शैक्षणिकसंस्थाः विद्यालयेषु विशिष्टशिक्षकाणां सम्माननं कुर्वन्ति ।

शिक्षकदिवसस्य आचरणम्

शिक्षकदिवसे शिक्षणसंस्थाः सांस्कृतिकोत्सवं आयोजयन्ति । अस्मिन् दिवसे शालासु, विद्यालयेषु स्पर्धाः भवन्ति । तासु स्पर्धासु विद्यार्थिनः उत्साहपूर्वकं भागं गृह्णन्ति, स्वशिक्षकान् आनन्दयन्ति च । महाविद्यालयेषु, विश्वविद्यालयेषु च शिक्षकदिवसे योग्यानां पदवीधरछात्राणां शिक्षकत्वेन चयनं भवति । शिक्षकाः तादृशान् छात्रान् प्रेरयित्वा अन्यत्र पाठनार्थं प्रेषयन्ति ।

शिक्षकाणां सम्माननम्

शिक्षकदिवसे शैक्षणिकसंस्थाः केवलं पुष्पमाला, प्रमाणपत्रं दत्त्वा श्रेष्ठशिक्षकान् सम्मानयन्ति । किन्तु अन्यां कामपि विशिष्टव्यवस्थां न ददति । वर्तमानकाले कोऽपि जनः शिक्षकस्य महत्वं न जानाति । अतः जनान् शिक्षकस्य महत्वं बोधयित्वा शिक्षकेभ्यः सर्वत्र उत्तमस्थानं कल्पनीयम् । शिक्षकाणामपि दायित्वमस्ति यत् तैः आदर्शचरित्रानुसारं समाजस्य मार्गदर्शनं करणीयम् । शिक्षकैः धूम्रपानं, मदिरापानं, अन्यत् दुर्व्यसनं वा न करणीयम् । शिक्षकैः विशेषशिक्षणवर्गाः न चालनीयाः । तैः छात्रेभ्यः विद्यालये एव सम्पूर्णशिक्षणं दातव्यम् । श्रेष्ठशिक्षकाः सदैव सम्मानं प्राप्नुवन्ति ।

Tags:

भारतम् शिक्षकदिनम् शिक्षणस्य शिक्षकस्य च महत्त्वम्भारतम् शिक्षकदिनम् शिक्षकदिवसस्य इतिहासःभारतम् शिक्षकदिनम् शिक्षकदिवसस्य आचरणम्भारतम् शिक्षकदिनम् शिक्षकाणां सम्माननम्भारतम् शिक्षकदिनम्आङ्ग्लभाषाभारतशिक्षकदिनम्.oggसञ्चिका:शिक्षकदिनम्.oggसर्वपल्ली राधाकृष्णन्हिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

५३०चन्द्रलेखा१८५०विश्वनाथः (आलङ्कारिकः)अक्षरं ब्रह्म परमं...भौतिकशास्त्रम्सेम पित्रोडा१८५३व्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)जिबूटीसितम्बरसंयुक्तराज्यानिऋतवःचलच्चित्रम्संशोधनस्य प्रयोजनानितुलसीदासःपुनर्जन्म१५७४स्लम्डाग् मिलियनेर्१९०१सुबन्धुःसंस्कृतविकिपीडियायास्कःतत्पुरुषसमासः१६४८१५०७जून ९मामुपेत्य पुनर्जन्म...मदर् तेरेसायवनदेशःब्रह्माकवकम्पुनर्गमनवादपारदः१५४२२५८नदी११३७लक्ष्मीबाईभारतीयदार्शनिकाःयोगः३२सिद्धराज जयसिंहसितम्बर २१अग्रिजेन्तोलेलिह्यसे ग्रसमानः...१८६९संभेपूस्वसाट्यूपसहजं कर्म कौन्तेय...संस्कृतभारत्याः कार्यपद्धतिःमाण्डूक्योपनिषत्चार्वाकदर्शनम्केशव बलिराम हेडगेवारगेन्जी इत्यस्य कथाज्येष्ठाचन्द्रिकावलसाडमण्डलम्साङ्ख्यदर्शनम्बाली१४७८द्वितीयविश्वयुद्धम्द्युतिशक्तिःमान्ट्पेलियर्, वर्मान्ट्कठोपनिषत्२१ फरवरीदीपावलिःज्ञानम्अर्थशास्त्रम् (शास्त्रम्)🡆 More