राजशेखरः (Rajashekhar) स्वनाटकप्रस्तावनासु स्वजीवनसम्बन्धे यदुक्तवांस्तदाधारेण यायावरवंशेऽस्य जन्माऽऽसीत् । अयं राजशेखरो महाराष्ट्रदेशीय अकालजलदस्य पौत्रः दर्दुकस्य शीलवत्याश्च पुत्र आसीत् । अयं क्षत्रियकन्यां चौहानवंशोद्भवाम् अवन्तिसुन्दरीं नाम ललनामुपयेमे । इयमवन्तिसुन्दरी महाविदुषी बभूव । राजशेखरः पाकपरिभाषाविषये तन्मतमप्युपन्यस्तवान् । यथा- ‘आग्रहपरिग्रहादपि पदस्थैर्व्यवसायः, तस्मात्पदानां परिवृत्तिवैमुख्यं पाक इति वामनः । ‘इयमशक्तिर्न पुनः पाकः’ इत्यवन्तिसुन्दरी । हेमचन्द्रः देशीयनाममालायाम् अवन्तिसुन्दरीकृतं ‘देसीयशाब्दकोषम्’ स्मृतवान्, तथाऽवन्तिसुन्दर्या कृतं कतिपयशब्दानां नवस्यार्थस्य चर्चामपि कृतवान् । अवन्तिसुन्दर्याः प्राकृतकविताप्रियतायाः प्रमाणमिदं यत्तदनुरोधेनैव राजशेखरः कर्पूरमञ्जरीसट्टकं प्राकृतभाषामयं निर्मितवान् ।
महाराष्ट्रदेशोद्भवोऽयं कान्यकुब्जराजस्योपाध्यायपदमलंकृतवान् । एतदाश्रयदातुर्नाम महेन्द्रपाल इत्यासीद्यः प्रतिहारवंश्यनृपेषु गौरवशाली समाख्यातः । एतदादेशेनैव बालरामायणं प्रथममभिनीयते स्म । कियतः कालस्य कृतेऽयमन्यं कञ्चन नृपमप्याश्रयत् । यदादेशेन विध्दशालभञ्जिकाया अभिनयो जातः । महेन्द्रपालानन्तरमयं पुनस्तत्तनयस्य महीपालस्य सभ्यभावेन स्थितः यदादेशेन बालभारतस्याभिनयः प्रथमं पदमधत्त ।
एषां राज्ञां कालस्य पर्यालोचनया राजशेखरस्य कालः ख्रीष्टनवमशतकस्यावसानभागो दशमशतकस्य पूर्वभागश्च सिद्धयति । यं महेन्द्रपालमयं स्मरति तेन कारितौ शिलालेखौ १०३, १०७ ख्रीष्टाब्दयोरुत्कीर्णौ, नवमशतकोत्पन्नमानन्दवर्धनमयमुध्दरति, मुञ्जस्य (९७५-९९३) कृपाश्रयेण धनञ्जयेन चायं स्मर्यते, (सर्वमपीदम्मदुक्तमनुमोदयति) ।
अयम् एकः संस्कृतकविः, आलङ्कारिकः शास्त्रकारश्च आसीदिति पण्डिता आमनन्ति । क्षत्रियकुलावतंसस्य चौहानवंशस्य अनर्घ्यरत्नम् " अवन्तिसुन्दरी" इति कन्यारत्नम् अस्य कलत्रम् । राजशेखरः यायावरवंशीयः इति इतिहासः ब्रवीति । एतस्य पिता दुहिकः(दुर्दुकः), माता शीलवती । क्रि.शक नवमशताब्दान्ते दशमशताब्दादौ वा महाराष्ट्रप्रदेशे एषः आसीदिति ज्ञायते । एतेन नाटकान्यपि विरचितानि, अतः ’नाटकान्तं कवित्वम्’ इतिलोकोक्त्यनुसारं स्वस्य कवित्वम् प्रत्यपादयत् । क्रिस्तशके नवमे शतमाने ई.८८४तः ९९१ संवतः मध्यकाले राजशेखर आसीदिति इतिहासज्ञाः अभिप्रयन्ति । अयं दशमे शतमाने आसीदिति भाण्डारकरपण्डितस्याभिप्रायः । महाराष्ट्रम् अस्य जन्मस्थानम् । एष कान्यकुब्जे राज्ञः महेन्द्रपालस्य आस्थाने कविरासीत्, अपि च यायावरकुलोत्पन्नस्य अकालजलदनाम्नः अलब्धकृतेः कवेः प्रपौत्र आस इत्यपि तस्यैव ग्रन्थद्वारा ज्ञातुं शक्यते । यतः बालरामायणे स्वयम् अकालजलदं स्तौति, यथा- " स मूर्तो यत्रासीद् गुणगण इवाकालजलदः, सुरानन्दः सोऽपि श्रवणपुटपेयेन वचसा । न चान्ये गण्यन्ते तरल कविराजप्रभृतयो, महाभागस्तस्मिन्नयमजनि यायावरकुले ॥ तदामुष्यायणस्य महाराष्ट्रचूडामणेः अकालजलदस्य चतुर्थो दौर्दुकिः (प्रपौत्रः) शीलवतीसूनुः उपाध्यायः श्रीराजशेखरः" इति । अयं ब्राह्मणो वा क्षत्रियो वा इति विषये साहित्यविमर्शेषु महती चर्चा प्रवृत्ता दृश्यते ।
राजशेखरः संस्कृत-प्राकृत-पैशाच्यपभ्रंशाभिधासु चतसृष्वपि भाषासु निपुणो विद्वानत एव तस्मिन् कविराज इति संज्ञाऽन्वर्था । तन्मतानुसारेणैकाधिकभाषायां सफलकविरेव कविराज इति कथ्यते । राजशेखरस्य शब्दगुम्फनव्यग्रता तस्य शब्दकवित्वं प्रकाशयति, वर्णननैपुण्यं पुनस्तस्य तत्राप्यव्याहतमेव, यथा कर्पूरमञ्जर्याम् ।
परं ज्योत्स्ना उष्णा गरलसदृशश्चन्दनरसः
क्षतक्षारो हारो रजनिपवना देहपतनाः।
मृणाली बाणाली ज्वलयति च जलस्तनुलतां
वरिष्ठा यद् दृष्टा कमलवदना सा सुनयना ॥
राजशेखरः विचक्षणः विनयशाली च । भाषाविषये कर्पूरमञ्जर्याम् अनेन कृतं निर्वचनम्, भाषाविषये कलहायमानानाम् आधुनिकानां कृते उपदेशायमानम् सत्, भाषाविचारे संस्कृतज्ञानां निरहङ्कारितां च द्योतयति । यथा-
एवं वदता राजशेखरेण समाजस्वास्थ्याय अनुपमम् सूत्रमेकं निरमायि, भाषादुरभिमानिनः परिभावयन्, स्वयं च कीर्तिमेरुं समारोहत् । सः स्वस्य कृतिषु अनेकान् प्राक्तनकवीन् कीर्तयति । सचानेकैः कविभिः शास्त्रकारैश्च प्रस्तूयते । महान् आलङ्कारिकः क्षेमेन्द्रः स्वस्य औचित्यविचारचर्चा इति ग्रन्थे राजशेखरस्य कविताम् उदाहरति, यथा-
This article uses material from the Wikipedia संस्कृतम् article राजशेखरः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.