माण्डूक्योपनिषत् प्रमुखासु दशसु उपनिषत्सु अन्यतमा वर्तते । इयम् उपनिषत् अथर्ववेदे अन्तर्भवति । अस्याम् उपनिषदि १२ मन्त्राः विद्यन्ते । क्षराक्षरवस्तुनिर्देशरूपस्य ओङ्कारस्य व्याख्यानमेव अत्र प्रमुखः उद्देशः । अतः तस्य उपव्याख्यानम् तन्नाम् ओङ्कारस्य उपव्याख्यानम् इति आरम्भवाक्ये एव निर्दिष्टं वर्तते ।
'ओङ्कारः' इत्येतद् अत्यन्तं व्यापकः ब्रह्मनिर्देशः । सदसत्, क्षराक्षरम्, दृश्यादृश्यम्, आत्मानात्मा, चिदचित् इत्येतत् सर्वमपि ओङ्कारेण निर्दिष्टानि भवन्ति । अपि च आत्मानात्मातीतम् अनिर्देश्यसत्यमपि अनेन ओङ्कारेण एव निर्दिष्टं भवति । विद्यमानं सर्वमपि ओङ्कारः एव । ओङ्कारः एव सकलस्य अस्तित्वस्य निर्देशरूपः । ओङ्कारे सर्वम् अन्तर्भूतम् । सर्वमपि ओङ्कारः । ओङ्कारः एव सर्वम् ।
ओङ्कारः निर्देशमात्रम् । निर्दिष्टं वस्तु तु आत्मा एव । सः आत्मा एव बहु रूपाणि धृत्वा विश्वे प्रवर्तते । आत्मा अनन्तरूपः इत्यतः असङ्ख्यरूपाणां धारणेन अपि नष्टः न भविष्यति । न केनापि दोषेण लिप्तः भवति । आत्मना अनेकानि विश्वानि सृष्टानि चेदपि तदीयं शुद्धस्वरूपम् अखण्डं तिष्ठति । आत्मनि अवस्थाभेदाः भवन्ति । किन्तु आत्मतत्त्वे भेदः न भविष्यति । न किञ्चित् परिवर्त्यते । अवस्थाभेदाः भवति चतुर्धा । अतः आत्मा अवस्थाचतुष्टयेन युक्तः इति निर्दिश्यते । मानवः चैतन्ययुक्तः आत्मज्ञानस्य प्राप्तौ समर्थः इत्यतः सः आत्मनः अवस्थाचतुष्टयमपि स्वस्य चित्ते अनुभोक्तुम् अर्हति ।
मनुष्ये आत्मतत्त्वं सूक्ष्मरूपेण निवसति । तेन अवस्थान्तराणि अपि प्राप्यन्ते । मनुष्ये विद्यमानम् आत्मतत्त्वम् एव जीवात्मा इति निर्दिश्यते । अयं जीवात्मा प्रतिदिनम् अवस्थात्रयम् अनुभवति । ताः एव जागृत्-स्वप्न-सुषुप्तिश्च ।
जागृदवस्थायां जीवात्मा स्थूलवस्तूनां तन्नाम पञ्चेन्द्रियैः गोचरचराणां वस्तूनाम् अनुभवं प्राप्नोति । अपि च तदा अस्य स्थूलदेहस्य अभिमानी भवति । रस-रक्त-मांस-मेद-अस्थि-मज्जा-वीर्य-इत्येतैः सप्तभिः धातुभिः युक्तम् इदं शरीरं जागृदवस्थायां युक्तस्य जीवात्मनः उपभोगसाधनम् । अस्याम् अवस्थायां स्थितम् आत्मानं वैश्वानरः इति निर्दिशन्ति । अस्याम् अवस्थायां जीवात्मा पञ्चज्ञानेन्द्रिय-पञ्चकर्मेन्द्रियैश्च जगद्व्यापारं निर्वहति । मन-बुद्धि-चित्त-अहङ्कारतत्त्वैः युक्तः विद्यते ।
स्वप्नावस्थायां जीवात्मा लिङ्गशरीरस्य तन्नाम सूक्ष्मशरीरस्य अभिमानी भवति । सूक्ष्मेन्द्रियैः वासनानि उपभुङ्क्ते । एतस्यां स्थितौ मन-बुद्धि-चित्त-अहङ्काराः सूक्ष्मरूपेण वासनानाम् उपभोगे सहकुर्वन्ति । अस्याम् अवस्थायां विद्यमानं तैजसः इति निर्दिश्यते ।
सुषुप्तावस्थां प्राप्तवान् जनः प्राज्ञः इति निर्दिश्यते । अस्यां स्थितौ बाह्यविषयोपभोगस्य आशा लुप्ता भवति । कापि वासना चित्ते न विद्यते इत्यतः जीवात्मा स्वप्नान् अपि न पश्यति । अस्याम् अवस्थायां वस्त्ववगमनसामर्थ्यं भवति इत्यतः प्रज्ञानं निश्चलं सत् घनं भवति । एषा स्थितिः चैतन्यघनस्थितिः इति निर्दॆष्टुं शक्यम् । अस्यां स्थितौ जीवात्मा शुद्धचैतन्येन चित्सुखम् अनुभवति । अस्यां स्थितौ जीवात्मा बाह्यव्यापाररहितः सन् स्वस्मिन् लीनः भवति इत्यतः तेन स्वीया आनन्दस्थितिः प्राप्यते ।
इतः अतीता अवस्था एव तुरीयावस्था । अस्य अनुभवः सामान्यैः न प्राप्येत । योगाभ्यासेन, परमात्मप्रसादेन, गुर्वनुग्रहेण वा येन समाधिस्थितिः अनुभूता तेन तुरीयावस्था परिचिता स्यात् । एषा शुद्धा आत्मस्थितिः । जीवात्मा समस्तैः बन्धनैः विमुक्तः सन् अनन्ते परमात्मनि लीनः सन् अवर्णनीयम् अनुपमम् आनन्दम् अनुभवति अस्यां स्थितौ । त्रिगुणातीता अवस्था एषा । इयं स्थितिः इन्द्रियागोचरा, लक्षणरहिता, आत्मसाक्षात्कारेणैव ज्ञातुं योग्या इति च कवीनां निर्णयः । अस्यां स्थितौ सर्वे अपि व्यापाराः स्थगिताः भवन्ति । सम्पूर्णा शान्तिः अनुभूयते । केवलाद्वैतस्य अनुभवः भवति ।
ओङ्कारः अकार-उकार-मकारैः युक्तः ।
वैश्वानरः एव अकारः इति निर्दिश्य ऋषयः अकारस्य निरुक्तं वदन्ति । अक्षरेषु प्रथमम् इत्यतः अस्य ज्ञानेन (स्थूलसृष्टेः ज्ञानेन) सर्वं प्राप्यते इत्यतः अकारः इति कथ्यते ।
तैजसः एव उकारसंज्ञकः । अस्य ज्ञानेन ज्ञानोत्कर्षः भवति, मनुष्यः समानः भवति, साम्यदृष्टियुक्तः भवति । उकारः, अकार-मकारयोः मध्ये समानरूपेण भवति इत्यतः तस्य ज्ञानेन मनुष्यः समानः भवति, सामदृष्टियुतः भवति इति उकारस्य निरुक्तिः उक्ता ।
मकारं नाम प्राज्ञम् इति । सर्वासां शक्तीनां मापनसामर्थ्यम् अस्मिन् विद्यते एकरूपता विद्यते इति च मकारस्य निरुक्तिः उक्ता कविभिः ।
अयम् ओङ्कारः चतुर्थायाः तुरीयावस्थायाः संज्ञा इति उपनिषत्कारैः निरूपितम् अस्ति । सः मात्रारहितः, निरुक्तरहितः, शान्तः, अद्वैतश्च । तस्य ज्ञानमेव श्रेष्ठतमं ज्ञानम् । तस्य ज्ञानेनैव परमस्थितेः प्राप्तिः । चतुर्थावस्थायां स्थितिः एव निर्विकल्पसमाधिस्थितिः । आत्मवस्तु सर्वदा समानं सत् स्वस्य सङ्कल्पेनैव अवस्थाभेदं प्राप्नोति । इमाम् अवस्थां प्राप्य जीवात्मा कृतार्थः भवति । इदं सर्वं चैतन्यमयं, ज्ञानमयम् आत्मनः क्रीडामात्रम् इत्येतदेव अस्याः उपनिषदः सारांशः ।
माण्डूक्योपनिषदि आत्मा, तस्य चतस्रः अवस्थाः, आत्मनिर्देशः ओङ्कारः इत्येते विषयाः प्रस्तुताः सन्ति । ग्रन्थविषयाः महत्त्वपूर्णाः, व्यापकाः, कठिनाश्च वर्तन्ते । तथापि अत्रत्या प्रतिपादनशैली सरला सुलभा च वर्तते । अस्याम् आत्मा ब्रह्म इत्येतौ शब्दौ आत्यन्तिकसत्यमित्यर्थे निर्दिष्टौ स्तः । आत्यन्तिकसत्यस्य संक्षिप्तपरिचयं कारयित्वा तस्य सत्यस्य निर्देशमन्त्रस्य ओङ्कारस्य उपदेशं कृतवन्तः सन्ति उपनिषत्काराः ।
This article uses material from the Wikipedia संस्कृतम् article माण्डूक्योपनिषत्, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.