मार्क्सवादी भारतीयसाम्यवादिपक्षः

भारतीयसाम्यवादिपक्षः(मार्क्सवादी) (CPI(M)) भारतवर्षस्य अन्यतमराजनैतिकपक्षः । केरळे, पश्चिमबङ्गे तथा त्रिपुरायाम् अयं पक्षः गुरुत्वपूर्ण-राजनैतिकशक्तिरूपेण प्रतिष्ठितः । साम्यवादिपक्षस्य(मार्क्सवादी) वर्तमानकाले त्रिपुराराज्ये सर्वकारः अस्ति । १९६४ तमे वर्षे अस्य पक्षस्य स्थापना अभूत् ।

भारतीयसाम्यवादिपक्षः(मार्क्सवादी)
निर्माणम् १९६४
संवादपत्रिका जनसाधारणस्य गणतन्त्रम्
महिलाविभागः सर्वभारतीयगणतन्त्रिक-महिलासंगठनम्
कृषकविभागः सर्वभारतीयकृषकसभा
विचारधारा साम्यवादः
मार्क्सवादः–लेलिनवादः
राजनैतिकस्थितिः वामपन्थी
भारतीयनिर्वाचनायोगः Status प्रचलितराष्ट्रियपक्षः
मैत्रीकूटः वामपक्षः
लोकसभासदस्यसंख्या
१६ / ५४५
राज्यसभासदस्यसंख्या
११ / २४५
जालस्थानम्
cpim.org

प्रसङ्गः

नामौचित्यम्

साम्यवादिपक्षः(मार्क्सवादी) (सि पि आइ (एम्)) इति अस्य पक्षस्य आधिकारिकनाम तथापि हिन्दीभाषायां, सांवादिकगणमाध्यमेषु "भारत की कम्युनिस्ट पार्टी मार्क्सवादी" अथवा कदाचित् "मार्क्सवादी कम्युनिस्ट पार्टी" इत्यपि नाम्ना श्रूयते । १९६४ तमे वर्षे मूलसाम्यवादिपक्षतः विभाजनानन्तरं पक्षस्य विवधनामानि आसन् यथा- "वामपन्थी कम्युनिस्ट पार्टी", "भारतीय कम्युनिस्ट पार्टी (वामपन्थी)" इत्यादीनि । १९६५ तमे वर्षे केरळविधानसभानिर्वाचने पक्षः भारतीयनिर्वाचनायोगे साम्यवादिपक्षः(मार्क्सवादी) इति नाम पञ्जीकृतवान् । अनन्तर्वर्तीकाले इयमेव आख्या प्रचलिता जाता ।

इतिहासः

मार्क्सवादी भारतीयसाम्यवादिपक्षः 
ज्योति बसु

साम्यवादीपक्षस्य विभाजनम्

  • भारतीयसाम्यवादिपक्षस्य विभाजनानन्तरं साम्यवादिपक्षः(मार्क्सवादी) {सि पि आइ (एम्)} इति पक्षस्य उद्भवः । द्वितीयविश्वयुद्धकाले अविभक्तः सि पि आइ-पक्षः एकाधिकगणाभ्युत्थानस्य साक्षी आसीत् । अयं पक्षः तेलेङ्गाना-त्रिपुरायाम् एवं केरळे विप्लवेषु नेतृत्वं कृतवान् ।
  • १९५९ तमे वर्षे भरतवर्षे काङ्ग्रेसेतरज्यसर्वकारः केवलं केरळे आसीत् । केन्द्रीयसर्वकारः एम् एस् नम्बुदरि-नेतृत्वाधीनसर्वकारं पातयित्वा राष्ट्रपतेः शासनम् आरोपितवान् ।
  • विंशतिशतब्देः षष्टशतके भारतीयसाम्यवादिपक्षस्य सोवियेत् यूनियन्-देशस्य साम्यवादिपक्षेण (सि पि एस् यु) तथा चीनदेश्स्य साम्यवादुपक्षेण (सि पि सि) सह पारस्परिकसंपर्कस्य अवनति अभूत् । चीनदेश्स्य सि पि सि-पक्षः सि पि एस् यु-पक्षस्य निन्दाम् अकरोत् यत्- ते मार्क्स-लेलिनवादं त्यक्तवन्तः इति । भारत-चीनदेशयोः वैदेशिकसम्पर्कस्याऽपि अवनति अभूत्।
  • भारत-चीनयुद्धकाले केचन् भारतीयसाम्यवादिजनाः भारतसर्वकारं समर्थितवन्त । अपरपक्षानुसारम् इदं युद्धं समाजतान्त्रिकराज्यस्य तथा धनतान्त्रिकराज्यस्य संघर्षः एव आसीत् । भारतीयसाम्यवादिपक्षस्य इयं द्विरुक्तिः विचारधाराविरोधात् आसीत् । भारतीयसाम्यवादिपक्षस्य विभाजने इयमेव मुख्यकारणीभूता आसीत् । अनन्तर्वतीकाले(१९६४) भारतीयमतावलम्बिनः भारतीयसाम्यवादिपक्षस्य(मार्क्सवादी) (सि पि आइ (एम्)) स्थापनां कृतवन्तः ।
  • २००४ तमे वर्षे साधारणलोकसभानिर्वाचने सि पि आइ (एम्)-पक्षेण ५.६६ प्रतिशतं मतानि लब्धानि । अस्य पक्षस्य ४३ लोकसभासदस्याः निर्वाचिताः आसन् । पक्षोऽयं केन्द्रीयसर्वकारं समर्थनम् अकरोत् । परन्तु २००८ वर्षस्य जुलै मासस्य नवमदिनाङ्के भारत-आमेरिका-परमाणुसन्धेः(आइ ए इ ए) विरोधं कृत्वा समर्थनप्रत्याहारम् अकरोत् । अनन्तरकालीने निर्वाचने पक्षस्य लोकसभासदस्यसंख्या १६ आसन् ।
  • २०११ तमे वर्षे सि पि आइ(एम्)-पक्षस्य सर्वकारयोः पतनम् (केरळे तथा पश्चिमबङ्गे) अभवत् । पश्चिमबङ्ग-विधानसभानिर्वाचने सर्वभारतीयतृणमूलकांग्रेसपक्षः एवं भारतीयराष्ट्रियकांग्रेसपक्षः उभयपक्षयोः संयोजितप्रयासेन ३४ वर्षं यावत् प्रचलितायाः शासनपरम्परायाः (वामपन्थिसर्वकारस्य) पतनम् अभवत् ।

सङ्घटनस्य स्तराः

  • पोलिट्ब्युरो (पि बि)
  • केन्द्रीयसमितिः (सि सि)
  • राज्यसमितिः (एस् सि)
  • मण्डलसमितिः

पोलिट्ब्युरो (पि बि)सदस्याः

मार्क्सवादी भारतीयसाम्यवादिपक्षः 
प्रकाश कारात्

वर्तमाने सि पि आइ (एम्)-पक्षस्य पञ्चदशसदस्याः पोलिट्ब्युरे सन्ति । एते यथा-

  • प्रकाश कारात्
  • सीताराम येचुरी
  • एस् रामचन्द्रन् पिल्लई
  • बुद्धदेब भट्टाचार्य
  • मानिक सरकार
  • बिमान बसु
  • पिणराई विजयन्
  • के वरदराजन्
  • बि वि राघवुलु
  • ब्रिन्दा कारात्
  • निरुपम सेन
  • के बालकृष्णन्
  • सूर्यकान्त मिश्र
  • एम् ए बबि

पक्षस्य सदस्यसंख्या

मार्क्सवादी भारतीयसाम्यवादिपक्षः 
पक्षस्य सभा

भारतीयसाम्यवादिपक्षानुसारं समग्रभारते पक्षस्य ८,६७,७६३ कार्यकर्तारः सन्ति । प्रतिराज्यं सदस्यसंख्यायाः विवरणम् प्रस्तूयते-

राज्यम् २००१ २००२ २००३ २००४
आन्ध्रप्रदेशराज्यम् ४०७८५ ४१८७९ ४५५१६ ४६७४२
असमराज्यम् १०४८० ११२०७ १११२२ १०९०१
अण्डमाननिकोबारद्वीपसमूहः १७२ १४० १२४ ९०
बिहारराज्यम् १७६७२ १७४६९ १६९२४ १७३५३
छत्तीसगढराज्यम् १२११ १३६४ १०७९ १०५४
देहली ११६२ १३६० १४१७ १४०८
गोवाराज्यम् १७२ ३५ ४० ६७
गुजरातराज्यम् २७९९ ३२१४ ३३८३ ३३९८
हरियाणाराज्यम् १३५७ १४७८ १४७७ १६०८
हिमाचलप्रदेशराज्यम् १००५ १००६ १०१४ १०२४
जम्मूकाश्मीरराज्यम् ६२५ ७२० ८३० ८५०
झारखण्डराज्यम् २५५२ २८१९ ३०९७ ३२९२
कर्णाटकराज्यम् ६५७४ ७२१६ ६८९३ ६४९२
केरळराज्यम् ३०१५६ ३१३६५२ ३१८९६९ ३१६३०५
मध्यप्रदेशराज्यम् २२४३ २८६२ २४८८ २३२०
महाराष्ट्रराज्यम् ८५४५ ९०८० ९७९६ १०२५६
मणिपुरराज्यम् ३४० ३३० २७० ३००
ओडिशाराज्यम् ३०९१ ३४२५ ३५०२ ३६५८
पञ्जाबराज्यम् १४३२८ ११००० ११००० १००५०
राजस्थानराज्यम् २६०२ ३२०० ३५०७ ३१२०
सिक्किमराज्यम् २०० १८० ६५ ७५
तमिऴनाडुराज्यम् ८६८६८ ९०७७७ ९१७०९ ९४३४३
त्रिपुराराज्यम् ३८७३७ ४१५८८ ४६२७७ ५१३४३
उत्तराखण्डराज्यम् ७०० ७२० ७४० ८२९
उत्तरप्रदेशराज्यम् ५१६९ ५५४१ ५४७७ ५८७७
पश्चिमबङ्गराज्यम् २४५०२६ २६२८८२ २५८६८२ २७४९२१
केन्द्रीयसमितेः सदस्याः ९६ ९५ ९५ ८७
समग्रः ७९६०७३ ८३५२३९ ८४३८९६ ८६७७६३

पक्षस्य साधारणसभापतयः

क्रमः नाम दायित्वकालः
प्रथमः पि सुन्दरय्या १९६४–१९७८
द्वितीयः इ.एम्.एस्. नम्बुदिरिपाद् १९७८–१९९२
तृतीयः हरकिषण सिंह सुरजीत् १९९२–२००८
चतुर्थः प्रकाश कारात् २००८–


Tags:

मार्क्सवादी भारतीयसाम्यवादिपक्षः प्रसङ्गःमार्क्सवादी भारतीयसाम्यवादिपक्षः नामौचित्यम्मार्क्सवादी भारतीयसाम्यवादिपक्षः इतिहासःमार्क्सवादी भारतीयसाम्यवादिपक्षः सङ्घटनस्य स्तराःमार्क्सवादी भारतीयसाम्यवादिपक्षः पोलिट्ब्युरो (पि बि)सदस्याःमार्क्सवादी भारतीयसाम्यवादिपक्षः पक्षस्य सदस्यसंख्यामार्क्सवादी भारतीयसाम्यवादिपक्षः पक्षस्य साधारणसभापतयःमार्क्सवादी भारतीयसाम्यवादिपक्षःकेरळराज्यम्त्रिपुराराज्यम्पश्चिमबङ्गराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

ऋतुसंहारम्एस् एम् कृष्णामातृगया (सिद्धपुरम्)बुद्धेर्भेदं धृतेश्चैव...भारतीयभूसेनाभारतम्भौतिकशास्त्रम्६५२सिल्भरऋष्यशृङ्गः१५१८९४६९३१हिरोहितोरीतिसम्प्रदायःभारतमातारास्याअनुष्टुप्छन्दःपृथ्वीहरिदासाःप्राणायामःअत्र तत्रबृहद्देवता१५४८मोघलसाम्राज्‍यम्४२२अलङ्कारशास्त्रम्दीपावलिःबलियामण्डलम्१३६६चम्पूकाव्यम्पुराणम्३२९वेदाङ्गम्७५६नक्षत्रम्विकिपीडियाSanskritजलम्१७४नीतिशतकम्उत्तररामचरितम्दुर्गोष्ठ्याः सिद्धान्तः८२महाकाव्यम्ब्राह्मीलिपिः१२९राष्ट्रध्वज१६७८पर्वताःअभयं सत्त्वसंशुद्धिः...रामनाथ कोविंदभारतस्य भाषाः११४४४५२संस्कृत भारतीलोजबानम्कठोपनिषत्वात्स्यायनः९४४अभिज्ञानशाकुन्तलम्१५४३तर्कसङ्ग्रहःनासिका२२८गौःरिच्मन्ड्अम्बेडकरनगरमण्डलम्८८५Haryanaअमरकोशःअफगानिस्थाने हिन्दुधर्मःएडवर्ड ७२२२नेपालदेशःबुद्धप्रस्थभारतस्य केन्द्रशासितप्रदेशाः🡆 More