पश्यामि देवांस्तव देव...

श्लोकः

पश्यामि देवांस्तव देव... 
गीतोपदेशः

अर्जुन उवाच-

    पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।
    ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः

पश्यामि देवान् तव देव देहे सर्वान् तथा भूतविशेषसङ्घान् ब्रह्माणम् ईशं कमलासनस्थम् ऋषीन् च सर्वान् उरगान् च दिव्यान् ॥ १५ ॥

अन्वयः

देव ! तव देहे सर्वान् देवान् तथा भूतविशेषसङ्घान् कमलासनस्थं ब्रह्माणम् ईशं सर्वान् ऋषीन् च दिव्यान् उरगान् च पश्यामि ।

शब्दार्थः

    देव = ईश्वर
    तव देहे = तव शरीरे
    सर्वान् = सकलान्
    देवान् = सुरान्
    तथा = तथा
    भूतविशेष-सङ्घान् = भूतविशेषसमुदायान्
    कमलासनस्थम् = कमलायमानभूमौ मध्ये कर्णिकासदृशे मेरौ स्थितम्
    ब्रह्माणम्= चतुर्मुखम्
    ईशम् = ईश्वरम्
    सर्वान् = सकलान्
    ऋषीन् च = मुनीन् च
    दिव्यान् = दिवि स्थितान्
    उरगान् च =सर्पान् च
    पश्यामि = अवलोकयामि ।

अर्थः

देव ! तव शरीरे सकलान् देवान् तथा स्थावरजङ्गमात्मकभूतविशेषसमुदायान्, कमलकर्णिका-सदृशे भूमध्यस्थिते मेरौ आसीनं ब्रह्माणम्, पार्वतीपतिम् ईश्वरम्, सकलान् ऋषीन् मुनीन्, दिवि स्थितान् सर्पान् च पश्यामि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

पश्यामि देवांस्तव देव... श्लोकःपश्यामि देवांस्तव देव... पदच्छेदःपश्यामि देवांस्तव देव... अन्वयःपश्यामि देवांस्तव देव... शब्दार्थःपश्यामि देवांस्तव देव... अर्थःपश्यामि देवांस्तव देव... सम्बद्धसम्पर्कतन्तुःपश्यामि देवांस्तव देव... सम्बद्धाः लेखाःपश्यामि देवांस्तव देव...

🔥 Trending searches on Wiki संस्कृतम्:

०४. ज्ञानकर्मसंन्यासयोगःकरतलम्आत्मासिरियासेम पित्रोडाअलाबु२०१५नासाजनकःशर्कराजून२४ अप्रैलआकाशवाणी(AIR)भारतीयप्रौद्यौगिकसंस्थानम्जपान्लेबनानभारतेश्वरः पृथ्वीराजःफ्रान्सदेशःसंहतिः (भौतविज्ञानम्)प्पियर सिमों लाप्लासमलेशियारजनीशः२५ अप्रैलमानवविज्ञानम्कुवैतलोकेऽस्मिन् द्विविधा निष्ठा...अक्षरमाला१००३पेले२६मातृकाग्रन्थः१४३५सूरा अल-फतिहा४ जुलाईवयनाट् लोकसभा मण्डलम्भौतिकी तुलामधुकर्कटीफलम्१६१५मिनेसोटावेदान्तःसङ्गीतम्वात्स्यायनःफेस्बुक्स्तोत्रकाव्यम्स्वामी विवेकानन्दःमेजर ध्यानचन्दजीवनीचातुर्वर्ण्यं मया सृष्टं...द हिन्दूआर्यभटःयवःजिम्बाबवे१७३९शुष्कफलानि4.1 जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयःरीतिसम्प्रदायःउर्वारुकम्रसःद्विचक्रिकाकारगिलयुद्धम्उपसर्गाःनिरुक्तम्जलम्स्वास्थ्यम्महाकाव्यम्अस्माकं तु विशिष्टा ये...१५१४१ फरवरी९ जूनद्वितीयविश्वयुद्धम्पञ्चमहायज्ञाःसंयुक्ताधिराज्यम्क्षेमेन्द्रः🡆 More