ततः पदं तत्परि...: भगवद्गीतायाः श्लोकः १५.४

श्लोकः

ततः पदं तत्परि...: श्लोकः, पदच्छेदः, अन्वयः 
गीतोपदेशः
    ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।
    तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः

ततः पदं तत् परिमार्गितव्यं यस्मिन् गताः न निवर्तन्ति भूयः तम् एव च आद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥

अन्वयः

अस्य रूपम् इह न उपलभ्यते तथा न अन्तः न च आदिः न च सम्प्रतिष्ठा । सुविरूढमूलम् एनम् अश्वत्थं दृढेन असङ्गशस्त्रेण छित्त्वा, ततः यतः पुराणी प्रवृत्तिः प्रसृता तम् एव च आद्यं पुरुषं प्रपद्ये इति मत्वा यस्मिन् गताः भूयः न निवर्तन्ति तत् पदं परिमार्गितव्यम् ।

शब्दार्थः

    सम्प्रतिष्ठा = स्थितिः (मध्यः)
    सुविरूढमूलम् = सुदृढमूलम्
    असशस्त्रेण = वैराग्यायुधेन
    छित्त्वा = द्विधा कृत्वा
    पदम् = स्थानम्
    परिमार्गितव्यम् = अन्वेष्टव्यम्
    पुराणी = प्राचीना
    प्रवृत्तिः = संसारप्रवृत्तिः
    प्रसृता = प्रवृत्ता
    आद्यम् = प्रथमम्
    पुरुषम् = परमपुरुषम्
    प्रपद्ये = प्राप्नोमि ।

अर्थः

अस्य अश्वत्थवृक्षस्य ऊर्ध्वमूलत्वादिकं यत्स्वरूपं पूर्वमुक्तं तत् केनापि ज्ञातुं न शक्यते तथा अस्य आदिः मध्यः अन्तश्च ज्ञातुं न शक्यते । तादृशम् एनम् अनिष्टफलजनकम् अश्वत्थवृक्षं वैराग्यशस्त्रेण विनाश्य सर्वेऽपि पुरुषाः तं महापुरुषं ध्यायन्तः तादृशं स्थानं शोधयेयुः यत् स्थानं प्राप्ताः पुनः न संसारं प्राप्नुवन्ति, यस्मादेव च अयमनादिः संसारः सम्पन्नो वर्तते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

ततः पदं तत्परि... श्लोकःततः पदं तत्परि... पदच्छेदःततः पदं तत्परि... अन्वयःततः पदं तत्परि... शब्दार्थःततः पदं तत्परि... अर्थःततः पदं तत्परि... सम्बद्धसम्पर्कतन्तुःततः पदं तत्परि... सम्बद्धाः लेखाःततः पदं तत्परि...

🔥 Trending searches on Wiki संस्कृतम्:

लेबनान२९ अप्रैलशुष्कफलानि4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःरघुवंशम्१७४६विचेञ्जावेदःसिरियामातृकाग्रन्थः२३ जनवरी१९ जूनजूनअजर्बैजानइस्लाम्-मतम्कच्छमण्डलम्१५२५न्बिजनौरपरित्राणाय साधूनां...भारतीयदर्शनशास्त्रम्अस्माकं तु विशिष्टा ये...रजनीशःवीर बन्दा वैरागीमन्त्रःरसःजाम्बियाव्लादिमीर पुतिनकर्मणैव हि संसिद्धिम्...स्त्रीकोस्टा रीकाविकिःस्वामी विवेकानन्दः२६ सितम्बरसिकन्दर महान२६कणादःसाङ्ख्यदर्शनम्नीतिशतकम्पुनर्जन्ममत्त (तालः)सुहृन्मित्रार्युदासीनम्...पर्यावरणशिक्षाखण्डशर्कराविकिस्रोतःइस्रेलशुक्लरास्यासङ्गणकम्हरीतकीजैनदर्शनम्विश्रवाःटेबल्-टेनिस्-क्रीडाएम् जि रामचन्द्रन्मयि सर्वाणि कर्माणि...चम्पादेशःबिहार विधानसभाबुद्धप्रस्थअन्तरतारकीयमाध्यमम्मोहम्मद रफीसमयवलयःसोडियमप्यामेघदूतम्सेम पित्रोडाबहूनि मे व्यतीतानि...विल्हेल्म् कार्नार्ड् रोण्ट्जेन्दक्षिणकोरिया४ जुलाईपतञ्जलिस्य योगकर्मनियमाः१६१५🡆 More