डिण्डोरीमण्डलम्

डिण्डोरीमण्डलम् ( ( शृणु) /ˈdɪndoʊriːməndələm/) (हिन्दी: डिंडोरी जिला, आङ्ग्ल: Dindori district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य शहडोलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति डिण्डोरी इति नगरम् ।

डिण्डोरीमण्डलम्

Dindori District
डिण्डोरी जिला
डिण्डोरीमण्डलम्
डिण्डोरीमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे डिण्डोरीमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे डिण्डोरीमण्डलम्
देशः डिण्डोरीमण्डलम् India
राज्यम् मध्यप्रदेशः
उपमण्डलानि डिण्डोरी, शाहपुरा
विस्तारः ७,४७० च. कि. मी.
जनसङ्ख्या (२०११) ७,०४,५२४
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६३.९०%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-५०%
Website http://dindori.nic.in/

भौगोलिकम्

डिण्डोरीमण्डलस्य विस्तारः ७,४७० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे अनूपपुरमण्डलं, पश्चिमे उमरियामण्डलम्, उत्तरे जबलपुरमण्डलं, दक्षिणे छत्तीसगढराज्यम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं डिण्डोरीमण्डलस्य जनसङ्ख्या ७,०४,५२४ अस्ति । अत्र ३,५१,९१३ पुरुषाः, ३,५२,६११ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ९४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.३२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००२ अस्ति । अत्र साक्षरता ६३.९०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले द्वे उपमण्डले स्तः । ते- डिण्डोरी, शाहपुरा ।

कृषिः वाणिज्यं च

बॉक्साइट, अङ्गारः, चूर्णपाषाणः इत्यादयः अस्य मण्डलस्य प्रमुखाः खनिजाः सन्ति ।

वीक्षणीयस्थलानि

राष्ट्रिय-जीवाश्म-उद्यानं, घुघवा

डिण्डोरीमण्डलस्य घुघवा इत्यत्र राष्ट्रिय-जीवाश्म-उद्यानम् अस्ति । जीवाश्म-उद्यानेषु समग्रे एशिया-खण्डे अस्य उद्यानस्य प्रथमं स्थानम् अस्ति । घुघवा इत्यत्र अनेकानां वृक्षाणाम् अवशेषाः प्राप्ताः ये कालान्तरे पाषाणत्वेन परिवर्तिताः अभवन् । ’डायनासोर’ इत्यस्य प्राणिनः अण्डानि अपि प्राप्तानि । अतः बहुसङ्ख्याकाः जनाः द्रष्टुं तत्र गच्छन्ति । इदं स्थलम् आकर्षणस्य केन्द्रम् अस्ति ।

जलपान कैफेटेरिया एवं कपिलधारा-कलाकेन्द्रम्

जलपान कैफेटेरिया एवं कपिलधारा-कलाकेन्द्रम् अमरकण्टक-नगरात् ५ कि. मी. दूरे अस्ति । इदम् एकं रमणीयस्थलम् अस्ति । अस्य निर्माणम् एकस्मिन् तडागे कारितम् अस्ति । पर्यटकाः तत्र गत्वा आदिवासि-खाद्यविशेषाणां, ’चाईनीज’-खाद्यविशेषाणां च आनन्दं प्राप्नुवन्ति । डिण्डोरीमण्डलस्य सर्वे हस्तशिल्पिनः स्वकीयानां कलाकृतीनां निर्माणं कुर्वन्ति । ततः परं ताः कलाकृतयः कपिलधारा-कलाकेन्द्रं प्रेषयन्ति । तत्पश्चात् कपिलधाराकेन्द्रे तासां कलाकृतीनां क्रय-विक्रयश्च भवति ।

कपिलधारा-जलप्रपातः

कपिलधारा-जलप्रपातः अमरकण्टक-नगरात् ५ कि. मी. दूरे अस्ति । अयं नर्मदायाः प्रथमः जलप्रपातः अस्ति । अत्र ७० फीट उपरिष्टात् जलं पतति । अस्य प्रपातस्य अधः स्थित्वा स्नानात् पुण्यप्राप्तिर्भवति । उच्यते यत् यदा नर्मदा रुष्टा गच्छन्ती आसीत् तदा कपिलमुनिना तस्याः मार्गः अवरुद्धः किन्तु रुष्टा नर्मदा ततः मार्गम् उल्लङ्घ्य अग्रे गतवती ।

कारोपानी

कारोपानी डिण्डोरी-नगरात् ७३ कि. मी. दूरे अस्ति । अस्मिन् अरण्यानि सन्ति । तेषु अरण्येषु प्राणिनः स्वच्छन्दरीत्या भ्रमणं कुर्वन्ति । तेषु मृगाः, भल्लुकाः, वानराः इत्यादयः प्राणिनः सन्ति । तेषाम् अरण्यानां प्राकृतिकसौन्दर्यम् अपि रमणीयम् अस्ति । जनेभ्यः विहाराय इदं सुन्दरं स्थलम् अस्ति ।

बाह्यसम्पर्कतन्तुः

http://dindori.nic.in/
http://www.census2011.co.in/census/district/320-dindori.html

Tags:

डिण्डोरीमण्डलम् भौगोलिकम्डिण्डोरीमण्डलम् जनसङ्ख्याडिण्डोरीमण्डलम् उपमण्डलानिडिण्डोरीमण्डलम् कृषिः वाणिज्यं चडिण्डोरीमण्डलम् वीक्षणीयस्थलानिडिण्डोरीमण्डलम्आङ्ग्लभाषाडिण्डोरीडिण्डोरीमण्डलम्.wavभारतम्मध्यप्रदेशराज्यम्सञ्चिका:डिण्डोरीमण्डलम्.wavहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

दर्शनानिज्ञानविज्ञानयोगःसऊदी अरबमल्लक्रीडारामनवमीबोरानसितम्बर ५३६यवनदेशःवक्रोक्तिसम्प्रदायःआग्नेयजम्बुद्वीपःविकिः१०८२यास्कःजून ७मातृदिवसःअक्षय कुमारउद्भटःसमय रैनाइमं विवस्वते योगं...२९४हिन्दीद्विचक्रिकामिलानोईशावास्योपनिषत्स्लम्डाग् मिलियनेर्पनसफलम्नेपोलियन बोनापार्टसितम्बरअन्ताराष्ट्रीयमहिलादिनम्बौद्धधर्मःशर्मण्यदेशःभगीरथःमेघदूतम्मातृगया (सिद्धपुरम्)शिशुपालवधम्वृकःमन्थरानरेन्द्र सिंह नेगीविकिपीडियाहिन्द-यूरोपीयभाषाःअव्ययीभावसमासःकजाखस्थानम्ह्स्थूल अर्थशास्त्रमिकी माउसस्वदेशीअद्वैतवेदान्तःहल्द्वानीनवम्बर१२११मनुस्मृतिःवस्तुसेवयोः करः (भारतम्)इराक्जे साई दीपक१८८०शिवराज सिंह चौहानपतञ्जलिस्य योगकर्मनियमाःमईयूरोपखण्डःपर्वताःजून १०देवनागरीवेदाङ्गम्चन्द्रः🡆 More