अङ्गिराः

अङ्गिराः कश्चन ऋषिः। ऋग्वेदे अग्निसूक्तस्य द्रष्टा अयं ऋषिः। अङ्गिराः एव देवमानवयोः संवादे मध्यवर्ती इति ख्यातः। क्वचित् अङ्गिराः सप्तर्षिषु अन्यतमः इति उल्लेखः विद्यते। अपरत्र सप्तर्षिषु अङ्गिराः न गृह्यते.। अथर्ववेदस्य अथर्वाङ्गिराः ऋषिः द्रष्टा इति केषुचित् हस्तलेखेषु विद्यते। अयम् अङ्गिराः एव प्रसिद्धः ऋषिर्वा इत्यत्र सन्देहः वर्तते। अङ्गीरसः शिष्याः आङ्गीरसाः इत्युच्यन्ते। अङ्गीरसः शिष्याः एव ऋग्वेदस्य प्रथमाध्यायस्य, द्वितीयाध्यायस्य, पञ्चमाध्यायस्य, अष्टमाध्यायस्य, नवमाध्यायस्य दशमाध्यायस्य च केषाञ्चन मन्त्राणां द्रष्टारः विद्यन्ते।

अङ्गिराः
अङ्गिराः
चोलादेवीं पाठयन् अङ्गिराः
Information
Family ब्रह्मा (पिता)
भार्या(ः)/भर्ता सुरूपा, श्रुद्धा
अपत्यानि उत्तास्यः, संवर्तनः, बृहस्पतिः
धर्मः हिन्दू


व्युत्पत्तिः

अगि गतौ इति धातोः इरुट् प्रत्यये अङ्गिरस् इति शब्दः सिद्ध्यति। अयं च सकारान्तपुंलिङ्गशब्दः। अतः प्रथमाविभक्त्यैकवचने अङ्गिराः इति रूपं भवति।

मन्त्राः

ऋग्वेदस्य अनेके मन्त्राः अङ्गिरसा तच्छिष्यैः च द्रष्टाः इति उल्लेखः दृश्यते। यथा

  • अग्नि-इन्द्र-ऋभु-अश्विनि-उषस्-रुद्र-सूर्यसम्बद्धमन्त्राः, १.१०० तः १.११५ पर्यन्तम्
  • २.१ तमः मन्त्रः अग्निसम्बद्धः आङ्गीरसेन सौनहोत्रेन दृष्टः।
  • ५.३५ एवं ५.३६ तमः मन्त्रः इन्द्रसम्बद्धः प्रभुवसुना आङ्गिरसेन दृष्टः।
  • ८.२ (आदिमाः ४० मन्त्राः) प्रियमेधेन आङ्गिरसेन दृष्टः।
  • ९.९७ (अन्तिमाः १४ मन्त्राः), ९.१०८ एवं ९.११२ मन्त्राः कुत्साङ्गीरसेन, उर्वाङ्गीरसेन, ऊर्ध्वसद्माङ्गीरसेन, कृत्यसाङ्गीरसेन शिश्वाङ्गीरसेन च दृष्टाः।
  • दशममण्डलस् मन्त्राः इन्द्र-अग्नि-बृहस्पति-मेधा-सूर्य-वैश्वानर-उषस्सम्बद्धाः विविधैः आङ्गिरसैः दृष्टाः।

अयं न केवलं मन्त्रदृष्टा अपि तु वेदेषु अपि अङ्गिरसः उल्लेखः दृश्यते। अग्निरेव अङ्गिराः इति क्वचित्। ऋग्वेदस्य ३.३१ तमे मन्त्रे अङ्गिराः गायक इति कथितः। यथा

अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः ।
ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन् ॥


अथर्ववेदपरम्परायां अथर्वणस्य मान्यता अधिका। सद्गुणाः परोपकारप्रवृत्त्यादयः अथर्वणेन उक्तः। हेयाः वामाचारादयः अङ्गिरसा उक्तः इति हेतोः अथर्वणस्य मान्यता अधिका वर्तते इति पाश्चात्यविदुषां मतम्।

बौद्धसाहित्ये अपि अङ्गिरसः उल्लेखः दृश्यते दिङ्निकाये तेविज्जसुत्ते बुद्धस्य वैदिकऋषिभिः सह संवादः वर्णितः। तत्र बुद्धः समकालीनां ऋषीणां पूर्वऋषीणां च उल्लेखं करोति। इमे पूर्वऋषयः दश विद्यन्ते इति तस्य कथनम्। तेषु दशसु ऋषिषु अङ्गिराः अपि अन्यतमः।

इतिहासः

पुराणादिषु अङ्गिरसः नाम्नः उल्लेखः बहुत्र बहुधा वर्तते। तस्य जीवनस्य विवाहस्य च विषये नैकाः कथाः श्रूयन्ते। क्वचित् ब्रह्मणः पुत्ररूपेण तस्य उल्लेखः भवति चेत् अन्यत्र क्वचित् प्रजापतिषु तस्य उल्लेखः दृश्यते। महाभारते ब्रह्ममानसपुत्राणां कथनावसरे अङ्गिरसः अपि नाम उच्चारितम् यथा- ब्रह्मणो मानसाः पुत्त्रा विदिताः षण्महर्षयः मरीचि-रत्र्यङ्गिसौ पुलस्त्यः पुलहः क्रतुः” इति मार्कण्डेयपुराणे अपि “त्वमग्ने प्रथमोऽङ्गिरा ऋषिर्देवानामिति” श्रुतौ अग्ने-रङ्गिरस्त्वमुक्तं तत्कथा । इत्युक्तम् ।अङ्गीरसः पत्नीनां सङ्ख्या एकम् द्वे चत्वारि इति मतभेदः वर्तते।. क्वचित् तस्य पत्नी सुरूपा, पुत्राश्च उत्तास्यः, संवर्तनः बृहस्पतिश्च इत्युल्लिखितम्। अन्यत्र तस्य पत्नी स्मृतिः (दक्षपुत्री) एवं स्वधा इत्यपि उल्लिखितम्। शुभां परिणीय अग्निरूपाः सप्त पुत्रीः बृहस्पतिनामकं पुत्रं च प्राप्तवान् इत्यपि कथा श्रूयते।

अन्यत्र अङ्गिराः तपः समाचर्य परब्रह्म प्राप्तुम् एच्छत्। अङ्गीरसः तु जन्मना एव तेजः आसीत्। तत् च तेजः तपसः कारणात् अनन्तम् अभवत्। तथापि तपः अनुवर्तयन् अङ्गिराः परब्रह्मैक्यं सम्पाद्य ब्रह्मर्षिः सञ्जातः। अनेकान् मन्त्रान् च ददर्श। भृगुना सह अग्न्याराधनपरम्परायाः आरम्भकर्ता अभवत्।

उल्लेखाः

Tags:

अङ्गिराः व्युत्पत्तिःअङ्गिराः मन्त्राःअङ्गिराः इतिहासःअङ्गिराः उल्लेखाःअङ्गिराःअथर्ववेदःऋग्वेदःऋषिःमन्त्रः

🔥 Trending searches on Wiki संस्कृतम्:

१२३९१८२६९४५९६४१४३३१४००६९२७८३२३४११०७७५१२२४९४८६०३१११७११२८२८०८९५१३३१४९७४२९१२०२१२१३२८२५७७८४५१५५९३३०१२७९५५१७६८३९२२२९१४१२९३१८२६०१३३३९५७७०९१४७३११००१७७२४१६४२५२४७१०३६१३१९५१६८७१३३७११३८१००८०४१३४३३५इण्डोनेशिया४३०१५२२१४७२१२४८१७९९११५०८८६७२६५१४१७१९१५२९९३९२१६१३०६१०३८१४८१३६५८८९३२३५२८३३९🡆 More