चिल्का सरोवरम्

भारतदेशे एव अतिविशालः ११०० चतुरस्रकिलोमीटर् विस्तृतं चिल्कासरोवरम् ओरिस्साराज्ये गजपतिमण्डले अस्ति । सागरपूर्वप्रदेशे अन्तर्भागे एतत् सरोवरम् अस्ति । पूर्वम् एतत् कोल्ली इति ख्यातम् आसीत् । ६० कि.मी दीर्घवालुकावप्रात् जलाशयः अभवत् । अस्य दैर्घ्यं १० कि.मी, विस्तारः ४०-४५ कि.मी.मितः । गभीरता अधिका नास्ति । अस्मिन् वनप्रदेशे विविधानि १५० जातीयानि पक्षिसङ्कुलानि सन्ति । पक्षिणां सङ्ख्या दशलक्षाधिका अस्ति । अत्र सैबेरियन् क्रेन्, स्याण्डपैपरस्, कारमोराण्ट्, वैर एबिस् फ्लेमिङ्गो इत्यादयः सन्ति । सैबीरिया इरान् इत्यादिभ्यः देशेभ्यः पक्षिणः आगताः भवन्ति । अतः बर्डस् वाचरस् प्याराडैस् इति जनाः एतत् स्थानं कथयन्ति । नवम्बरमासतः जनवरीमासपर्यन्त पक्षिणः अत्र वसन्ति । अत्र सूर्यास्तसूर्योदयदर्शनम् अतीव सुन्दरं भवति । प्रवासिजनाः अत्र नौकाविहारं, तरणं, मन्स्यानां वीक्षणं, मृगयां च कुर्वन्ति । कदाचित् अत्र जलाशये सौतपारा समीपे डाल्फिन् जलचराः अपि दृश्यन्ते । समीपे बर्कुला रम्भा इत्यादीनि अत्युत्तमस्थानानि सन्ति । ओरिस्साप्रवासोद्यमनिगमः प्रवासव्यवस्थां करोति । जले नानाविधाः क्रीडाः प्रचलन्ति । जलं लवणयुक्तमस्ति

चिल्का सरोवरम्
चिलकासरोवरस्य मानचित्रम्
चिल्का सरोवरम्
चिल्कासरोवरम्

विमानमार्गः

भुवनेश्वरविमाननिस्थानतः १०० कि.मी

धूमशकटमार्गः

पुरीतः उत्तमसम्पर्कमार्गः अस्ति । सरोवरस्य पार्श्वे एव राष्ट्रियराजमार्गसङ्ख्या -५ अस्ति । बरहामपुरभुवनेश्वरनगरेभ्यः अपि वाहनव्यास्था कर्तुं शक्या । अक्टोबरमासतः मार्चमासपर्यन्तं वीक्षणाय उत्तमः कालः अस्ति ।

Tags:

ओरिस्सागजपतिमण्डलम्भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

वैराग्यम् (योगदर्शनम्)ज्यायसी चेत्कर्मणस्ते...१४४८ब्रह्माधर्मशास्त्रम्मान्ट्पेलियर्, वर्मान्ट्१ जुलाईस्लम्डाग् मिलियनेर्धर्मकीर्तिःउदयनाचार्यःनव रसाः१००६चलच्चित्रम्मलेशिया९०५चितकारा विश्वविद्यालयकिष्किन्धाकाण्डम्विनायक दामोदर सावरकरइण्डोनेशियायज्ञःस्उद्धरेदात्मनात्मानं...मई १५द टाइम्स ओफ इण्डियामरीचिका (शाकम्)जर्मनभाषा१६५४मुम्बईभारतस्य संविधानम्कुचःकर्णाटकसङ्गीतम्कलियुगम्अग्निपुराणम्चम्पूरामायणम्यमनयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)शब्दःसीताफलम्उपमालङ्कारःव्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)वेणीसंहारम्भारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बे१३९३संस्कृतभाषामहत्त्वम्विश्वनाथः (आलङ्कारिकः)१७८१चन्द्रलेखाविज्ञानम्टोपेका६ मईअरिस्टाटल्क्लव्डी ईदर्लीउपनिषदःपिकःव्लादिमीर पुतिनरजतम्१८२६मालविकाग्निमित्रम्यदा यदा हि धर्मस्य...३२८२५१६४४२५८🡆 More