पौडीगढवालमण्डलम्

पौडीगढवालमण्डलम् ( ( शृणु) /ˈpɔːdɪɡədhəvɑːləməndələm/) (हिन्दी: पौडीगढवाल जिला, आङ्ग्ल: Pauri Gadwal District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पौरी इति नगरम् । पौडीगढवालमण्डलं जलपात-नदी-उपत्यकादिप्राकृतिकसौन्दर्येभ्यः प्रख्यातमस्ति ।

पौडीगढवालमण्डलम्

Paurigadwal District
पौडीगढवाल जिला
पौडीगढवालमण्डलम्
पौडीगढवालमण्डलस्य नयनाभिरामदृश्यम्
देशः पौडीगढवालमण्डलम् India
राज्यम् उत्तराखण्डः
उपमण्डलानि पौडी, श्रीनगर, तैलीसेन, चौबट्टाखल, साकपुली, यमकेश्वर, लेन्सडाउन्, धूमकोट, कोटद्वार
विस्तारः ५,३९९ च.कि.मी.
जनसङ्ख्या(२०११) ६,८७,२७१
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८२.०२%
भाषाः कुमाँउनी, गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://pauri.nic.in/

भौगोलिकम्

पौडीगढवालमण्डलस्य विस्तारः २,३६० च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि टिहरीगढवालमण्डलं, रुद्रप्रयागमण्डलं च, दक्षिणदिशि नैनितालमण्डलम्, उत्तरप्रदेशराज्यं च, पूर्वदिशि चमोलीमण्डलम्, अल्मोडामण्डलं च, पश्चिमदिशि हरिद्वारमण्डलं, देहरादूनमण्डलं च अस्ति ।

जनसङ्ख्या

पौडीगढवालमण्डलम् 

पौडीगढवालमण्डलस्य जनसङ्ख्या(२०११) ६८६ ५२७ अस्ति । अत्र ३,२६,८२९ पुरुषाः, ३,६०,४४२ स्त्रियः, ८३,९०१ बालकाः (४४,०५५ बालकाः, ३९,८४६ बालिकाः च) सन्ति [उद्धरणं वाञ्छितम्]। अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -१.४१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११०३ अस्ति । अत्र साक्षरता ८२.०२% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९२.७१% स्त्री – ७२.६०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- पौरी, श्रीनगर, तैलीसेन, चौबट्टाखल, साकपुली, यमकेश्वर, लेन्सडाउन्, धूमकोट, कोटद्वार

वीक्षणीयस्थलानि

खिर्सु

खिर्सु-पर्वतः सर्वदा हिमाच्छादितः । हिमालयस्य नयनाभिरामं दृश्यं दृष्टुं पर्यटकाः तत्र गच्छन्ति । पौरी-नगरात् एकोनविंशतिः (१९) कि.मी. दूरे स्थितमस्त्येतत् स्थानम् । तत्र अतिथिगृहादिवसनस्य सुविधाः सन्ति ।

दूधतोरी

चलचित्रेषु हिमाच्छादिते मार्गे यदा नायकः स्रंसते, तदा जनाः स्वं तादृशे स्थले अनुमीयन्ते । परन्तु तदनुमानं दूधतोरी इतीदमं स्थलं सम्प्राप्य पूर्णं भवति । ३१,००० पादं यावति शिखरे स्थितः अस्ति दूधतोरी । पौरी-नगरात् शतम् (१००) कि.मी. दूरे स्थितं थालीसैन् इतीदं स्थलं बस-यानेन गत्वा ततः चतुर्विंशतिः (२४) कि.मी. चलित्वा गन्तव्यं भवति ।

कण्वाश्रमः

मालिनीनद्याः तीरे स्थितः कण्वाश्रमः कोटद्वार-पत्तनात् चतुर्दश (१४) कि.मी. दूरेऽस्ति । पौराणिककथानुसारं विश्वामित्रर्षिः अस्मिन् स्थले स्थित्वा तपस्तप्यति स्म । देवराजः इन्द्रः विश्वामित्रस्य घोरतपसा भितो जातः । विश्वामित्रर्षेः तपः भग्नाय इन्द्रः मेनकानामिकां अप्सरसं प्रैषयत् । विश्वामित्रर्षिं मेनका स्वीये मोहपाशे बध्नाति । एवं तस्य तपभङ्गे सति इन्द्रः शान्ततामनुभवत् । समये व्यतीते मेनका एकां कन्यां जनयति । सा कन्या शकुन्‍तला नाम्ना विख्यातास्ति । सा शकुन्‍तला हस्तिनापुरस्य राज्ञा सह परिणयति (marry) । तयोः बालकः भरतः जातः । तस्य भरतस्य नाम्नैवास्माकं देशस्य नाम भारतवर्षमिति

टिप्पणी

बाह्यानुबन्धः

http://dcteh.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine

http://tehri.nic.in/

http://www.euttaranchal.com/uttaranchal/pauri.php

http://villagemap.in/uttarakhand/tehri-garhwal.html

http://www.census2011.co.in/census/district/579-pauri-garhwal.html

Tags:

पौडीगढवालमण्डलम् भौगोलिकम्पौडीगढवालमण्डलम् जनसङ्ख्यापौडीगढवालमण्डलम् उपमण्डलानिपौडीगढवालमण्डलम् वीक्षणीयस्थलानिपौडीगढवालमण्डलम् टिप्पणीपौडीगढवालमण्डलम् बाह्यानुबन्धःपौडीगढवालमण्डलम्आङ्ग्लभाषाउत्तराखण्डगढवालविभागःपौडीगढवालमण्डलम्.oggपौरीसञ्चिका:पौडीगढवालमण्डलम्.oggहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

जलम्डि देवराज अरसुअष्टाङ्गयोगःकेन्याविकिमीडियाकाव्यप्रकाशःअथ केन प्रयुक्तोऽयं...८३३प्रस्थानत्रयम्सलमान रश्दीनेप्चून्-ग्रहःइङ्ग्लेण्ड्जी२०अनुबन्धचतुष्टयम्पिङ्गःवैराग्यम् (योगदर्शनम्)लाओसकाव्यम्द्सेम पित्रोडाजपान्रजतम्मान्ट्पेलियर्, वर्मान्ट्२५८कालिका पुराणसङ्गीतम्कर्तृकारकम्रागद्वेषवियुक्तैस्तु...भाषाबालीआस्ट्रेलियालाट्वियाअरिस्टाटल्२१ दिसम्बरचीनीभाषापाणिनिःअक्षरं ब्रह्म परमं...आङ्ग्लभाषामृच्छकटिकम्सिलवासाभारतस्य संविधानम्विश्वकोशःसंशोधनस्य प्रयोजनानिमेघदूतम्१००६विद्युदणुःयोगःमुङ्गारु मळे (चलच्चित्रम्)मङ्गलवासरः११११अस्माकं तु विशिष्टा ये...सितम्बर १७श्रीनिवासरामानुजन्महाभारतम्१४०अथ योगानुशासनम् (योगसूत्रम्)नैषधीयचरितम्घ्विद्याउपनिषदःअक्षय कुमारलकाराःपेले🡆 More