सूर्यनमस्काराः

एकम्

  • सरलभावेन दण्डायमानः भवतु ।
  • करतलद्वयं नमस्कारमुद्रया संयोज्य वक्षस्थलस्योपरि स्थापयतु ।
  • स्वाभाविकं श्वासं चालयतु ।
  • नेत्रद्वयं पिधाय उदितसूर्यं ध्यात्वा श्लोकमुच्चारयतु ।
    हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
    तत्त्वं पूषन् आपावृणु सत्यधर्माय दृष्टये ।

  • हस्तद्वयमुपरि उत्थापयतु
  • बाहुद्वयेन कर्णद्वयं स्पृशतु ।

लघुत्तम

  • शनैः पूरकेण शरीरं पृष्ठदेशं प्रति स्वल्पम् अवनमयतु ।

द्वे

  • रेचकेण शनैः शनैः मेरुदण्डं सरलीकृत्य शरीरं पुरतः अवनमयतु ।
  • हस्तद्वयं पादौ च उभयतः भूमौ स्थापयतु ।
  • मस्तकेन जानुद्वयं स्पृशतु ।

त्रीणि

  • पूरकेण शनैः शनैः दक्षिणपादं पृष्ठदेशं प्रति प्रसारयतु ।
  • वामजानुं पुटीकृत्य वक्षः स्थलं स्पृशतु ।
  • ग्रीवां मस्तकं च ऊर्ध्वमुत्तोलयतु ।
  • आकाशं पश्यतु

चत्वारि

  • रेचकेण शनैः शनैः वामपादं दक्षिणपादेन सह समावस्थायां स्थापयतु ।
  • करतलद्वयेन् सह, पादयोः अङ्गुष्ठद्वयेन सह च शरीरस्य भारसाम्यं स्थापयतु ।
  • गुल्फतः आरभ्य मेरुदण्डं ग्रीवां च यावत् शरीरम् ऋजुतया स्थापयतु ।
  • करतलयोः सम्मुखस्थाभूमौ दृष्टिं स्थापयतु ।

पञ्च

  • जानुद्वयं भूमौ संलग्नं कृत्वा पूरकेण शनैः शनैः उदरं सक्थिनोः उपरि स्थापयतु ।
  • गुल्फद्वयोः उपरि नितम्बं स्थापयतु ।
  • स्कन्धं ग्रीवां च शिथिलीकृत्य मुखम् अधोमुखीभूय च रेचकेण मस्तकं भूमौ स्थापयतु ।

षट्

  • पूरकेण जानुद्वयं, पादयोः अङ्गुष्ठद्वयं, वक्षः स्थलं च भूमौ स्पृष्ट्वा शयनं करोतु ।
  • उदरं भूमौ न स्पृष्ट्वा नितम्बं स्वल्पमुत्थाप्य रेचकेण कपालं नासाग्रं च भूमौ स्थापयतु ।
  • हस्तद्वयं वक्षः स्थलमुभयतः स्थापयतु ।
सूर्यनमस्काराः
देहली विमाननिस्थाने सूर्यनमस्काराणाम् आकृतिः

सप्त

  • पूरकेण शनैः शनैः मस्तकमुत्थाप्य नाभितः शरीरमूर्ध्वमुत्थापयतु ।
  • रेचकेणा वक्षः स्थलं पुरस्कृत्य ग्रीवां च ईषत् वक्रीकृत्य आकाशं पश्यतु ।
  • समग्रशरीरस्य भारं हस्तयोः उपरि स्थापयतु ।

अष्टौ

  • पूरकेण पूर्ववत् हस्तद्वयं पादद्वयं च भूमौ संस्थाप्य शरीरमूर्ध्वम् उत्थापयतु ।
  • मस्तकं भूमौ संलग्नं करोतु ।

नव

  • रेचकेण पञ्चावस्थावत् विश्रमतु ।

दश

  • पूरकेण नवमावस्थातः दक्षिणपादं सम्मुखमानयतु ।
  • दक्षिणोरु पुटीकृत्य जानुना वक्षः स्थलं स्पृष्ट्वा हस्तद्वयं दक्षिणपादमुभयतः स्थापयतु ।
  • रेचकेण मुखम् उपरि कृत्वा आकाशं पश्यतु ।

एकादश

  • पूरकेण दशमावस्थातः वामपादं सम्मुखमानयतु ।
  • कटिदेशतः शरीरं सम्मुखमानीय हस्तद्वयेन पादद्वयं स्पृशतु ।

द्वादश

  • शनैः शनैः रेचकेण शरीरमुत्थाप्य ऋजुतया दण्डायमानः भवतु ।
  • हस्तद्वयेन वक्षः स्थलं स्पृष्ट्वा नमस्कारमुद्रया स्थिरः भवत् ।
मन्त्राः चक्राणि आसनम्
Seed Salutation
1 ॐ ह्रां ॐ मित्राय नमः अनन्तचक्रम् प्रणामासनम्
2 ॐ ह्रीं ॐ रवये नमः विशुद्धिचक्रम् हस्तोत्थानासनम्
3 ॐ ह्रूं ॐ सूर्याय नमः स्वाधिष्ठानचक्रम् हस्तपादासनम्
4 ॐ ह्रैं ॐ भानवे नमः आज्ञाचक्रम् एकपादप्रसारणासनम्
5 ॐ ह्रौं ॐ खगाय नमः विशुद्धिचक्रम् दण्डासनम्
6 ॐ ह्रः ॐ पूष्णे नमः मणिपुरचक्रम् अष्टाङ्गनमस्कारासनम्
7 ॐ ह्रां) ॐ हिरण्यगर्भाय नमः स्वाधिष्ठानचक्रम् भुजङ्गासनम्
8 ॐ मरीचये नमः विशुद्धिचक्रम् अधोमुखश्वानासनम्
9 ॐ ह्रूं ॐ आदित्याय नमः आज्ञाचक्रम् Ashwa Sanchalanasana
10 ॐ ह्रैं ॐ सवित्रे नमः स्वाधिष्ठानचक्रम् उत्थानासनम्
11 ह्रौं ॐ अर्काय नमः विशुद्धिचक्रम् हस्तोत्थानासनम्
12 ॐ ह्रः ॐ भास्कराय नमः अनन्तचक्रम् प्रणामासनम्
13 (ॐ श्रीसवित्रसूर्यनारायणाय नमः) अनन्तचक्रम् प्रणामासनम्
    आदित्यस्य नमस्कारन् ये कुर्वन्ति दिने दिने ।
    आयुः प्रज्ञा बलम् वीर्यम् तेजस्तेशान् च जायते ॥

बाह्यसम्पर्कतन्तुः

  • Surya namaskara, A Technique of Solar Vitalization, Swami Satyananda Saraswati, ISBN 81-85787-35-2.
  • Suryanamaskara, Sri K. Pattabhi Jois, New York: Ashtanga Yoga New York, 2005.
  • Yoga in Modern India, Joseph S. Alter, Princeton University Press, 2004.
  • Ten Point Way to Health, Rajah of Aundh, J.M. Dent & Sons, 1938
  • A wiki article on wikihow:How to Do the Sun Salute

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

मायावादखण्डनम्अमर्त्य सेनजमैकाजन्तवःसंस्कृतवर्णमालाकदलीफलम्२८ जनवरीचाडमुद्राराक्षसम्२६६ऐतरेयोपनिषत्अनुबन्धचतुष्टयम्सोनिया गान्धीव्याकरणम्२ अगस्तविद्याधर सूरजप्रसाद नैपालप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)रत्नावलीनिर्वचनप्रक्रियागुरुमुखीलिपिःमाल्टाविष्णुतत्त्वनिर्णयःवराङ्गम्कोट ऐवरी (ऐवरी कोस्ट)क्रीडाशुक्लरास्याकालमेघःभास्कराचार्यःपक्षिणःसायणाचार्यःवायुःनृत्यम्८ अगस्तजे जे थामसनइन्द्रियनिग्रहःसंस्कृतसाहित्यशास्त्रम्कगलिआरीध्वजःअङ्गोलावनस्पतिविज्ञानम्मलेशियाकर्पूरमञ्जरीमार्टिन् लूथर् किङ्ग् (ज्यू)अन्नप्राशनसंस्कारःमय्यावेश्य मनो ये मां...ध्वन्यालोकःश्रीसोमनाथसंस्कृतविश्वविद्यालयःमोहम्मद रफीअन्ताराष्ट्रीयमहिलादिनम्मैत्रेयी पुष्पाक्रा-दायीभाषाःरघुवंशम्७१२छन्दःओन्कोलोजीभट्टिकाव्यम्रने देकार्तउपपदचतुर्थीचिशिनौअधिवर्षम्सूत्रलक्षणम्मेनअनर्घराघवम्संस्कृत१५७३८९४मुखपृष्ठंरजनीकान्तःजैनधर्मःआकाशगङ्गाअश्वघोषः🡆 More