सर्वानुक्रमणी

सर्वानुक्रमणी ऋग्वेदस्य समस्तावश्यकविषयाणां ज्ञानाय कात्यायनस्य कृतिः। ग्रन्थोऽयं सूत्ररूपेण निबद्धोऽस्ति । प्रत्येकं सूत्रस्य आदिपदम्, अनन्तर-ऋचां संख्यां, सूक्तस्य ऋषेर्नाम, तस्य गोत्रं, सूक्तानां, तदनन्तर्गतमन्त्राणां च देवतायाः निर्देशं, मन्त्राणां छन्दसां क्रमबद्धोल्लेखं च कृतवान्। अनेन प्रकारेण ऋग्वेदस्य विषये आवश्यकसामग्रीसङ्कलनत्वेन ग्रन्थोऽयं विशेषरूपेणोपादेयोऽस्ति ।

माधवभट्टस्यापि एका ऋग्वेदानुक्रमणी अस्ति। ऋग्वेदानुक्रमण्याः खण्डद्वये स्वर-आख्यात-निपात-शब्द-ऋषि-छन्ददेवतादीनां, मन्त्रार्थ-विषयकस्य च अष्टानुक्रमणीनामेकत्र सङ्ग्रहोऽस्ति । ग्रन्थोऽयं स्वतन्त्रो न भूत्वा माधवभट्टस्य भाष्यान्तर्गतं तत्तद्विषयाणां प्रतिपादकानां श्लोकानां सङ्ग्रहोऽस्ति ।

विषयवस्तु

सर्वानुक्रमण्याः दशा एतद्भिन्ना एवास्ति । अस्मिन् बृहद्देवतायाः श्लोकात्मकानि उद्धरणान्यपि सूत्ररूपेण परिणतानि कृत्वा प्रदर्शितानि । सर्वानुक्रमणी ऋग्वेदीयदेवतायाः वर्णने बृहद्देवतामेव स्वकीयाऽधारं मन्यते, अतः शतान्युद्धरणान्यत्र समाविष्टानि सन्ति ।

कर्ता

सर्वानुक्रमणीग्रन्थस्य रचयिता कात्यायनमुनिः अस्ति। मुनिरयं शुक्लयजुवेदीयश्रौतसूत्रस्य कर्त्तुः भिन्नः न मन्यते। कात्यायनेन प्रणीतः 'शुक्लयजुर्वेदीया अनुक्रमणिका' अपि अस्यैव कात्यायनस्य रचना मन्यते। यतोऽस्य सम्पूर्णभूमिकाभागः सर्वानुक्रमण्याः भूमिकातः साम्यं स्थापयति । कात्यायनस्य अस्य ग्रन्थस्य पदेषु बहुविधं वैदिकवैशिष्ट्यं लभते। वैयाकरणवार्त्तिककारः कात्यायनाद् अयं भिन्नः मन्यते। सर्वानुक्रमणी पूर्वपाणिनियुगस्य रचनाऽस्ति इति मन्यते।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

सन्धिप्रकरणम्बुद्धःकर्णवेधसंस्कारःनमीबियामाल्टावायुःनरेन्द्र मोदीकवकम्मिखाइल् गोर्बचोफ्चम्पादेशःरत्नावलीब्रह्मदेशःतन्त्रवार्तिकम्मेघदूतम्मोलिब्डेनमपरिशिष्टम्वेदभाष्यकाराःजेक् रिपब्लिक्नवरत्नानिपुरुषसूक्तम्सुवर्णम्ध्वन्यालोकःवैटिकनमन्दारिनभाषाअस्माकं तु विशिष्टा ये...१ जुलाईधात्रीगूगल् अर्त्यदा यदा हि धर्मस्य...वार्सासायणःज्ञानविज्ञानतृप्तात्मा...पतञ्जलिःअनानसफलरसःमुण्डकोपनिषत्अक्सिजनएल्फ़्रेड हिचकॉकजैनधर्मःक्रीडाशाहजहाँपुरम्माइक्रोसाफ्ट्प्रदूषणम्भक्तियोगःब्राह्मणम्अश्वमेधपर्वसोडियमरसुवामण्डलम्वनस्पतिविज्ञानम्पञ्चतन्त्रम्२७ मार्चअष्टाङ्गयोगःबोलिवियाचार्ल्सटन्पोलोनियमविद्याधर सूरजप्रसाद नैपालअधिवर्षम्छन्दोमञ्जरीनैषधीयचरितम्१०५६नैगमकाण्डम्केनडामरुस्थलीयभूमिःलातूरश्रीधर भास्कर वर्णेकर८६५९९८नीतिशतकम्शर्मण्यदेशःनक्षत्रम्बभ्रुःभगवद्गीता🡆 More