शैक्षिकमनोविज्ञानम्

शैक्षिकमनोविज्ञानम्  (Educational psychology), मनोविज्ञानस्य सा शाखा वर्तते यस्याम् मानवः शैक्षिकवातावरणे कथं अधिगच्छति तथा शैक्षणिकक्रियाकलापाश्च कथं प्रभावी भवितुमर्हन्ति इति अध्ययनं क्रियते । 'शिक्षामनोविज्ञानम् ' द्वयोः शब्दयोः मेलनेन उत्पन्नः - ‘शिक्षा’ ‘मनोविज्ञानञ्च’। अतः अस्य शाब्दिकः  अर्थः वर्तते – शिक्षया संबन्धितं मनोविज्ञानमिति।

अपरेषु शब्देषु अयं मनोविज्ञानस्य व्यावहारिकं रूपमस्ति। तथा च शिक्षाप्रक्रियायां मानवव्यवहारस्य अध्ययनविज्ञानमस्ति।शिक्षायाः सर्वेषु पक्षेषु यथा उद्देश्येषु ,शिक्षणविधिषु ,पाठ्यक्रमे, मूल्याङ्कने, अनुशासने च मनोविज्ञानस्य प्रभावः वर्तते। मनोविज्ञानं विना शिक्षाप्रक्रिया स्म्यकरूपेण न चलितुं शक्नोति।

शिक्षामनोविज्ञानस्य परिभाषा

शिक्षामनोविज्ञानं एतादृशं विज्ञानं वर्तते,यः शिक्षासमस्यानां विवेचनं, विश्लेषणं, समाधानं च करोति। शिक्षा मनोविज्ञानतः कदापि पृथक् नास्ति। मनोविज्ञानं कस्मिन्नेव स्वरूपे भवतु ,शिक्षया मनुष्याणां विकासं करोति।    

स्किनरमहोदयानुसारेण : शिक्षामनोविज्ञानं शैक्षणिकपरिस्थितिषु मानवीयव्यवहारस्य अध्ययनं करोति। शिक्षामनोविज्ञानं शिक्षया,या सामाजिकी प्रक्रिया अस्ति एवञ्च मनोविज्ञानेन,यः व्यवहारस्य विज्ञानं वर्तते, स्वार्थं गृह्णाति।

क्रो एवञ्च क्रो महोदयानुसारेण : शिक्षामनोविज्ञानं व्यक्तेः जन्मादारभ्य वृद्धावस्थापर्यन्तं अधिगमानुभवानां वर्णनं व्याख्यां च करोति।

मनोविज्ञानस्य आवश्यकता

कैलीमहोदयेन शिक्षामनोविज्ञानस्य आवश्यकतां निम्नानुसारं उक्तमस्ति :-

1. बालकस्य स्वभावं  ज्ञातुम् ,

2. बालकं स्ववातावरणेन सामंजस्यं स्थापयितुं ,

3. शिक्षायाः स्वरूपस्य, उद्देश्यानां प्रयोजनानाञ्च ज्ञानाय ,

4. शिक्षणाधिगमसिद्धांतानां  विधीनाञ्च अवगमनम्,

5. संवेगानां नियंत्रणं शैक्षिकमहत्वस्य च अध्ययनम्,

6. चरित्रनिर्माणस्य विधीनां सिद्धांतानाञ्च अवगमनम्,

7. मूल्याङ्कन विधीनां प्रशिक्षणम् ,

8. शिक्षामनोविज्ञानस्य तथ्यानां सिद्धांतानाञ्च ज्ञानाय प्रयुक्तानां वैज्ञानिक विधीनां ज्ञानम्,

प्रमुख शिक्षामनोवैज्ञानिकाः

विलियम-जेम्स महोदयः  (1800-1899)

इवान-पावलाव महोदयः  (1849-1936)

जॉन-डीवी महोदयः  (1859-1952)

मारिया-मान्टेसरी महोदया  (1870-1952)

ऐडवर्ड-थॉर्नडाइक महोदयः (1874-1940)

जॉन-बी-वाट्सन महोदयः (1878-1958)

कुर्त-लेविन महोदयः (1890-1947)

जीन-पियाजे महोदयः (Jean Piaget / 1896-1980)

लिव-वाइगोत्सकी महोदयः (1896-1934)

कार्ल-रैंसम-रोजर्स महोदयः (Carl Ransom Rogers, 1902-1987)

बी-एफ-स्किनर महोदयः (B. F. Skinner, 1904-1990)

अब्राहम-मासलो महोदयः (Abraham Maslow, 1908-1970)

बेंजामिन-ब्लूम महोदयः (Benjamin Samuel Bloom, 1913-1999)

नोआम-चाम्सकी महोदयः (Noam Chomsky, 1928 )

Tags:

मनोविज्ञानम्शिक्षा

🔥 Trending searches on Wiki संस्कृतम्:

सुबन्तम्ओमाहाकुमारसम्भवम्१४०५५८३d21obकदलीफलम्१४५२विकिसूक्तिः१०१४कल्पना चावला११६४भगवद्गीताटोनी ब्लेयर१२०२तत्त्वशास्त्रम्३१७वामनपुराणम्स्रिपब्लिकन् पक्षः१०७३श्रीलङ्का१६२१लिबिया९१९मोहम्मद रफीअम्बरीषवृक्षःकार्पण्यदोषोपहतस्वभावः...८३४२६०आहारःगणेशःकर्मसंन्यासयोगःसामाजिकमाध्यमानि१७०२खैबर्पख्तूङ्ख्वाप्रदेशःअभिज्ञानशाकुन्तलम्भासनाटकचक्रम्४१६किरातार्जुनीयम्१५०६वेदःमारिया टेरेसा१३४३५८४१३५५मीमांसादर्शनम्संयुक्ताधिराज्यम्कालिदासःमुख्यपृष्ठम्१३६४सामवेदःसंस्कृतम्क्लियोपैत्रा१५७७११वसन्तः३७५जे साई दीपकपुराणम्कलिङ्गयुद्धम्९ अक्तूबरअथर्वशिरोपनिषत्मीराबाईजडभरतः१७०१पृथ्वीज्योतिषम्संस्कृतवाङ्मयम्🡆 More