तुल्यनिन्दास्तुतिर्मौनी...

श्लोकः

तुल्यनिन्दास्तुतिर्मौनी... 
गीतोपदेशः
    तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
    अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १९ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य नवदशः (१९) श्लोकः ।

पदच्छेदः

तुल्यनिन्दास्तुतिः मौनी सन्तुष्टः येन केनचित् अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियः नरः ॥ १९ ॥

अन्वयः

शत्रौ च मित्रे च समः तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः तुल्यनिन्दास्तुतिः मौनी येन केनचित् सन्तुष्टः अनिकेतः स्थिरमतिः भक्तिमान् नरः मे प्रियः ।

शब्दार्थः

    शत्रौ च = अरौ च
    मित्रे च = वयस्ये च
    समः = समानः
    तथा = एवम्
    मानापमानयोः = पूजातिरस्कारयोः
    शीतोष्णसुखदुःखेषु = द्वन्द्वेषु
    समः = समानः
    सविवर्जितः = विषयसरहितः
    तुल्यनिन्दास्तुतिः = दूषणश्लाघनयोः समानः
    मौनी = नियतवाक्
    येन केनचित् = येन केनापि लाभेन
    सन्तुष्टः = सन्तृप्तः
    अनिकेतः = अनिवासः
    स्थिरमतिः = निश्चलमनस्कः
    भक्तिमान् नरः = भक्तः पुरुषः
    मे प्रियः = मम इष्टः ।

अर्थः

अरौ च मित्रे च समानः तथा पूजातिरस्कारयोः शीतोष्णयोः सुखदुःखयोश्च समानः, विषयासक्तिरहितः, दूषणश्लाघनयोः समानः, नियतवाक्, येन केनापि फलेन सन्तृप्तः, अनिवासः, निश्चलमनस्कः भक्तः मम इष्टः ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

तुल्यनिन्दास्तुतिर्मौनी... श्लोकःतुल्यनिन्दास्तुतिर्मौनी... पदच्छेदःतुल्यनिन्दास्तुतिर्मौनी... अन्वयःतुल्यनिन्दास्तुतिर्मौनी... शब्दार्थःतुल्यनिन्दास्तुतिर्मौनी... अर्थःतुल्यनिन्दास्तुतिर्मौनी... सम्बद्धसम्पर्कतन्तुःतुल्यनिन्दास्तुतिर्मौनी... सम्बद्धाः लेखाःतुल्यनिन्दास्तुतिर्मौनी...

🔥 Trending searches on Wiki संस्कृतम्:

काव्यम्दन्तपालीयोगः११ मार्चश्रीहर्षःरघुवंशम्बभ्रुःन्यायदर्शनम्मनुष्यःचार्ल्सटन्प्राचीनभौतशास्त्रम्कादम्बरीकेरळराज्यम्अण्णा हजारेततः स विस्मयां - 11.14मस्तिष्करोगःकबड्डिक्रीडालाट्वियाचैतन्यः महाप्रभुःनिरुक्तम्जिबूटीधूमलःअशोक गहलोतयुनिकोडरजनीकान्तःएप्पल्रूसीभाषाआवर्तनम् (Frequency)भर्तृहरिःशुक्लरास्याचन्द्रपुरम्समन्वितसार्वत्रिकसमयःवाग्भटःमुण्डकोपनिषत्१९०३कलिंगद्वीपमुद्राराक्षसम्समावर्तनसंस्कारःशिक्षातेलङ्गाणाराज्यम्कोलोराडो स्प्रिंग्स्हरेणुःसेंट किट्रक्तम्ब्रह्मगुप्तःकुमारसम्भवम्१० अप्रैलआश्चर्यचूडामणिःमीराबाईस्वराः (सङ्गीतम्)द्वाविमौ पुरुषौ लोके...कदलीफलम्कन्याःपारदःऐर्लेण्ड् गणराज्यम्श्येनःसंयुक्तराज्यानिउल्लेखालङ्कारःउत्तर कोरियासिन्धूनदीबोत्सवानायास्कःलेपाक्षीशनिःपी टी उषामैत्रेयी पुष्पाबुद्धचरितम्उपपदचतुर्थी२२ जनवरीदशरथःनाटकपरिभाषाढाकाछान्दोग्योपनिषत्अद्वैतवेदान्तःपञ्चाङ्गम्🡆 More