Z8 Gnd 5296-आकाशगङ्गा

z8 GND 5296 इति नामिका आकाशगङ्गा २०१३ तमे संवत्सरे आविष्कृता जाता । एषा एव दूरतमा तथा प्राचीनतमा प्रथमा आकाशगङ्गा यस्याः दूरं (पृथ्वीतः) वर्णवीक्षणयन्त्रेण (spectroscopy यन्त्रेण) सुनिर्धारितम् । ७०कोटि आलोकवर्षदूरे स्थिता आकाशगङ्गा अस्ति z8 GND 5296 । एषा आकाशगङ्गा पर्यवेक्षणावधौ विद्यते इदानीम् । अस्याम् महता प्रमाणेन नक्षत्राणि विद्यन्ते । अस्याः समग्राकाशगङ्गायाः भारः सूर्यस्य भारस्य ३००गुणितं विद्यते।

z8_GND_5296-आकाशगङ्गा
Z8 Gnd 5296-आकाशगङ्गा
पर्यलक्षितथ्यानि
रेड् सिफ़्ट् ७.५१
दूरत्वम् १३.१ बिलियन् प्रकाशवर्षम्
भरः ×10
पृथ्वीतः आपेक्षिक-उज्ज्वल्यता (वि) २५.६ (१६०W)
प्रासङ्गिकविषयाः : आकाशगङ्गा

आविष्कारः

Z8 Gnd 5296-आकाशगङ्गा 
डब्ल्यु.एम्. केक् वीक्षणकेन्द्रम् हावै

२०१३ तमवर्षस्य अक्टोबरमासस्य २४ तमे दिनाङ्के नेचर्(Nature) इति शोधपत्रिकायां प्रथमवारम् अस्याः आकाशगङ्गायाः विषये लेखः प्रकाशितः । एषा 'नेचर्'शोधपत्रिका केलिफोर्निया विश्वविद्यालयस्य ज्योतिर्विज्ञानीनां नेतृत्वाधीने प्रकाशिता भवति । अस्याः पत्रिकायाः सम्पादकत्वेन 'बह्राम् मोबशेर्' तथा 'नवीन रेड्डी' महोदयौ स्तः । पत्रिकायाः सहयोगिसंस्थाः सन्ति - टेक्सास् विश्वविद्यालयः, टेक्सास् ए & एम् विश्वविद्यालयः एवं राष्ट्रिय-ज्योतिर्वीक्षणकेन्द्रञ्च (National Optical Astronomy Observatories) । आदौ आकाशगङ्गायाः अस्याः चित्रं 'हब्बल्' महाकाशवीक्षणयन्त्रेण (Hubble Space Telescope) लब्धम् । अनन्तरं तेषां शोधकार्यं सुनिश्चितं कृतं डब्ल्यु.एम्. केक् वीक्षणकेन्द्रेण (हावै, Hawai'i) ।

Z8-GND-5296 आकाशगङ्गायाः वैलक्षण्यम्

  • वैज्ञानिकानां मतानुसारम् अस्याः आकाशगङ्गायाः वर्णप्रकीर्णनम् अर्थात् लाल अरुणविचलनं (रेड शिफ्ट) ७.५१ अस्ति । यत् पूर्वं ७.२१ आसीत् ।
  • अस्याः उत्पत्तिः अन्याकाशगङ्गासदृशी धुलिकाधुम्रयोः सम्मिश्रणेन जाता ।
  • एषा अस्माकम् आकाशगङ्गायाः अपेक्षया बहुदूरे विद्यते इत्येतावदेव न अपि च बहुनक्षत्राणां निर्माणं विनाशञ्च कुर्वती विद्यते ।
  • अस्याः आकाशगङ्गायाः आविष्कारानन्तरं वैज्ञानिकाः आकाशगङ्गाणां भौतिकस्वरूपस्य, उत्पत्तेः, तासां केन्द्रविकासस्य अध्ययने च व्यापकोन्नतिं प्राप्नुवन्तः सन्ति ।

टिप्पणी

Tags:

सूर्यः

🔥 Trending searches on Wiki संस्कृतम्:

सिलिकनत्वमेव माता च पिता त्वमेव इतियुद्धम्योगःवालीबाल्-क्रीडामोहम्मद रफीकुण्डलिनी (मुद्रा)९२५बुल्गारिया१८५६४५३शाम्भवीराबर्ट् कोख्राजविद्या राजगुह्यं...ताण्ड्यपञ्चविंशब्राह्मणम्सुबन्धुःनेपोलियन बोनापार्टसर् अलेक्साण्डर् प्लेमिङ्ग्स्वदेशीमालविकाग्निमित्रम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)चाणक्यःहिन्दीकोलकातामगधःजून १९मल्लक्रीडाकर्णाटकराज्यम्किलोग्राम्१२ अक्तूबरअर्थशास्त्रम् (ग्रन्थः)द्यावापृथिव्योरिदम् - 11.20भगीरथःधूमलःकराचीजून २४नवम्बर १७अप्रैल १८काव्यविभागाःब्अथ योगानुशासनम् (योगसूत्रम्)श्रीहर्षःबहूनि मे व्यतीतानि...वृकःबौद्धधर्मःउपनिषद्सितम्बर १३बलिचक्रवर्तीभारतीयदार्शनिकाःमार्जालःफरवरी १६ओशीनियाचार्ल्स २द्विचक्रिकारुद्राष्टकम्फरवरी १३भारतस्य इतिहासःजार्ज २शर्करासांख्ययोगःवेणीसंहारम्समय रैना२४८भरुचमण्डलम्इतालवी भाषामानसिकस्वास्थ्यम्मार्च ३०🡆 More