नान्यं गुणेभ्यः कर्तारं...

श्लोकः

नान्यं गुणेभ्यः कर्तारं... 
गीतोपदेशः
    नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
    गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदः

न अन्यं गुणेभ्यः कर्तारं यदा द्रष्टा अनुपश्यति गुणेभ्यः च परं वेत्ति मद्भावं सः अधिगच्छति ॥ १९ ॥

अन्वयः

द्रष्टा यदा गुणेभ्यः अन्यं कर्तारं न अनुपश्यति (आत्मानम्) गुणेभ्यः च परं वेत्ति सः मद्भाम् अधिगच्छति ।

शब्दार्थः

    द्रष्टा = समीक्षकः विद्वान्
    गुणेभ्यः = सत्त्वादिभ्यः
    अन्यम् = इतरम्
    अनुपश्यति = अवलोकते
    परम् = व्यतिरिक्तम्
    वेत्ति = जानाति
    मद्भावम् = मत्स्वरूपम्
    अधिगच्छति = लभते ।

अर्थः

अत्र यावन्ति कर्माणि भवन्ति तानि सर्वाणि गुणाः एव कुर्वन्ति, न तु आत्मा । स च गुणेभ्यो व्यतिरिक्तः केवलं कर्मणां साक्षिभूतः इति पुरुषः यदा जानाति तदा मोक्षं प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

नान्यं गुणेभ्यः कर्तारं... श्लोकःनान्यं गुणेभ्यः कर्तारं... पदच्छेदःनान्यं गुणेभ्यः कर्तारं... अन्वयःनान्यं गुणेभ्यः कर्तारं... शब्दार्थःनान्यं गुणेभ्यः कर्तारं... अर्थःनान्यं गुणेभ्यः कर्तारं... सम्बद्धसम्पर्कतन्तुःनान्यं गुणेभ्यः कर्तारं... सम्बद्धाः लेखाःनान्यं गुणेभ्यः कर्तारं...

🔥 Trending searches on Wiki संस्कृतम्:

साहित्यदर्पणःसर्वपल्ली राधाकृष्णन्बुधवासरः२१ जुलाईनैनं छिन्दन्ति शस्त्राणि...ताम्रम्केशःशृङ्गाररसःचन्द्रिकाश्१६दिसम्बर ३१द्वितीयविश्वयुद्धम्१६ अगस्तभारतम्लिबिया१९०१व्यायामःव उ चिदम्बरम् पिळ्ळैअपि चेदसि पापेभ्यः...पाणिनिःतुलसीदासःकोपनहागनचार्ल्सटन्उत्तररामचरितम्क्रिकेट्-शब्दावलीनव रसाःधारणाविश्वकोशःसितम्बर २१गुरु नानक देवविश्वनाथः (आलङ्कारिकः)एवं प्रवर्तितं चक्रं...रामायणम्एस् एल् किर्लोस्करमलेशियाकर्मेन्द्रियाणि संयम्य...फिनिक्स्, ऍरिझोनासुमित्रानन्दन पन्तपुंसवनसंस्कारःकलिङ्गद्वीपःअश्वघोषः५ दिसम्बरक्षमा रावश्वेतःस्लम्डाग् मिलियनेर्तत्पुरुषसमासः११४५६८९इण्डोनेशियाअण्टार्क्टिका१५४२कालिका पुराणमहम्मद् हनीफ् खान् शास्त्रीशब्दःतैत्तिरीयोपनिषत्ऐडॉल्फ् हिटलर्८२५२११मनुःशब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्)नवम्बर १८योगःगद्यकाव्यम्सूरा अल-इखलास४४४पुर्तगालस्वामी विवेकानन्दः🡆 More