नागरहोळे अभयारण्यम्

कर्णाटकराज्ये कोडगुमण्डलस्य दक्षिणे भागे नागरहोळे-अभयारण्यमस्ति । पूर्वं कोडगुमण्डलस्य आयुक्तः बेडिमहोदयः अभयारण्यस्य आरम्भं कृतवान् । अस्य नाम राजीवगान्िराष्ट्रियोद्यानम्इत्यपि अस्ति । अस्य स्थापना क्रिस्ताब्दे १९५५ तमे वर्षे अभवत् । एतत् स्थलं त्रयाणां पर्वतश्रेणीप्रदेशानां समूहात्मकं स्थानमस्ति । अस्य विस्तारः ६४३ चतुरस्र कि.मी.

मितः । सर्वत्र महावृक्षाः सन्ति । हेब्बळ्ळस्थले गजाः अधिकाः सन्ति । भल्लूकाः मृगाः साम्बारमृगाः वनमहिषाः शृगालाः व्याघ्राः अत्र सन्ति । मृगाः समूहे इतस्ततः सञ्चरन्ति । सार्धद्विशताधिकजातीयाः पक्षिणः अत्र निवसन्ति । अभयारण्ये प्राणिपक्षिवीक्षणार्थं विशेषवाहनव्यवस्था कल्पिता अस्ति । वीक्षकान् वाहनैः नीत्वा वन्यप्रदेशान् मृगान् च दर्शयन्ति । वनरक्षकानां हस्ते निस्तन्तुसाधनं भवति । मुख्यकार्यालयतः सततं सम्पर्कः भवति । प्राणिपक्षिविक्षणार्थं वीक्षणगोपुराणि अपि सन्ति ।

मार्गः

बेङ्गळूरुतः २५६ कि.मी । मैसूरुतः ९६ कि.मी विराजपेटेतः ६७ कि.मी । श्रीमङ्गलतः ९ कि.मी । अत्र जूनमासतः सप्तम्बरमासपर्यन्तं प्रवेशः नास्ति । सायङ्काले ६ वादनतः प्रातः ६ वादनपर्यन्तं मार्गेषु वाहनसञ्चारः निषिध्दः अस्ति । प्राणिपक्षिवीक्षणार्थं प्रवेशकालः प्रातः ६ वादनतः ८वादनम् / सायं ३ वादनतः ५.३० वादनम् । सन्दर्शकानां वसत्याः कृते कावेरी, कबिनी, गङ्गोत्री नामकानि सर्वकारीयानि वसतिगृहाणि सन्ति । उपाहार-वसति गृहाणि (रेसार्ट्) ३२ कि.मी दूरे सन्ति । मैसूरुमडिकेरीतः वाहनसौकर्यम् अस्ति । दूरम् ९० कि.मी यावत् ।

नागरहोळे अभयारण्यम् 
गजानां जलविहारः
नागरहोळे अभयारण्यम् 
हरिणः मयूरः च

Tags:

कर्णाटकम्कोडगुमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

दण्डी१००६ब्रह्माउपनिषद्चीनदेशःभारतीयदार्शनिकाःमङ्गलवासरःमिका अल्टोला१४३१पुरुषोत्तमयोगःमहात्मा गान्धीधनम्कुतस्त्वा कश्मलमिदं...१५७४प्राणायामःनैनं छिन्दन्ति शस्त्राणि...भासःपिङ्गःरजनीशः२१ दिसम्बरशुक्लरास्यामाधवीप्राथमिकनेपालीभाषायाः कथाभ्मार्टिन राइलचीनीभाषासितम्बर २१अल्लाह्१३९३अभिषेकनाटकम्जैनधर्मःअक्षय कुमारवेदःनार्वेझान्सीकाव्यम्समन्ता रुत् प्रभुयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)१५०७अमावस्यारामायणम्दक्षिण अमेरिकाबहामासतैत्तिरीयोपनिषत्वास्तुविद्यासेम पित्रोडा१२१३भारतसर्वकारःएस् एल् किर्लोस्करराधा१६०२पृथ्वीसामवेदःजग्गी वासुदेवविकिःईरानलकाराःलोकेऽस्मिन् द्विविधा निष्ठा...देवगिरि शिखरम्सरस्वती देवीकर्मण्येवाधिकारस्ते...आङ्ग्लभाषास्अद्वैतवेदान्तःमहम्मद् हनीफ् खान् शास्त्रीयवनदेशःकिरातार्जुनीयम्संयुक्ताधिराज्यम्डयोस्कोरिडीस्🡆 More