तत्रैकाग्रं मनः कृत्वा...

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य द्वादशः(१२) श्लोकः ।

श्लोकः

तत्रैकाग्रं मनः कृत्वा... 
गीतोपदेशः
    तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
    उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥

पदच्छेदः

तत्र एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्य आसने युञ्ज्यात् योगम् आत्मविशुद्धये ॥

अन्वयः

यतचित्तेन्द्रियक्रियः शुचौ देशे स्थिरं नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् आत्मनः आसनं प्रतिष्ठाप्य तत्र आसने उपविश्य मनः एकाग्रं कृत्वा आत्मविशुद्धये योगं युञ्ज्यात् ।

शब्दार्थः

    यतचित्तेन्द्रियक्रियः = नियतेन्द्रियव्यापारः
    शुचौ = परिशुद्धे
    देशे = स्थाने
    स्थिरम् = अचलम्
    नात्युच्छ्रितम् = नात्युन्नतम्
    नातिनीचम् = नातिनिम्नम्
    चैलाजिनकुशोत्तरम् = वस्त्रकृष्णाजिनदर्भोत्तरम्
    आत्मनः = स्वस्य
    आसनम् = पीठम्
    प्रतिष्ठाप्य = संस्थाप्य
    तत्र = तस्मिन्
    आसने = पीठे
    उपविश्य = उपविश्य
    मनः = चित्तम्
    एकाग्रम् = संलग्नम्
    कृत्वा = विधाय
    आत्मविशुद्धये = अन्तःकरणनैर्मल्याय
    योगम् = समाधिम्
    युञ्ज्यात् = युञ्जीत ।

अर्थः

शुद्धे स्थाने अधोभागे तादृशम् आसनं भवेत् यत् न अत्युन्नतं नापि अतिनीचम् । तस्मिंश्च आसने कुशान् अजिनं मृदुवस्त्रं च क्रमेण प्रसार्य, तत्र उपविश्य अवधानेन मनःप्रभृतीनां सर्वेषाम् इन्द्रियाणां क्रियां नियन्त्र्य चित्तशुद्धये समाधिं कुर्यात् ।

शाङ्करभाष्यम्

प्रतिष्ठाप्य किम्-तत्र तस्मिन्नासन उपविश्य योगं युञ्ज्यात्। कथं, सर्वविषयेभ्य उपसंहृत्यैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः चित्तं चेन्द्रियाणि च चितेन्द्रियाणितेषां क्रियाः संयता यस्य स यतचित्तेन्द्रियक्रियः। स किमर्थं योगं युञ्ज्यादित्याह आत्मविशुद्धयेऽन्तःकरणस्य विशुध्द्यर्थमित्येतत् ।।12।।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

तत्रैकाग्रं मनः कृत्वा... श्लोकःतत्रैकाग्रं मनः कृत्वा... पदच्छेदःतत्रैकाग्रं मनः कृत्वा... अन्वयःतत्रैकाग्रं मनः कृत्वा... शब्दार्थःतत्रैकाग्रं मनः कृत्वा... अर्थःतत्रैकाग्रं मनः कृत्वा... शाङ्करभाष्यम्तत्रैकाग्रं मनः कृत्वा... बाह्यसम्पर्कतन्तुःतत्रैकाग्रं मनः कृत्वा... सम्बद्धाः लेखाःतत्रैकाग्रं मनः कृत्वा...

🔥 Trending searches on Wiki संस्कृतम्:

जैमिनिःअनुबन्धचतुष्टयम्८८६रूप्यकम्प्राणायामःगुवाहाटी२८४यदा यदा हि धर्मस्य...छन्दःसुबन्धुःयोगःकालीऋग्वेदःरास्यामातृगया (सिद्धपुरम्)रुद्राष्टकम्काव्यप्रकाशःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वक्रोक्तिसम्प्रदायःशिरोवेदना१७ दिसम्बरअधिभूतं क्षरो भावः...विज्ञानम्मैक्रोनीशियारघुवंशम्नरेन्द्र सिंह नेगीअक्तूबर १२सभापर्वसचिन तेण्डुलकरदशरूपकम् (ग्रन्थः)रसगङ्गाधरःसम्प्रदानकारकम्१३०४१८ सितम्बरहर्षचरितम्ब्संन्यासं कर्मणां कृष्ण...ट्रेन्टन्कुमारसम्भवम्काशिकाकर्मण्येवाधिकारस्ते...नैषधीयचरितम्आस्ट्रियासितम्बरवायुमण्डलम्द्वितीयविश्वयुद्धम्रामनवमीभोजपुरी सिनेमाहनुमान बेनीवाल८५९१८६५देवभक्तिःउत्तराभाद्रानरेन्द्र मोदी४५३फलम्त्वमेव माता च पिता त्वमेव इतिमनोहर श्याम जोशीमृच्छकटिकम्मैथुनम्कोमोअन्ताराष्ट्रीययोगदिवसःबेलं गुहाअधिवर्षम्१०५८🡆 More