चम्पायमण्डलं (आङ्ग्ल: Champhai District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं चम्पाय इत्येतन्नगरम् । बहुवर्णयुताः विशिष्टाः अत्रस्थाः परम्पराः, तदर्थं प्रसिद्धमिदं मण्डलम् । १९८७ तमे वर्षे फेब्रुवरि मासे भारतदेशस्य मण्डलत्वेन अस्य स्थापना कृता । सीमावर्तिमण्डलत्वेनाऽपि महत्त्वपूर्णं स्थानं वर्तते अस्य । ७२२ कि.मी.मितः सीमाप्रदेशः अस्मिन् मण्डले अन्तर्भवति ।
Champhai district | |
---|---|
मण्डलम् | |
मिझोरामराज्ये चम्पायमण्डलम् | |
देशः | India |
मण्डलम् | चम्पायमण्डलम् |
विस्तारः | ३,१८५.८३च.कि.मी. |
जनसङ्ख्या(२०११) | १,२५,७४५ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://champhai.nic.in/home.htm |
चम्पायमण्डलस्य विस्तारः ३,१८५.८३ चतुरस्रकिलोमीटर्मितः अस्ति । भारतदेशस्य ईशान्यसीमायां स्थितं मण्डलमिदम् । अस्य मण्डलस्य पूर्वदिशि तथा दक्षिणदिशि म्यानमारदेशः, उत्तरदिशि मणिपुरराज्यं, पश्चिमदिशि ऐजोलमण्डलं, सेरसिपमण्डलं च अस्ति । अत्र २०८ से.मी.मितः वार्षिकवृष्टिपातः भवति ।
चम्पायमण्डलस्य जनसङ्ख्या(२०११) १,२५,७४५ अस्ति । अस्मिन् ६३,३८८ पुरुषा:, ६२,३५७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८४ अस्ति । अत्र साक्षरता ९५.९१ % अस्ति । मण्डलेऽस्मिन् ६१.४१% जना: ग्रामेषु निवसन्ति ।
अत्रस्थप्रमुखनिवासिनः मिजोजनाः पूर्वप्रदेशात् आगतवन्तः इति कथ्यते । १५००-१८०० तमवर्षे 'फेङ्गो' इति मिजोजातेः उपजातिसम्बद्धाः जनाः अत्र आगतवन्तः इति मन्यते । १८७९ तमे वर्षे मिजोरामराज्ये ऐतिहासिकं छाक-लेह-थ्लाङ्ग-इण्डोयुद्धं पूर्वमिजो-पश्चिममिजोजनयोः मध्ये जातम् । १९०९ मध्ये एच्.डब्लू.जी.कोल् इत्यनेन मिजोरामराज्यस्य आयुक्तपदं स्वीकृतम् । अनन्तरं बहुदिनानि यावत् आङ्ग्लाधिपत्यमासीत् । १९११ तमे वर्षे चम्पायपरिसरे पाठशाला निर्मिता इति विशेषः । अनन्तरं भारतसङ्घराज्यनिर्माणसमये भारतदेशे समाविष्टः अयं प्रदेशः । १९९० तमे वर्षे चम्पाय इति मण्डलत्वेन अस्य मण्डलस्य स्थापना जाता । अस्य प्रदेशस्य इतिहासः मिजोरामराज्ये उपलभ्यमाने इतिहासे पुरातनतर:, विशिष्टश्च ।
अस्मिन् मण्डले उपमण्डलानि सन्ति तानि यथा -
मिजो जनाः अत्रस्थाः मूलनिवासिनः । ग्रामः एतेषां जनानां सामाजिकमूलघटकः(social unit) । कृषिः अत्रस्थमिजोजनानां प्रमुखोपजीविकासाधनम् । इसाई मिशनरीजनानां कार्यम् आङ्ग्लप्रशासनात् पूर्वकालतः प्रचलति अत्र । तस्य कार्यस्य केचन सुपरिणामाः सन्ति । तेषु शिक्षणस्य प्रसारः, जनैः रोमन लिपेः आङ्गिकारः इति परिणामद्वयं महत्त्वपूर्णम् मन्यते । अस्य प्रदेशस्य मूलजनाः 'Tlawmngaihna' इति धर्मसम्बद्धसङ्कल्पनायाः आचरणं कुर्वन्ति स्म । तस्यां सङ्कल्पनायाम् आतिथ्यं, कारुण्यं, निःस्वार्थता, साहाय्यं च महत्त्वपूर्णाः गुणाः उक्ताः आसन् । सर्वे जनाः इदानीं प्रायशः इसाई जाताः, तथाऽपि तैः सर्वैः गुणैः सह निष्ठापूर्णतया कार्यं कुर्वन्ति । मिजोजनजात्याम् उच्चानीचता, जातिभेदाः न सन्ति । सम्पूर्णः ग्रामः एकः कुटुम्बः इति मत्वा प्रत्येकस्मिन् उत्सवे, समस्यायामपि जनाः हार्दं सहभागं वहन्ति ।
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
This article uses material from the Wikipedia संस्कृतम् article चम्पायमण्डलम्, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.