सम्भाजीनगरम् (मराठी: सम्भाजीनगर, आङ्ग्ल: Sambhajinagara; आधिकारिकरूपेण छत्रपतीसम्भाजीमहाराजनगरम्), पूर्वनाम औरङ्गाबाद्, पुरातननाम खडकी, इति एकं प्राचीननगरम् । खङ्गे इति अस्य नाम आसीत् मोगल बादशाहः औरङ्गजेबः ताजमहल् सदृशं भव्यं स्मारकम् अत्र निर्मितवान् । अनन्तर नगरस्य औरङ्गाबाद् इति नाम आगतम् अस्ति । छत्रपती संभाजीनगर प्रदेशे अपि अजन्ता एल्लोरा प्रदेशेषु इव गुहाः सन्ति । बौद्धानाम् आराधनानन्दिराणि साधुसंन्यासिनां निवासस्थानानि च आसन् । छत्रपती संभाजीनगरे स्थितायां गुहायां सप्तमशतकीयः बौद्धविहारः अस्ति । ७६ स्तम्भानां विशालं प्राङ्गणम् अस्ति । पश्चिमदिशि कमलासने उपविष्टस्य गौतमबुद्धस्य विग्रहः अस्ति । समीपे सर्पसमूहः अस्ति । प्राङ्गणात् बहिः बुद्धस्य अनेकप्रतिमाः सन्ति । द्वितीयगुहायां बृहत् बुद्धविग्रहः अस्ति । तृतीयगुहायां स्तम्भेषु शिल्पानि सन्ति । एषा गुहा पूर्णालङ्कृता अस्ति । षष्ठगुहायां बृहत् बुद्धमूर्तिः आकर्षणीया अस्ति । सपृमगुहायाम् आकर्षकाणि शिल्पानि सन्ति । विशालं प्राङ्गणम् अत्र अस्ति । बोधिसत्वस्य पद्मपाणेः सरस्वत्याः च विग्रहाः अतीव मनोहराः सन्ति । आहत्य दश गुहाः निर्मिताः सन्ति ।
सम्भाजीनगरम् सम्भाजीनगर औरङ्गाबाद् | |
---|---|
छत्रपतीसम्भाजीमहाराजनगरम् | |
क्रान्ति चतुरश्रः | |
Nickname(s): द्वाराणां नगरम्, ऐतिहासिकनगरम्, महाराष्ट्रस्य हृदयम् | |
देशः | भारतम् |
मण्डलम् | सम्भाजीनगरम् (औरङ्गाबाद्) |
क्षेत्रम् | मराठवाडा |
स्थापितःम् | १६१० ई॰ |
Government | |
• विभागीय आयुक्तः | सुनील केन्दरेकरः |
• महापौरः | रिक्तम् |
Area | |
• महानगरम् | १३९ km२ |
Elevation | ५६८ m |
Population (२०११) | |
• महानगरम् | ११,७५,११६ |
• Rank | भारतम्: ३२ तमा महाराष्ट्रम्: षष्ठी मराठवाडा: प्रथमा |
• Density | ८,५००/km२ |
• Metro | ११,९३,१६७ |
• महानगरीयश्रेणी | ४३ तमा |
Demonym(s) | सम्भाजीनगरीय / औरङ्गाबादकर |
भाषा | |
• आधिकारिक | मराठी |
• अन्य | हिन्दी, उर्दू |
Time zone | UTC+५:३० (भा॰मा॰स॰) |
पत्रसूचकसङ्ख्या | 431 XXX |
दूरवाणीसङ्केतः | ०२४० |
Vehicle registration | MH 20 |
This article uses material from the Wikipedia संस्कृतम् article औरङ्गाबाद्, महाराष्ट्रम्, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.