अमी हि त्वां सुरसङ्घा...

श्लोकः

अमी हि त्वां सुरसङ्घा... 
गीतोपदेशः
    अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
    स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकविंशतितमः(२१) श्लोकः ।

पदच्छेदः

अमी हि त्वां सुरसङ्घा विशन्ति केचित् भीताः प्राञ्जलयः गृणन्ति स्वस्ति इति उक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥

अन्वयः

अमी हि सुरसङ्घाः त्वां विशन्ति । केचित् भीताः प्राञ्जलयः गृणन्ति । महर्षिसिद्धसङ्घाः स्वस्ति इति उक्त्वा पुष्कलाभिः स्तुतिभिः त्वां स्तुवन्ति ।

शब्दार्थः

    अमी हि = एते
    सुरसङ्घाः = देवसमूहाः
    त्वां विशन्ति = त्वां प्रविशन्ति
    केचित् भीताः = केचन भयसहिताः
    प्राञ्जलयः = मुकुलितहस्ताः
    गृणन्ति = स्तुवन्ति
    महर्षिसिद्धसङ्घाः = महामुनीनां सिद्धानां च समुदायाः
    स्वस्ति इति = स्वस्ति इत्येवम्
    उक्त्वा = कथयित्वा
    पुष्कलाभिः = समृद्धाभिः
    स्तुतिभिः= नुतिभिः
    त्वां स्तुवन्ति = त्वां प्रशंसन्ति ।

अर्थः

एते हि देवसमूहाः त्वां प्रविशन्ति । केचित् भयसहिताः मुकुलितहस्ताः स्तुवन्ति । बहवो मुनयः सिद्धाश्च स्वस्ति इति उक्त्वा अर्थगर्भैः स्तोत्रैः त्वां प्रशंसन्ति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

अमी हि त्वां सुरसङ्घा... श्लोकःअमी हि त्वां सुरसङ्घा... पदच्छेदःअमी हि त्वां सुरसङ्घा... अन्वयःअमी हि त्वां सुरसङ्घा... शब्दार्थःअमी हि त्वां सुरसङ्घा... अर्थःअमी हि त्वां सुरसङ्घा... सम्बद्धसम्पर्कतन्तुःअमी हि त्वां सुरसङ्घा... सम्बद्धाः लेखाःअमी हि त्वां सुरसङ्घा...

🔥 Trending searches on Wiki संस्कृतम्:

मत्त (तालः)उत्तराषाढाकुतस्त्वा कश्मलमिदं...अण्टार्क्टिकाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यानदीश्१८५०भट्ट मथुरानाथशास्त्रीरीतिसम्प्रदायः२०१०मधु (आहारपदार्थः)शिक्षाशास्त्रस्य इतिहासःसितम्बर १७अग्रिजेन्तो१५९५धनम्विश्वनाथः (आलङ्कारिकः)पुनर्जन्मकाव्यविभागाःजेक् रिपब्लिक्गौतमबुद्धःवेदान्तदेशिकःजेम्स ७ (स्काटलैंड)सुनामीहल्द्वानीभर्तृहरिःस्पेन्विकिपीडियापेस्कारा१६५४६ मईविजयनगरसाम्राज्यम्जलम्कोपनहागनब्रह्मचर्याश्रमःसमासःयकृत्सुन्दरसीचाणक्यः८९२दण्डीकणादः८३३२०१५नव रसाःदिसम्बर ३१दिशा पटानीहोशियारपुरम्मार्च १४२०११११४५मामुपेत्य पुनर्जन्म...पुरुषोत्तमयोगःयस्त्विन्द्रियाणि मनसा...जया किशोरीसेम पित्रोडास्कौट् तथा गैड् संस्थासंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्हितोपदेशःनीलःचितकारा विश्वविद्यालय🡆 More