वीरस्योत्साहः स्थायिभावो भवति । लोकोत्तरेषु कार्येषु क्रियमाणः स्थेयान् प्रयत्नःउत्साह उच्यते । ‘पर पराक्रम दानादि स्मृति जन्मा, औन्नत्याख्य श्चित्तवृत्ति विशेष उत्साह’ इति रसगङ्गाधरः। वीर् धातोः अच् प्रत्यये कृते “वीर” शब्दस्य उत्पत्तिः। वीररसस्य स्थायीभावः उत्साहः भवति। उत्साहः उदात्तानां स्वभावः भवति। सर्वदा युद्धाभिमुखिकरणम् इति नास्ति। त्यागे, सन्मार्गे, परोपकारादिषु प्रवृत्तिः भवेत्। “वीरो नाम उत्तमप्रकृतिकः उत्साहस्थायिभावात्मकः” इति, भरतमुनिः स्व नाट्यशास्त्रे वीररसस्य निरूपणम् कुर्वन् श्लोकमेकम् अकथयत्। तद्यथा, उत्साहोऽध्यवसायादविषादित्वादविस्मयमोहात्। विविधादर्थविशेषाद्वीररसो नाम सम्भवति॥
साहित्यदर्पणकारः वीररसः चतुर्धाविभक्तः इति निरूपयति। तद्यथा, स च दानधर्मयुद्धैः दयया च समन्वितः समन्वितः चतुर्धा
असुरवीरः, लोभवीरः, इत्यादि उपभेदाः अपि सन्ति। बिलहरि, अठाण, केदार, गुणकलि इत्यादि रागाः वीररसप्रधानरागाः भवन्ति।
This article uses material from the Wikipedia संस्कृतम् article वीररसः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.