रामनाथ वेदालङ्कार

डा रामनाथवेदालङ्कारः (Dr.

Ramanatha Vedalankar) कश्चन विख्यातः विद्वान्, शिक्षाविद्, लेखकश्च । सः १९१४ तमे वर्षे जुलैमासस्य २ दिनाङ्के उत्तरप्रदेशस्य बरेलीमण्डले फरीदपुरे जन्म प्राप्नोत् । तस्य पिता लाला गोपालरामः, माता भगवतीदेवी । पिता लाला गोपालरामः कश्चन स्वातन्त्र्ययोधः, महर्षेः दयानन्दस्य परमभक्तश्च आसीत् ।

शिक्षणम्

रामनाथः काङ्गडीगुरुकुले १४ वर्षाणि यावत् वेदादीनाम् अध्ययनम् अकरोत् । ततः 'वेदालङ्कार'नामिकां पदवीं प्रथमश्रेण्यां प्राप्नोत् । तदनन्तरम् आग्राविश्वविद्यालयतः संस्कृतसाहित्ये स्नातकोत्तरपदवीम् अलभत । वेदेषु वर्णनशैली इत्येतस्मिन् विषये महाप्रबन्धं विरचय्य आराविश्वविद्यालयतः 'विद्यावारिधि'पदवीं प्राप्तवान् ।

वृत्तिजीवनम्

रामनाथः विद्यावारिधेः प्राप्त्यनन्तरं स्वीयं मातृसंस्थायां काङ्गडिविश्वविद्यालये अध्यापकः जातः । ततः सः वेदविभागस्य प्राध्यापकरूपेण विभागप्रमुखरूपेण च कार्यम् अकरोत् । तस्य एव विश्वविद्यालयस्य उपकुलपतिरूपेण अपि सः सेवाम् अकरोत् । १९७४ तमे वर्षे पञ्जाबविश्वविद्यालयस्य दयानन्दशोधपीठस्य अध्यक्षरूपेण नियुक्तः जातः । वर्षद्वयं यावत् तत् उत्तरदायित्वं यसस्वितया निरूढवान् सः स्वस्य अवधौ वैदिकाध्ययनस्य संशोधनकार्यस्य च चालनम् अकरोत् ।

१९७६ तमे वर्षे निवृत्तः सः आत्मानं वेदाध्ययने, चिन्तने, लेखनकार्येषु च समायोजयत् ।

कृतयः

  • वैदिकवीरगर्जना इत्येषा रामनाथवर्येण लिखिता प्रथमा कृतिः । अस्यां कृतौ वेदमन्त्रेषु आगतानां वीरभावस्य उत्साहवर्धकविचाराणां च विवेचनं कृतवान् अस्ति ।
  • ऋग्वेदज्योतिः, यजुर्वेदज्योतिः, सामवेदज्योतिः, अथर्ववेदज्योतिः - इत्येतासु कृतीषु प्रेरणादायकानां सूक्तीनां विषये विवेचनं कृतमस्ति ।
  • 'वेदभाष्यकाराणां वेदार्थप्रक्रियाः' इत्येतस्यां कृतौ दयानन्दस्य अन्यभाष्यकाराणाञ्च वेदार्थप्रक्रियाः विश्लिष्टाः सन्ति ।
  • समर्पणशोधसंस्थानाय 'सामवेदस्य अध्यात्मिकभाष्यम्' विरचितवान् ।
  • 'वेदमञ्जरी', 'वैदिकनारी', 'यज्ञमीमांसा', 'अग्निहोत्रदर्पणम्' इत्येताः कृतयः अपि समर्पणशोधसंस्थानेन प्रकाशिताः सन्ति ।
  • 'वैदिकमधुवृष्टिः' 'आर्षज्योतिः' इत्यादयः ग्रन्थाः अपि तेन विरचिताः ।

प्राप्ताः पुरस्काराः

  • रामनाथवर्येण कृतां वेदसेवां पुरस्कृत्य तस्मै सान्ताक्रूझस्थेन आर्यसमाजेन 'वेदवेदाङ्गपुरस्कारः' प्रदत्तः ।
  • उत्तरप्रदेशस्थेन संस्कृतसंस्थानेन 'विशिष्टसंस्कृतपुरस्कारः' प्रदत्तः ।
  • राष्ट्रपतिना 'राष्ट्रियसंस्कृतविद्वान्'नामकः पुरस्कारः प्राप्तः ।
  • बेङ्गलूरुनगरस्थेन भारतीयविद्याभवनेन गुरोः गङ्गेश्वरानन्दस्य 'वेदरत्न'पुरस्कारः प्राप्तः ।

मरणम्

२०१३ तमस्य वर्षस्य एप्रिल्-मासस्य ८ दिनाङ्के हरिद्वारस्य ज्वालापुरे विद्यमाने स्वीये गृहे दिवङ्गतः जातः । तदा सः आसीत् ९९ वर्षीयः ।

Tags:

रामनाथ वेदालङ्कार शिक्षणम्रामनाथ वेदालङ्कार वृत्तिजीवनम्रामनाथ वेदालङ्कार कृतयःरामनाथ वेदालङ्कार प्राप्ताः पुरस्काराःरामनाथ वेदालङ्कार मरणम्रामनाथ वेदालङ्कारउत्तरप्रदेशःस्वामी दयानन्दसरस्वती

🔥 Trending searches on Wiki संस्कृतम्:

३१३भारतीयभूसेना०४. ज्ञानकर्मसंन्यासयोगःअफगानिस्थाने हिन्दुधर्मःनेपालभाषानव रसाःअहिंसा समता तुष्टिः...४२१७३६हाथरसमहाभाष्यम्१६७२दीपावलिःमाजुलीद्वीपः१२०९उत्तराखण्डराज्यम्वेणीसंहारम्६८६१९४भौतिकीयमःस्त्रीशिवताण्डवस्तोत्रम्भारतमाता१९९३१२१९ जुलाईमुद्राराक्षसम्प्राणायामःरत्नावली११७२विकिमीडिया९८०अर्बियममन्यसे यदि तच्छक्यं...भाषाकुटुम्बानां सूचिःशिल्पशास्त्रम्नेपालदेशःक्रिस्टियन् हुगेन्स्भामहःङ्त्रिविक्रमभट्टःफ्रान्सदेशः२६ जुलाईरक्तम्द्वैतदर्शनम्१२९भारतीयवायुसेनानाट्यशास्त्रम् (ग्रन्थः)४५२कराची६५२विलियम ए फोलरSamskrita Bharatiशिश्नम्विद्याभूषणः (सङ्गीतकारः)८०९हठप्रदीपिकाभारतस्य इतिहासःन्यायदर्शनम्पञ्चचामरम्२७रामनाथ कोविंद१०.३५ बृहत्साम तथा....घाना२३२पी टी उषासूत्रलक्षणम्एडवर्ड ७निरुक्तम्क्रीडाज्ञानकर्मसंन्यासयोगःमई🡆 More