गीतिकाव्यम्

गीतकाव्यं संस्कृतसाहित्यस्य नितरां रमणीयः प्रकारः वर्तते । इदं मुक्तकरूपेण प्रबन्धरूपेण च उपलभ्यते । अनेन प्रकारेण रमणीनां रूपहृदययोः सुन्दरं चित्रणं कृतं दृश्यते । अस्मिन् शृङ्गाररसस्य विभिन्नाः अवस्थाः मार्मिकरूपेण वर्णिताः दृश्यन्ते । एतेन नारीप्रेम्णः उदात्तता विशुद्धता च ज्ञाता भवति । प्रकृतिवर्णनम् अपि अत्र प्रमुखं स्थानम् आवहति । प्राकृतिकसौन्दर्यम् आन्तरिकसौन्दर्यस्य अनावरणाय कल्प्यते । सङ्गीतसंयोजनम् अस्य प्रकारस्य वैशिष्ट्यं वर्तते । नृत्ययोजनस्य साध्यताः अपि अत्र विद्यन्ते । सङ्गीतमपि साहित्यञ्च सरस्वत्या स्तनद्वयम् इत्येषा उक्तिः प्रसिद्धा । एतेषु गीतकाव्येषु सङ्गीतसाहित्यानां समागमः दृश्यते । अत्रत्यं सङ्गीतं भवति आपातमधुरम् । साहित्यं भवति आवलोचनामृतम् । अतः एव जनसामान्यैः अपि अयं प्रकारः आनन्ददायकः भवति । अत्रत्य प्रेम लौकिकप्रेमपरिधिम् अतिरिच्य भक्तिभावं प्रति प्रवहति । अस्य गीतकाव्यपरम्परायाः मूलकर्ता वर्तते जयदेवः (गीतगोविन्दरचयिता) । अनेन रचितं गीतगोविन्दम् इत्येतत् अस्ति जगत्प्रसिद्धं गीतकाव्यम् ।

Tags:

गीतगोविन्दम्जयदेवः (गीतगोविन्दरचयिता)

🔥 Trending searches on Wiki संस्कृतम्:

काञ्चिपुरमण्डलम्३२२United States of Americaमध्वाचार्यः१४३४१५९५तापीमण्डलम्२२८४८४मालविकाग्निमित्रम्कर्णाटकराज्यम्प्रतिभा पाटिलमोक्षः३५६१६२९८४०किङ्ग्स् ११ पञ्जाबःबाणभट्टः१९ जुलाईविश्वनाथः (आलङ्कारिकः)१२४०कविःपाकिस्थाने हिन्दूधर्मःत्रिविधं नरकस्येदं...१५६५भारतस्य सर्वोच्चन्यायालयः१७२४५८दशरथः१६५८छन्दःसङ्गणकम्माण्डवीबि.आर्.अम्बेड्करःशर्करापञ्चतन्त्रम्द टाइम्स ओफ इण्डियाअलङ्कारग्रन्थाःपृथिवीअलङ्कारशास्त्रम्१४०लृनव रसाःमहात्मा गान्धी९४६प्रकाश राजविकिसूक्तिःज्भारतीयवायुसेनाएस् एम् कृष्णापुराणम्रीतिसम्प्रदायःकलालक्ष्मीःकर्मण्यकर्म यः पश्येद्...शिलालेखः१०५३फ्रेडेरिक रेन्सयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)१०.३५ बृहत्साम तथा....सामवेदःकाव्यालङ्कारः (भामहविरचितः)नीरज चोपडाHaryanaरत्नावलीसलमान रश्दीबिस्मिल्ला खानवि के गोकाकगोकर्णम्🡆 More