ईश्वरः सर्वभूतानां...

श्लोकः

ईश्वरः सर्वभूतानां... 
गीतोपदेशः
    ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
    भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकषष्टितमः(६१) श्लोकः ।

पदच्छेदः

ईश्वरः सर्वभूतानां हृद्देशे अर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥

अन्वयः

अर्जुन ! ईश्वरः सर्वभूतानि यन्त्रारूढानि मायया भ्रामयन् सर्वभूतानां हृद्देशे तिष्ठति ।

शब्दार्थः

    ईश्वरः = नारायणः
    सर्वभूतानि = सकलप्राणिनः
    यन्त्रारूढानि = यन्त्राधितिानि इव
    मायया = प्रकृत्या
    भ्रामयन् = चालयन्
    सर्वभूतानाम् = सकलप्राणिनाम्
    हृद्देशे = हृदयप्रदेशे ।

अर्थः

अर्जुन ! सर्वेषामपि प्राणिनां हृदये ईश्वरो वर्तते । सः तानि सर्वाणि भूतानि यन्त्रारूढानि इव सम्यक् भ्रामयति । अतः त्वं न स्वतन्त्रः । युद्धं न करोमि इति कृतनिर्णयोऽपि अन्ते युद्धं करिष्यस्येव । तस्मात् इदानीमेव मम वचनं पालय ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

ईश्वरः सर्वभूतानां... श्लोकःईश्वरः सर्वभूतानां... पदच्छेदःईश्वरः सर्वभूतानां... अन्वयःईश्वरः सर्वभूतानां... शब्दार्थःईश्वरः सर्वभूतानां... अर्थःईश्वरः सर्वभूतानां... सम्बद्धसम्पर्कतन्तुःईश्वरः सर्वभूतानां... सम्बद्धाः लेखाःईश्वरः सर्वभूतानां...

🔥 Trending searches on Wiki संस्कृतम्:

५५९६३०१४१२१५०९१८१४१६७०१७६५१७५९१३८०७१७१३४६७७९९५५६९४९६८४९७७४४९५७७८३६७६५९०५२२६४४६०७१८२१३७६५८३३२६४८५८२७१५२०१५४८३५२१६०४४२६३३३१४१५५०१३५९४४८७५१२२३१६७७०६१५८६६७३१२२४५७८६०३१२२१४३७९३९१५४२१८०७१५१९३२३१५१२७३संस्कृतम्१७४६९५२६८११६४८६८४७३११३२१५५१२७७१६५८७०९७८४१७२८११३७७१५६८५९२११८१८३३🡆 More