सततं कीर्तयन्तो मां...

श्लोकः

सततं कीर्तयन्तो मां... 
गीतोपदेशः
    सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
    नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः

सततं कीर्तयन्तः मां यतन्तः च दृढव्रताः नमस्यन्तः च मां भक्त्या नित्ययुक्ताः उपासते ॥ १४ ॥

अन्वयः

दृढव्रताः सततं कीर्तयन्तः यतन्तः च मां नमस्यन्तः च नित्ययुक्ताः भक्त्या माम् उपासते ।

शब्दार्थः

    दृढव्रताः = कठोरनियमाः
    सततम् = सदा
    मां कीर्तयन्तः = मां गायन्तः
    यतन्तः च = पूजादिषु प्रयत्नं कुर्वन्तः
    भक्त्या = प्रीत्या
    नमस्यन्तः च = नमस्कुर्वन्तः च
    नित्ययुक्ताः = सततयोगाः सन्तः
    माम् उपासते = मां भजन्ते ।

अर्थः

केचित् कठोरं नियमम् अनुसरन्तः पुरुषाः मां सर्वदा स्तुवन्तः, पूजादिषु प्रयत्नं कुर्वन्तः, भक्त्या नमस्कुर्वन्तश्च मां सर्वदा समाहितमनस्काः सेवन्ते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

सततं कीर्तयन्तो मां... श्लोकःसततं कीर्तयन्तो मां... पदच्छेदःसततं कीर्तयन्तो मां... अन्वयःसततं कीर्तयन्तो मां... शब्दार्थःसततं कीर्तयन्तो मां... अर्थःसततं कीर्तयन्तो मां... सम्बद्धसम्पर्कतन्तुःसततं कीर्तयन्तो मां... सम्बद्धाः लेखाःसततं कीर्तयन्तो मां...

🔥 Trending searches on Wiki संस्कृतम्:

अर्थः५५७वर्षाऋतुः१५७७संयुक्तराज्यानिविपाशा१५०७अच्छेद्योऽयमदाह्योऽयम्...क्षत्रियः८३८डियेगो माराडोनानाट्यशास्त्रम् (ग्रन्थः)१८३१५५२व्लादिमीर पुतिनविकिसूक्तिःजया किशोरी२३३सामाजिकमाध्यमानि८१४१०२१५०१४१६उत्तरमेसिडोनिया११९२१५५७२६०संस्कृतकवयःऋतुःवेदाङ्गम्शूद्रकः१५७३१६७५मीराबाईमहात्मा गान्धीउर्वारुकम्११५४अकिमेनिड्-साम्राज्यम्आर्षसाहित्यम्१२७०४६८कारकम्३१७पतञ्जलिःअलङ्कारग्रन्थाःराम चरण५८३१११७जार्ज २भरतः (नाट्यशास्त्रप्रणेता)माधवः (ज्योतिर्विद्)१५४३रजतम्वसन्तः१६५कटानिया११६४२३०अन्तर्जालम्पुराणम्इस्लाम्-मतम्इस्रेलम्९९४४२७७६भौतिकशास्त्रम्४१५३८८मुख्यपृष्ठम्बौद्धधर्मः१०६९५४🡆 More