वृक्षायुर्वेदः

अथर्ववेदः, वराहमिहिरस्य बृहत्संहिता, शार्ड्गधरपद्धतिः इत्यादिषु प्राचीनग्रन्थेषु वृक्षायुर्वेदस्य विचारः बहुधा चर्चितह् दृश्यते । स च वृक्षायुर्वेदविचारः तावत् अतिप्राचीनः । महर्षिः पराशरः (क्रि पू २००) अपि वृक्षायुर्वेदविषये चर्चां कृतवान् अस्ति । तेन उक्ताः बहवः विचाराः अद्यापि सस्यशास्त्रक्षेत्रे अपूर्वत्वेन परिगण्यन्ते । सस्यशास्त्रम् अधिकृत्य गंभीरम् वैज्ञानिकं च विवरणम् अत्र कृतं दृश्यते । महर्षिः पराशरः वृक्षाणां विभिन्नपरिवारान् उल्लिखितवान् अस्ति ।

वृक्षायुर्वेदः
वृक्षः

वृक्षायुर्वेदस्य उल्लेखः

पराशरस्य विभागक्रमः

वृक्षायुर्वेदः 
वृक्षमूलाः

पराशरेण कृतः विभागक्रमः तथा वैज्ञानिकः च अस्ति यत् अद्यापि आधुनिके सस्यशास्त्रे सः विभागक्रमः अनुस्रियते ।

    पराशरकृतः विभागः आधुनिकः विभागः
    (क्रि पू ९००) (क्रि श १७००)
    शमीगणीयाः Leguminoesae
    पुपीलिकगणीयाः Rutaceae
    स्वस्तिकगणीयाः Cruciferae
    कूर्चगणीयाः Compositae (Plant cell)

पराशरमुनिः सस्यानां रसकोशः (Plant cell) विषये विस्तरेण कथयति स्वग्रन्थे । तेन कथितं तावत् आश्चर्यकरं वैज्ञानिकं च अस्ति यत् सूक्ष्मदर्शकादिसाहाय्यं विना अपि सः यत् कथितवान् तत् राबर्टहुक्केन (क्रि श १६६५) सूक्ष्मदर्शकसाहाय्येन यत् विवरणं दत्तं ततोऽपि वैज्ञनिकं निर्दुष्टं च अस्ति । पराशरमुनेः विवरणं तावत् -

    • कलावेष्टनम् (Outer wall)
    • सूक्ष्मपत्रकम् (Inner wall)
    • रञ्जकयुक्ता रसाश्रया (Sap with colouring matter)
    • अन्वक्षा (केवलनेत्राभ्यां द्रष्टुम् अशक्या)

राबर्टहुक् तु एतावत् एव वदति - "सस्येषु केचन विभागाः भवन्ति । ते च मधुकोषरचनासादृश्यं वहन्ति" इति । सस्यानि मृत्तिकातः द्रवरूपम् आहारं प्राप्नुवन्ति इत्येषः अंशः अस्मत्प्राचीनैः सुविदितः एव आसीत् । वृक्षायुर्वेदः 'पादप'शब्दः (पादैः पिबति इति पादपः) एतम् एव अथं द्योतयति । महाभारतस्य शान्तिपर्वणि - 'वृक्षः केन प्रकारेण भूमितः जलं स्वीकरोति' इत्येषः अंशः एवं निरूपितः -

        वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् ।
        तथा पवनसंयुक्तः पादैः पिबति पादपः ॥ इति ।

सस्यानाम् एषा जलोद्धरणप्रकिया आधुनिकविज्ञाने SUCTION FORCE इति उच्यते । एषः सिद्धान्तः १८१४ तमे क्रिस्ताब्दे डिक्सन्-जाली-(Dixon & Jolly)नामकाभ्याम् अमेरिकादेशीयाभ्यां सस्यशास्त्रीयाभ्यं प्रतिपादितः ।

वृक्षायुर्वेदः 
वृक्षस्य काण्डः

ऋग्वेदे उल्लेखः

ऋग्वेदे एव (क्रि पू ६०००) Morphological character तत्त्वस्य आधारेण सस्यानां विभागः कृतः दृश्यते । सस्यभागाः ये यजुर्वेदे उक्ताः (पुष्प-पर्ण-काण्ड-मूलादयः) ते एव सन्ति व्यवहारे आधुनिककाले अपि । सस्यजीवनस्य अध्ययनं भारते प्राचीनकालात् अपि प्रवर्तते एव । अथर्ववेदः सस्यानाम् आकारं, गुणधर्मान्, लक्षणानि च अवलम्ब्य सस्यानां विभागं करोति । सस्यानां विभागाः केचन -

    • प्रस्थानवती (Spreading)
    • स्तम्भिनी (Bushy)
    • एकशङ्का (With Single shorl of calyx)
    • अंशुमती (Having many Shoots)
    • प्रतानवती (Extending)
    • विशाखा (Having Extending branches)
    • काण्डिनी (Jointed)
    • जीवाला (Lively)
    • नघरिषा (Harmless)
    • मधुमती (Very Sweet)

एषः सस्यविभागक्रमः ५००० वर्षेभ्यः पूर्वमेव कृतः आसीत् । किन्तु पाश्चात्त्यदेशेषु तु ग्रीक्देशीयः थियोप्रस्टस्वर्यः सस्यशास्त्रस्य संस्थापकः इति परिगण्यते, येन क्रि पू तृतीये शतके सस्यविभागक्रमः कृतः ।

ऋग्वेदे दर्शितः विभागक्रमः

ऋग्वेदे सस्यानां विभागः यः उक्तः सः एव आधुनिकैः अपि उक्तः अस्ति ।

वृक्षायुर्वेदः 
वीरुधविशेषः
      ऋग्वेदः थियोप्रस्टर्स्
      (क्रि पू ६०००) (क्रि पू ३०००)
      वृक्षाः Trees
      ओषधयः Herbs
      वीरुधः Shrubs

सुश्रुतस्य विभागक्रमः

सुश्रुतः चतुर्विधविभागं दर्शयति - वनस्पतयः, वृक्षाः, वीरुधः, ओषधयः चेति । 'अपुष्पाः फलवन्तो वनस्पतयः । पुष्पफलवन्तो वृक्षाः । प्रतानवत्यः स्तम्बिन्यश्च वीरुधः । फलपाकान्ताः ओषधयः' इति सः विवृणोति । एतत् एव विवरणं मनुः (१-४६-४८) अपि ददाति -

      उद्भिज्जाः स्थावरा ज्ञेया बीजकाण्डप्ररोहिणः ।
      ओषध्यः फलपाकान्ताः बहुपुष्पफलोपगाः ॥
      अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।
      पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥
      गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।
      बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ॥

चरकस्य विभागक्रमः

चरकः स्थावराणां षड् भेदान् वदति -

    • पुष्पं विना ये फलन्ति ते वनस्पतयः ।
    • फलपाकान्ताः ओषधयः ।
    • आरोहणापेक्षाः लताः ।
    • वेण्वादयः त्वक्साराः ।
    • लता एव काठिन्येन आरोहणानपेक्षाः वीरुधः ।
    • ये पुष्पैः फलन्ति ते द्रुमाः ।

चरके सस्यजातिलक्षणं यत् उक्तं तत् विशेषावधानम् अर्हति - 'ऊर्ध्वं स्रोतः आहारसञ्चारो येषां ते तमःप्रधानाः अव्यक्तचैतन्याः अन्तःस्पर्शमेव जानन्ति, नान्यत् तदप्यन्तरेव जानन्ति, न बहिः, विशेषेणः अव्यवस्थितपरिणामाद्यनेकभेदवन्तः' इति ।

वृक्षायुर्वेदः 
ओषधविशेषः

वराहमिहिरस्य विभागक्रमः

आधुनिकविज्ञानेन परिगण्यमानाः सस्यव्याधयः वराहमिहिरेण स्वकीये बृहत्संहितानामके ग्रन्थे उक्ताः सन्ति । ते च - बृहत्संहितायाम् आधुनिकविज्ञाने

    १ पाण्डुपत्रता Chlorosis of leaves
    २ प्रवालावृद्धिः Falling off of buds
    ३ शाखाशोषः Drying of branches
    ४ रसस्रुतिः Exudation of sap

Tags:

वृक्षायुर्वेदः वृक्षायुर्वेदस्य उल्लेखःवृक्षायुर्वेदः पराशरस्य विभागक्रमःवृक्षायुर्वेदः ऋग्वेदे उल्लेखःवृक्षायुर्वेदः ऋग्वेदे दर्शितः विभागक्रमःवृक्षायुर्वेदः सुश्रुतस्य विभागक्रमःवृक्षायुर्वेदः चरकस्य विभागक्रमःवृक्षायुर्वेदः वराहमिहिरस्य विभागक्रमःवृक्षायुर्वेदःअथर्ववेदःबृहत्संहितावराहमिहिरः

🔥 Trending searches on Wiki संस्कृतम्:

नीतिशतकम्बिजनौरकठोपनिषत्4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःरजनीशःनासापेलेअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्षमा रावकदलीफलम्जूनमेघदूतम्सलमान खान२४ सितम्बरजयशङ्कर प्रसादमास्कोनगरम्तत्त्वज्ञानम्देवगढमण्डलम्मोल्दोवानाट्यशास्त्रम् (ग्रन्थः)२०१५रीतिसम्प्रदायःचातुर्वर्ण्यं मया सृष्टं...मदर् तेरेसाजम्बुद्वीपःवेदव्यासः१६१५भारतीयप्रौद्यौगिकसंस्थानम्ब्रूनै१८९५व्लादिमीर पुतिनउर्वारुकम्ग्रेगोरी-कालगणनाशब्दःसमन्वितसार्वत्रिकसमयः०४. ज्ञानकर्मसंन्यासयोगःमामितमण्डलम्२५ सितम्बरनासिकानलचम्पूःकाव्यप्रकाशःरसःआर्मीनियाइन्द्रःमयि सर्वाणि कर्माणि...सिरियालन्डन्सूरा अल-फतिहा१० जनवरी१८९२विकिपीडियायाज्ञवल्‍क्‍यस्मृतिःवि के गोकाकबीभत्सरसःहरिद्रासेम पित्रोडाकणादःअन्तर्जालम्मेजर ध्यानचन्द२४ अप्रैलअन्ताराष्ट्रियः व्यापारःफ्रान्सदेशःअष्टाध्यायीभारतीयभूगोलम्भामहःअलङ्कारसम्प्रदायःवेदान्तःबुल्गारियाततः श्वेतैर्हयैर्युक्ते...शिश्नम्मणिमालाशर्कराओट्टो वॉन बिस्मार्कमानवविज्ञानम्🡆 More