रमाकान्तशुक्लः

रमाकान्तशुक्लः हिन्दीसंस्कृतयोः भारतीयः विद्वान् आसीत्। २०१३ तमे वर्षे साहित्यक्षेत्रे योगदानस्य कृते पद्मश्री इति चतुर्थः उच्चतमः नागरिकपुरस्कारः प्रदाय भारतसर्वकारेण तस्य सम्मानः कृतः। दिल्लीतः रेलयानेन झारखण्डराज्यं गच्छन् वैशाखमासस्य शुक्लपक्षस्य‌ दशमीतिथौ बुधवासरे (११ मै २०२२ दिनाङ्के) भारतस्य हरिनगरस्य (अलिगढस्य) समीपे स्वशरीरं त्यक्तवान् आसीत्।

जीवनवृत्तम्

रमाकान्तशुक्लस्य जन्म पौषमासस्य शुक्लपक्षस्य एकादशीतिथौ बुधवासरे (२५ दिसम्बर १९४०) तमे वर्षे भारतस्य उत्तरप्रदेशराज्यस्य खुर्जानगरे अभवत् ।  तस्य प्रारम्भिकम् अध्ययनं पारम्परिकरीत्या आसीत् यतः सः स्वमातापितृभ्यां संस्कृतं शिक्षितवान्-- साहित्याचार्येण पण्डितेन ब्रह्मानन्दशुक्लेन तथा प्रियंवदाशुक्ल इत्यनया। सः साहित्याचार्यस्य सांख्ययोगाचार्यस्य च उपाधी प्राप्तवान्। अनन्तरं आगराविश्वविद्यालये प्रवेशं प्राप्य स्वर्णपदकेन सह हिन्दीभाषायां स्नातकोत्तरं कृतवान्। ततः सः संपूर्णानन्दसंस्कृतविश्वविद्यालयात् संस्कृते स्नातकोत्तरं कृतवान्। १९६७ तमे वर्षे सः पी.एच.डी इति उपाधिम् अपि प्राप्तवान्। तस्य पी.एच्.डी.इत्यस्य विषयः आसीत् जैनाचार्य रविषेणकृत पद्मपुराण (संस्कृत) एवं तुलसीदास कृत रामचरितमानस का तुलनात्मक अध्ययन इति।

शुक्लः १९६२ तमे वर्षे मोदीनगरस्य मुल्तानीमलमोदी-स्नातकोत्तर-महाविद्यालये हिन्दीव्याख्यातारूपेण सम्मिलित्वा स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान्। पी.एच्.डी प्राप्य १ अगस्त् १९६७ दिनाङ्के सः राजधानीकोलेज्-दिल्लीविश्वविद्यालये नयी-दिल्ल्यां हिन्दीसंकायसदस्यरूपेण सम्मिलितवान्। विश्वसंस्कृतसम्मेलनम् इत्यादिषु अनेकेषु संगोष्ठीषु सम्मेलनेषु च भागं गृहीतवान् । तेन भारतीयसौन्दर्यशास्त्रे काव्ये संस्कृतसाहित्ये च अखिलभारतीयप्राच्यसम्मेलनानाम् (ओल्-इण्डिया-ओरियन्टल्-कोंफ्रेंस्) अध्यक्षता स्वीकृता। सः दिल्लीतः स्वसंस्थायाः देववाणीपरिषदः प्रकाशितस्य त्रैमासिकपत्रिकायाः अर्वाचीन-संस्कृतस्य संस्थापकः मुख्य-सम्पादकः च अस्ति। सः संस्कृतभाषायाः प्रतिनिधित्वं कुर्वन् आकाशवाण्याम् सर्वभाषा-कविसम्मेलने अपि भागं गृहीतवान् अस्ति

पुस्तकानि

शुक्लेन संस्कृतभाषायां हिन्द्यां च पुस्तकानि लिखितानि सन्ति। तेन दूरदर्शनद्वारा प्रसारितस्य भाति मे भारतम् इति संस्कृतदूरदर्शनश्रृङ्खलायाम् अपि लेखनं निर्देशनं च कृतम् अस्ति ।

  • रमाकान्तशुक्लः 
    रमाकान्तशुक्लः
    डो. रमाकान्तशुक्लः (१९७९) अर्वाचीनसंस्कृतं। नयीदिल्ली देववाणी-परिषदः। LCCN 81910313.
  • डो. रमाकान्तशुक्लः (१९८०) भाति मे भारतम्। नयीदिल्ली देववाणी-परिषदः। LCCN 83906451.
  • डो. रमाकान्तशुक्लः (१९९३) देववाणी-सुवासाः - डॉ. रामकान्तशुक्लाभिनन्दन-खण्डम् . देववाणी-प्रकाशनात्। अन्तर्राष्ट्रिय-मानक-पुस्तक-संख्या 978-8190030854.
  • डो. राम कान्त शुक्ल (२०००) सारस्वत-सङ्गम। नयीदिल्ली ज्ञानभारतीपब्लिकेशंस्। LCCN 99956208.
  • रमाकान्तशुक्लः (२०००) संस्कृतकविः विद्वान् च रमाकान्तशुक्लः स्वस्य रचनाभ्यः पठति। नयीदिल्ली दक्षिणैशियायीसाहित्यिकाभिलेखनपरियोजना (Library of Congress) OCLC 47738659.
  • डो. रमाकान्तशुक्लः (२००२) "भारतज्ञाताऽहम्" ।वैदिक-बुक्स् . अभिगमनतिथि २७ अक्टूबर् २०१४

शुक्लः राष्ट्रीयसंस्कृतसंस्थाने शास्त्रचूडामणिविद्वान्रूपेण स्वकर्तव्यं निर्वहन् नवीदिल्लीनगरे निवसति।

पुरस्काराः मान्यता च

शुक्लः कतिपयाभिः साहित्यिकसंस्थाभिः कविरत्न संस्कृतराष्ट्रकविः कविशिरोमणिः हिंदीसंस्कृतसेतुः च उपाधीन् प्राप्तवान् अस्ति। तस्मै कालीदाससम्मानः संस्कृतसाहित्यसेवासम्मानः संस्कृतराष्ट्रकविः चापि उपाधयः अमिलन्। उत्तरप्रदेशसर्वकारेण राज्यपुरस्कारेण शुक्लः सम्मानितः अस्ति। दिल्लीसंस्कृत-अकादमी इत्यनया सः अखिलभारतीय-मौलिकसंस्कृत-रचनापुरस्कारः अपि प्राप्तवान्। भारतस्य राष्ट्रपतिना तस्मै २००९ तमे वर्षे संस्कृतविद्वान्-पुरस्कारः प्रदत्तः ।तदनन्तरं भारतसर्वकारेण पद्मश्रियम् २०१३ तमे वर्षे दत्तः। सः भारतीयसंस्कृतप्रचारसङ्घस्य संस्थापकः अध्यक्षः अस्ति। शुक्लः २०१८ तमे वर्षे मम जननी इत्यस्मै संस्कृते साहित्य-अकादमीपुरस्कारेण सम्मानितः।

उद्धरणानि

Tags:

रमाकान्तशुक्लः जीवनवृत्तम्रमाकान्तशुक्लः पुस्तकानिरमाकान्तशुक्लः पुरस्काराः मान्यता चरमाकान्तशुक्लः उद्धरणानिरमाकान्तशुक्लःअलिगढ, उत्तरप्रदेशःपद्मश्री-पुरस्कारःभारतसर्वकारः

🔥 Trending searches on Wiki संस्कृतम्:

सन्धिप्रकरणम्नेपोलियन बोनापार्टयमः१४ अप्रैलक्षमा रावमाइक्रोसाफ्ट्उपनिषद्बुरुंडी१८२०भ्क्रिकेट्-क्रीडा४४४शर्मण्यदेशःतम्लुकअरबीभाषाईशावास्योपनिषत्शाब्दबोधःफिन्लैण्ड्आस्ट्रेलियाअद्वैतवेदान्तःकुरआन्चीनदेशः६ मार्चवाल्मीकिःगुरुग्रहःकाव्यप्रकाशःलातिनीभाषाशकुन्तलाव्याकरणम्२ मईशर्करासंस्कृतभाषाध्वन्यालोकःवेदःनेपालदेशःसल्फर१७१२उपमालङ्कारःनियमःपाणिनिः४ अप्रैलप्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्अलङ्काराणां क्रमिकविकासःयजुर्वेदःमम्मटःमालीचार्ल्सटन्थाईलेण्ड्रथोद्धताछन्दःकाफीपेयम्नृत्यम्तपःचे ग्वेएरा८५४१५६१अर्जुनःपिङ्गलःजयदेवाचार्यःसूर्यः (ज्योतिषशास्त्रम्)पुराणलक्षणम्९६१९००ओषधयःवेदाःदशकुमारचरितम्तत्त्वशास्त्रम्वीतरागभयक्रोधा...हेमचन्द्राचार्यः९६०१४०३दर्शनानि१०६९मकरराशिः🡆 More