पञ्जे मङ्गेश राय

Panje Mangesh Rao
जननम् Bantwal
वृत्तिः Headmaster, Author
राष्ट्रीयता India
कालः 1874 - 1937
प्रकारः Folklore, Poetry, Translation
साहित्यकान्दोलनम् Navodaya

बाल्यम्

कन्नडनवोदयस्य काव्यस्य प्रवर्तकः पञ्जेमङ्गेशरायः(Panchamangesharaya) १८७४ तमे वर्षे फेब्रवरिमासस्य २२तमे दिनाङे पुत्तूरु-उपमण्डलस्य बण्ट्वाऴ ग्रामे जन्म प्राप्तवान् । एतस्य पूर्वजाः दक्षिणकन्नडमण्डलस्य पञ्जग्रामवासिनः । अतः एषः कविः पञ्जे वंशस्थः । पिता रामप्पय्यः, माता शान्तादुर्गे – अनयोः पुत्रः मङ्गेशरावः पञ्जेमङेशरावः इत्येव प्रसिद्धः जातः ।

वृत्तिः

लघु वयसि पितृवियोगात् बाधितः मङ्गेशरावः स्वसामार्थ्येन विद्याभ्यासं कृत्वा बि. ए. पदवीं प्राप्तवान् । अनन्तरं यल् डि परीक्षायां उत्तीणः सन् मङ्गलूरुसर्वकारीयमहाविद्यालये शिक्षकः अभवत् । निवृत्तिपर्यन्तं शिक्षणक्षेत्रे सेवाम् अकरोत् सः । ६४ तमे वयसि १९३७ तमे वर्षे अक्टोबर्-मासस्य २४ तमे दिनाङ्के दिवङ्गतः ।

साहित्यकृषिः

बालसाहित्यरचने निपुणः कविः पञ्जेमङ्गेशरायः बालानां कृते सुन्दराणि कवनानि रचयति स्म । बालानां कृते लघु कथारचनम् अपि तस्य प्रियं कार्यम् आसीत् । कन्नडसाहित्यसम्मेलनद्वारा कवेः पञ्जेमङ्गेशवर्यस्य परिचयः कन्नडजनैः प्राप्तः । १९३४ तमे वर्षे रायचूर्-नगरे प्रचलितस्य २० तमस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षपीठम् अलङ्कृतवान् मङेशरावः कन्नडनवोदयकाव्यस्य प्रवर्तकः इत्येव ख्यातः जातः ।

बालसाहित्यरचनम्

कविना बालानां कृते लिखितं कवितासङकलनं पाठ्यपुस्तकरूपेण १९१२ तमे वर्षे स्वीकृतम् । एतस्य द्वितीयः भागः १९१९ तमे वर्षे प्रकाशितः जातः । एतस्य संशोधनस्य लेखानां सङ्कलनं "पञ्चकज्जाय”नाम्ना प्रकाशितम् अभवत् १९२७ तमे वर्षे । कविना लिखिताः अन्यकविताः "हुत्तरि हाडु”,“तेङकण गालियाट",“गर हावे हावोलु हूवे” कर्णाटकराज्ये सर्वत्र सुप्रसिद्धः अभवत् । अनेन लिखिताः केचन प्रमुखग्रन्थाः 'ओड्डन ओटा', 'कोक्कोकोकोलि', 'कोटिचेन्नय्य', 'हेनु सत्ताग कागे बडवायितु', 'इलिगल थक थै', 'अज्जि साकिद मगु' इत्यदि । मङेशरावः१९२१तमे वर्षे मङलूरुनगरे बाल साहित्य मण्डलि इत्येतां संस्थां स्थापयित्वा बालानां कृते उपयुक्तानि साहित्यानि दत्त्वा सर्वेषां प्रशंसार्हः जातः ।

Tags:

पञ्जे मङ्गेश राय बाल्यम्पञ्जे मङ्गेश राय वृत्तिःपञ्जे मङ्गेश राय साहित्यकृषिःपञ्जे मङ्गेश राय बालसाहित्यरचनम्पञ्जे मङ्गेश राय

🔥 Trending searches on Wiki संस्कृतम्:

वेदान्तःमामितमण्डलम्मालाद्वीपःपञ्चतन्त्रम्१८३७अव्ययीभावसमासः७१९पलाण्डुःअश्वघोषःराँचीसोडियमसिद्धिं प्राप्तो यथा ब्रह्म...२५ सितम्बर१८०७जार्जिया (देशः)कामसूत्रम्जयशङ्कर प्रसादनासतो विद्यते भावो...कङ्गारूजावासाहित्यशास्त्रम्आकस्मिक चिकित्साअरावलीलातूर२४ अप्रैलमोहम्मद रफीशतपथब्राह्मणम्अलवरमलेरियारोगः१२३८२१ जनवरीपञ्चमहायज्ञाःलीथियम्पाषाणयुगम्१९ जून११५०अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याजलम्३०८व्लादिमीर पुतिनमार्जालःबिहारीनादिर-शाहःमृच्छकटिकम्सितम्बर १३वीर बन्दा वैरागीवेदव्यासःकाव्यमीमांसासेनयोरुभयोर्मध्ये रथं...वेदाविनाशिनं नित्यं...१२७४महाकाव्यम्दर्शन् रङ्गनाथन्किरातार्जुनीयम्नासाविलियम ३ (इंगलैंड)दशार्हःरामःकर्मयोगः (गीता)बहूनि मे व्यतीतानि...बौद्धधर्मःशिश्नम्अन्तरतारकीयमाध्यमम्एप्पल्एक्वाडोरदेवगढमण्डलम्यदा यदा हि धर्मस्य...राजशेखरःइरीट्रिया१६७७🡆 More