नवकलेबरः भगवतः जगन्नाथस्य प्राचीनतमः उत्सवः वर्तते। अस्मिन्नुत्सवे भगवतां जगन्नाथ-बलभद्र-सुभद्रा-सुदर्शनानां प्राक्तनमूर्तीनां स्थाने नूतनमूर्तयः प्रतिष्ठाप्यन्ते। नवः कलेबरः = नवकलेवरः , अर्थात् जगन्नाथ-बलभद्र-सुभद्रा-सुदर्शनाः प्रक्तनशरीरं त्यक्त्वा नवशरीरं धरन्ति।
नवकलेबर | |
---|---|
नवकलेबर २०१५ चिह्नम् | |
प्रारम्भः | 29 March 2015 |
समाप्तिः | 17 July 2015 |
आवृत्तिः | 19/18/12 years |
स्थानम् | Jagannath Temple, Puri, Odisha |
उद्घाटनम् | 1733 |
आम्भकः | Gajapati Ramachandra Deba (Abhinav Indradyumna) |
पूर्वोत्सवः | 1996 |
अन्वोत्सवः | 2035 |
प्रतिभागी | Pilgrims |
उपस्थितिः | 5 million (approx.) |
शैली | Religious |
सहायकाः | Gajapati Maharaj Puri |
जालस्थानम् | nabakalebara.gov.in |
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।। - श्रीमद्बगवद्गीता - द्वितीयाध्यायः
परम्परानुसारं यस्मिन् वर्षे अधिकाषाढमसः संभवति तदा नवकलेवरोत्सवः परिपाल्यते। एतत् प्रायः ८ वर्षेषु अथवा ११ वर्षेषु अथवा १९ वर्षेषु संभवति। देवतानां मूर्तयः विशेषनिम्बवृक्षस्य दारुभिः क्रियन्ते। अतः भगवान् जगनानाथः 'दारुब्रह्म' इत्यपि कथ्यते। चैत्रमासे अस्योत्सवस्य आरम्भः भवति। इतः पूर्वम् अयमुत्सवः १७३३, १७४४, १७५२, १७७१, १७९०, १८०९, १८२८, १८३६, १८५५, १८७४, १८९३, १९१२, १९३१, १९५०, १९६९, १९७७, १९९६ वर्षेषु अभवत्। सम्प्रति २०१५ वर्षे अयमुत्सवः परिपाल्यते। यस्मिन् ३० लक्षाधिकाः भक्ताः भगवतो जगन्नाथस्य दर्शनेन चरितार्थाः भवन्तीति आशास्महे।
* १८ जुलै २०१५, शनिवासरः - रथयात्रा ।
अग्रिमः नवकलेबरोत्सवः २०३५ वर्षे परिपालयिष्यते।
This article uses material from the Wikipedia संस्कृतम् article नवकलेबर २०१५, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.