तेकडी

तेकडीअभयारण्यम् (इडुक्कीमण्डलम्) केरळराज्यम् अतीव लघुराज्यमस्ति । कर्णाटकस्य त्रिमण्डलपरिमितम् अस्ति । अत्र १४ मण्डलानि, ६१ उपमण्डलानि सन्ति । राज्ये भारतपुळानदी दीर्घा २५१ कि.मी दूरं प्रवहति । केरळस्य विस्तीर्णं ३८८६ चतुरस्रकि.मी. । जनसख्या ४ कोटिमिता । सागरतीरं ५८८ कि.मी.यावत् दीर्घम् अस्ति । तेकडीप्रदेशः सुन्दरगिरिधाम अभयारण्यं च अस्ति । केरळे चतुर्दशवन्यजीविधामानि सन्ति । तेकडीवन्यजीविधाम अतीव विस्तृतं ७७६ हेक्टर् मितम् अस्ति । एतत् गजानां जन्मस्थलम् इति कथयन्ति । अत्र प्रेक्षणीयः इडुक्कीजलाशयः ३३ चतुरस्र कि.मी विस्तृतः अस्ति । अस्य सरोवरस्य कारणानि त्रयः जलबन्धाः अनेके सेतवः च । एतत् पेरियार् वन्यधाम इति अपि प्रसिद्धम् । क्रिस्ताब्दस्य १९३४ तः १९५० तमवर्षपर्यन्तं वन्यमृगधाम्नः अभिवृद्धिः कृतास्ति । अतीव हितकरं वातावरणम् अत्र अस्ति । गिरिधाम्नः उन्नतिः सागरस्तरतः ३००० पादपरिमितात् ६००० पादपरिमितं यावत् अस्ति । पेरियारसरोवरं ६७ चतुरस्रकि.मीटर् विस्तृतम् अस्ति ५.१ कि.मीटर् दीर्घः १०० तः १२०० पादपरिमितगभीरः च अस्ति । पेरियारनद्यां नौकाविहारव्यवस्थां केरलप्रवासोद्यमनिगमः करोति ।(पेरियार् वन्यधामनि गजाः इतस्ततः सञ्चरन्ति । साक्षात् व्याघ्रानां दर्शनम् भवति । विविधाः पक्षिसमूदायाः अपि सन्ति । मृगाः वन सूकरः वनश्वानाः वनबिडालाः, वनमहिष्यः कपयः च अभयारण्ये विहरन्ति । हार्नबिल् बुलबुल पक्षिणां वासस्थानानि सन्ति । प्राणिवीक्षणार्थं गोपुराणां निर्माणं कृतमस्ति । सर्वत्र पानजलं दीपव्यवस्था आहारवस्तु च नेतव्यानि भवन्ति । पूर्वानुमतिः प्राप्तव्या भवति । वनप्रदेशे ‘जङ्गलवाक् ’ वनचारणं कर्तुं व्यवस्था अस्ति । अत्र मार्गदर्शकाः अपि सन्ति । तट्टुकाडु प्रदेशे पक्षिधाम अस्ति । एतत् ख्यातपक्षिशास्त्रज्ञस्य सली अलीवर्यस्य प्रेरणया निर्मितम् ।

वसतिः

वसत्यर्थं वनेऽपि व्यवस्था अस्ति । कुमिलिप्रदेशे उपाहारवसतिगृहाणि सन्ति । केरळराज्य- प्रवासोद्यमनिगमस्य वसतिगृहम् अपि अस्ति । अस्य नाम ‘अरण्यनिवास’ इति अक्टोबरमासतः जूनपर्यन्तम् अत्र अगन्तुं जनाः इच्छन्ति । एप्रिल-मेमासयोः जनाः बहवः अत्र आगच्छन्ति ।

विमानमार्गः

मधुरै अथवा कोच्चीविमाननिस्थानतः वाहनमार्गः धूमशकटमार्गः अस्ति ।

धूमशकटमार्गः

कोट्टायम् निस्थानतः वाहनव्यवस्था अस्ति ।

वाहनमार्गः

कोट्टायम् निस्थानतः –वाहनमार्गः अस्ति । कोट्टायमतः २२५ कि.मी । अरण्यनिवासपर्यन्तम् वाहनानि सन्ति ।

Tags:

तेकडी वसतिःतेकडी विमानमार्गःतेकडी धूमशकटमार्गःतेकडी वाहनमार्गःतेकडी

🔥 Trending searches on Wiki संस्कृतम्:

भारतेश्वरः पृथ्वीराजःसंस्कृतविकिपीडियाश्वेतःअलवरबिहार विधानसभावक्रोक्तिसम्प्रदायःविल्हेल्म् कार्नार्ड् रोण्ट्जेन्चरकसंहितायोगःकङ्गारूहरिद्रारीतिसम्प्रदायःकर्मणैव हि संसिद्धिम्...महाभाष्यम्इतालवीभाषा११ जूनसूत्रलक्षणम्यो यो यां यां तनुं भक्तः...१७३०विमानयानम्ए आर् रहमान्यवःपतञ्जलिस्य योगकर्मनियमाःउपसर्गाः३०८तैत्तिरीयोपनिषत्१५१४Devanagariजाम्बियारूपकालङ्कारःगाण्डीवं स्रंसते हस्तात्...रामायणम्२५ सितम्बर२९ अप्रैलनडियादविद्याधान्यानिवर्षःसूरा अल-फतिहा१६७७यवनदेशःनादिर-शाहःकदलीफलम्१२७४राजशेखरःदेवनागरीनवदेहली१४३५माहेश्वरसूत्राणिकाशिकाअष्टाध्यायीमार्जालःनिरुक्तम्लेबनानइण्डोनेशियाअलङ्कारशास्त्रस्य सम्प्रदायाःजातीमलेशियासमन्वितसार्वत्रिकसमयःछन्दःउपमालङ्कारःपाराशरस्मृतिः२३ जनवरीआङ्ग्लविकिपीडियाकालिदासः२०११२५ अप्रैलजार्जिया (देशः)x9hqnभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घः🡆 More