शतावधानी गणेश

क्रि.श.१९४२ तमे वर्षे डिसेम्बर् मासस्य चतुर्थे दिने जातः एषः प्रसिध्दः अवधानविद्यानिष्णातः । कन्नडभाषायां अवधानविद्यां प्रचार्य विश्रुतोऽयं महाभागः । विद्याधिपस्य भगवतः विनायकस्य आशीर्भिः वर्धितः डा.आर् गणेशमहोदयः अवधानविद्यातुरेषु भारतीयेषु प्रथमश्रेणिमलङ्करोति । अल्पावधावेव विभिन्नक्षेत्रेषु कृतभूरिसाधनः एषः भारतीयाभाषासास्वतलोके औन्नत्यमाप्नोति ।

शतावधानी
डा. आर्. गणेशः
शतावधानी गणेश
बहुभाषाविद्वान् शतावधानी रा.गणेशः
जन्म (१९६२-२-२) ४, १९६२ (आयुः ६१)
देशीयता भारतीयः
शिक्षणस्य स्थितिः भारतीयविज्ञानसंस्था Edit this on Wikidata
वृत्तिः साहित्यकारः&Nbsp;edit this on wikidata

बाल्यशिक्षावृत्तयः

उपलब्धयः

तान्त्रिकशिक्षणात् तत्त्वशास्त्रपर्यन्तं नानाविषयेषु प्राप्तपरिणतिः गणेशमहाभागः कन्नडस्य अन्यभाषायाः च सारस्वतलोके एकः प्रतिभापूर्णपुरुषः इत्यत्र न काऽपि संशितिः । कन्नडजनानां सौभाग्यमिदं यत् यन्त्रशास्त्रे तान्त्रिकपदवीं तथा स्नातकोत्तरपदवीं, लोहशास्त्रे वस्तुविज्ञाने च पि. एच.डि पदवीं च प्राप्य अध्यापकवृत्तिमाश्रितः एषः अवधानाविद्याकृष्टः अभवत्, तस्याः प्रचारमप्यकरोत् । ‘कन्नडभाषायाम् अवधानकला’ इति महाप्रबन्धमनुलक्ष्य हम्पीकन्नड विश्वविद्यानिलयः स्वस्य प्रथमां डि.लिट् पदवीम् अस्मै प्रदाय सममानयत् । अधुना भारतीय विद्या भवनस्य बेङ्गलूरु शाखायां संस्कृतविभागस्य निर्देशको भूत्वा सेवां कुर्वन् आर् गणेश् महोदयः कर्नाटकस्य तथा अस्य जनानां कृते महार्धनिधिरिवास्ति । गणेशमहाभागः एतावतपर्यन्तं त्रिशताधिकं अष्टावधानं, शताबधानत्रयं च प्रदर्श्य इदानीं सहस्रावधान प्रदर्शनार्थं सिध्दोऽस्ति । तथैव तेलुगुतमिळु संस्कृत भाषासु अष्टावधानं कृत्वा कीर्तिमर्जितवान् । एवं भाषा चतुष्टयेऽपि कृतावधानप्रदर्शनः एषः एक एव भारतीयः यः एतादृशकलासाधकः । काव्य –तत्वशास्त्र इतिहास-कला अलङ्कारादिषु शास्त्रविषयेषु परिणतमतिः श्री गणेशमहाभागः सङ्गीत – नृत्य चित्रश्चनादि ललितकलासु अपि कृतपरिश्रमः प्रयोगकुशलश्च । कन्नडम्, संस्कृतम् तेलुगु, तमिळु, हीन्दी,पाली, शौरसेनी, मराठी, बङ्गली, इत्यादि भारतीयभाषाः तवमेव आङग्लम्, ग्रीक्, ल्याटिन् इटालियन् आदिवैदेशिकभाषाः आहत्य अष्टदशभाषाः न केवलं जानाति, किन्तु परिणतिरप्यस्ति ।

प्रकृतम्

स्वयं कविः उपन्यासकः विचारविमर्शकः श्री गणेशमहाभागः शताधिकान् प्रौढप्रबन्धान् लिखितवान् । तेषु कन्नडसंस्कृततेलुगुवाङ्मयमधिकृत्य तथा तत्त्वशास्त्रनीतिशास्त्रालङ्कारशास्त्रयक्षगाननृत्यतन्त्रज्ञानविज्ञानादीन् विषयान् अवलम्ब्य चिन्तिताः विशिष्टविचाराः सन्ति । प्राचीन भारते वास्तुशास्त्रं तन्त्रज्ञान च तथा ‘वेदानां ऐतिह्यम् इत्यादिषु विरलाति विरलेषु विषयेषु संशोधनं कृतवान् । संस्कृते द्वादशाधिक नाटकानि, षोडशप्ड्यकाव्यानि च विरचय्य्, कन्नडे अष्टकाव्यानि त्रीन् कथाग्रन्यान च लिखितवान् । अन्यभाषायाः षडग्रन्थानां भाषान्तरं कृतवानस्ति । विद्वज्जनैः सहृदयैः सर्वकारेण च सम्मानितः श्री गणेश महोदयः स्वपाण्डित्येन, सरलतया, चातुर्येण,मैत्रीभावेन च् साधारणासाधारणयोरुभयोरपि जनयोः प्रतिभाचनमस्ति । लोकसुकृतफलमिव, कर्नाटकजनानां भाग्योदय इव श्री आर्. गणेश सदृशाः अवधानिनः अत्र जन्म प्राप्ताः । दिने दिने भाषा साहित्यादिक्षेत्रेषु आसक्तौ अपचीपमाने समयेऽस्मिन् गणेशसदृशानां अस्तित्वं, भाषापुनसज्जीवनार्थ बध्दपरिकराणां नवचैतन्यदायकं भवति । मर्गदर्शकंचास्ति ।

Tags:

कन्नडभाषा

🔥 Trending searches on Wiki संस्कृतम्:

२१०हृदयम्कवकम्फ्लोरेंसशब्दःप्रलम्बकूर्दनम्शेख् हसीनाबौद्धधर्मःस्वदेशीसिलिकनमलागाजार्ज १सङ्गणकम्अन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमालाहनुमान् चालीसाभोजपुरी सिनेमाबेलं गुहाआदिशङ्कराचार्यः१७ दिसम्बरविक्रमोर्वशीयम्रोम-नगरम्देहलीसूत्रलक्षणम्स्लम्डाग् मिलियनेर्संस्कृतविकिपीडियासिलवासावायुमण्डलम्सांख्ययोगःभारतीयदार्शनिकाःराष्ट्रियस्वयंसेवकसङ्घःचाणक्यःसायणःशर्करानारिकेलम्वैश्विकस्थितिसूचकपद्धतिःफरवरी १५९४२श्रीहर्षःसूरा अल-इखलासजनकःअन्तर्जालम्मेघदूतम्भारतम्वेदान्तःतमिळभाषामातृदिवसः१८ सितम्बरमध्यमव्यायोगः१६ अगस्त२०१२कालीदिसम्बरमत्त (तालः)ब्रह्मसूत्राणिभरुचमण्डलम्दमण दीव चमार्च ३०१४०५प्रकरणम् (रूपकम्)क्षमा रावकेन्द्रीय अफ्रीका गणराज्यम्क्रिकेट्-क्रीडाद्वितीयविश्वयुद्धम्युरेनस्-ग्रहः🡆 More