जेमशेतजी नसर्वान्जि टाटा (गुजराति: જમ્શેત્જી નુંસ્સેર્વાનજી ટાટા; ३ मार्च् १८३९ – १९ मे १९०४) कश्चन भारतीयः उद्योगपतिः । भारतस्य बृहत्तमायाः टाटाग्रूप्-संस्थायाः संस्थापकः अयम् । सः गुजरातराज्ये नव्सरिप्रदेशे कस्मिंश्चित् पार्सिकुटुम्बे जन्म प्राप्नोत् । तस्य सम्पत्तिः ४० मिल्लियन् $ स्यात् इति ऊह्यते । अयं भारतीयोद्यमस्य पिता इति निर्दिश्यते ।
जेमशेतजी १८३९ तमे वर्षे मार्च्मासस्य ३ दिनाङ्के जन्म प्राप्नोत् । तस्य पिता नसरवन्जि, माता जीवन्बाई टाटा च । पार्सि झोरास्ट्रियन् अर्चककुटुम्बे नसरवन्जी प्रथमः उद्योगपतिः । सः स्वस्य वाणिज्यं बाम्बेनगरे आरब्धवान् । जेमशेतजी १४ वयसि बाम्बे अगच्छत् । एल्फिन्स्टोन्-महाविद्यालयं प्राविशत् । विद्यार्थिजीवने एव सः हीराबाई दाबूं परिणीतवान् । १८५८ तमे वर्षे पदवीधरः जातः सः पितुः वाणिज्ये आत्मानम् अयोजयत् । ब्रिटिश्सर्वकारस्य विरोधः आसीत् इत्यतः सः समयः वाणिज्याय कष्टकरः आसीत् ।
जेमशेतजी पितुः संस्थायां १८६८ पर्यन्तं कार्यम् अकरोत् । ततः सः २१००० रूप्यकाणां मूलधनेन नूतनां वाणिज्यसंस्थाम् आरब्धवान् । १८६९ तमे वर्षे तेन चिञ्चपोकलीप्रदेशे विद्यमाना प्राप्तदुर्गतिः तैलनिर्माणीसंस्था प्राप्ता । सः तां कार्पासनिर्माणीरूपेण परिवर्त्य अलेक्सान्ड्रामिल् इति नामकरणं कृतवान् । वर्षद्वयस्य अनन्तरं सः तां विक्रीतवान् समीचीनं लाभं प्राप्य । ततः १८७४ तमे वर्षे तेन नागपुरे कार्पासनिर्माणी संस्थापिता । १८७७ तमे वर्षे विक्टोरियाराज्ञी भारतस्य साम्राज्ञी (एम्प्रेस् आफ् इण्डिया) इति यदा घोषितं तदा सः 'काटन्मिल्' इत्येतत् 'एम्प्रेस्मिल्' इति नामपरिवर्तनं कृतवान् ।
स्वस्य चतसृणां महायोजनानां साकाराय तेन स्वस्य जीवनं समर्पितम् - ऐरन् अण्ड् स्टील् कम्पनी-स्थापनम्, जगत्स्तरीयस्य शैक्षणिकसंस्थायाः, अद्वितीय उपाहारमन्दिरस्य च स्थापनम्, हैड्रो-एलेक्ट्रिक् प्लाण्ट्स्थापनम् । एतासु एकमात्रयोजना तस्य जीवितावधौ साकारताम् आप्नोत् - ताज्महल्होटेल् १९०३ तमस्य वर्षस्य डिसेम्बर्मासस्य ३ दिनाङ्के उद्धाटितं जातम् ।
तस्य, तस्य सहकारिणां महतः परिश्रमस्य कारणेन तदीया प्रत्येका योजना अपि साकारतां गता । तत्तत्क्षेत्रे महत् साधनं कृतमस्ति -
जेमशेतजी हीराबाईदाबूं परिणीतवान् । तयोः पुत्रौ दोराब्जि टाटा,रतन्जी टाटा च । तौ टाटासंस्थायाः उत्तराधिकारिणौ जातौ ।
१९०४ तमे वर्षे जर्मन्प्रवासावसरे टाटावर्यः गम्भीरतया अस्वस्थः जातः । १९०४ तमे वर्षे मेमासस्य १९ दिनाङ्के नौहिम्नगरे सः दिवङ्गतः । इङ्ग्लेण्ड्देशस्य पारसीश्मशाने तस्य अन्त्यसंस्कारः कृतः ।
तेन आरब्धा संस्था अद्यत्वे टाटाग्रूप् नाम्ना प्रसिद्धा । जगतः बृहत्तमासु स्वायत्तसंस्थासु अन्यतमा अस्ति । झार्खण्ड्राज्यस्य जम्शेड्पुरं तस्य मरणोत्तरं टाटानगरमिति नामाङ्कितम् । टाटा स्टील्, टाटा मोटार्स्, टाटा पवर्, जुस्को, टाटा कुमिन्स्, टाटा राबिन्स् फ्रेजर्, टाटा बेरिङ्ग्, टाटा ट्यूब्स् डिविजन्, टाटा अग्रिको, टाटा पिग्मेण्ट्स् -इत्यादीनि टाटाग्रूप्मध्ये अन्तर्भवन्ति ।
"
This article uses material from the Wikipedia संस्कृतम् article जमशेदजी टाटा, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.