किरण बेदी

डॉ.

किरण बेदी ( /ˈkɪrənə bɛd/) (पञ्जाबी: ਕਿਰਨ ਬੇਦੀ, आङ्ग्ल: Kiran Bedi,(हिन्दी: किरण बेदी) आई. पी. एस्. (भारतीय पुलिस् सेवा) इत्यस्याम् उच्चाधिकारिरूपेण प्रथमा महिला आसीत् । सा आई. पी. एस्. इत्यस्यां विभिन्नानि पदानि अलङ्कृत्य जनसेवाम् अकरोत् । ’संयुक्त आयुक्त पुलिस् प्रशिक्षण’, ’पुलिस् स्पेशल् आयुक्त’ (खुफिया) इत्यनयोः संस्थयोः तया कार्यं कृतम् आसीत् । वर्तमाने सा ’संयुक्त राष्ट्र संघ’ इत्यस्य सङ्घटनस्य ’शान्ति स्थापना ऑपरेशन्’-विभागे ’नागरिक पुलिस मार्गदर्शक’ इतीदं पदम् अलङ्कृत्य कार्यरता अस्ति । २००२ तमे वर्षे सा ’भारत की प्रशंसित महिला’ इत्युपाधिना सम्मानिता ।

किरण बेदी
किरण बेदी

बाल्यं परिवारश्च

डॉ. बेदी इत्यस्याः जन्म १९४९ तमस्य वर्षस्य जून-मासस्य नवमे दिनाङ्के (९/६/१९५९) पञ्जाबराज्यस्य अमृतसर-नगरे अभवत् । तस्याः पितुः नाम प्रकाश लाल, मातुः नाम प्रेमलता अस्ति । तस्याः तिस्रः भगिन्यः सन्ति । fucked by jony sins h

शिक्षणम्

अमृतसर-नगरस्य सेक्रेड् हार्ट् कॉन्वेन्ट् स्कूल् इत्यस्मिन् विद्यालये किरण १९५५ तः १९६४ पर्यन्तम् अधीतवती । तत्र सा नॅशनल् केडेट् कॉर्प्स् (एन्. सी. सी.) प्रविष्टवती । १९६४ तः १९६८ पर्यन्तं तया अमृतसर-नगरस्य गवर्न्मेण्ट् कॉलेज् फॉर् विमेन् इत्यस्मिन् महाविद्यालये आङ्ग्लभाषायाः (ऑनर्स्) विषये स्नातकस्य (बी. ए.) अध्ययनं कृतम् । महाविद्यालये सा नॅशनल् केडेट् कॉर्प्स् (एन्. सी. सी.) इत्यस्य सर्वश्रेष्ठ केडेट् इति पुरस्कृता । १९७० तमे वर्षे सा पञ्जाबविश्वविद्यालयात् राजनीतिविज्ञान-विषये (पोलिटिकल् साइन्स्) स्नातकोत्तरपदवीं प्राप्तवती । १९८८ तमे वर्षे सा दिल्ली विश्वविद्यालयात् न्यायविषये (law) स्नातकपदवीं प्राप्तवती । १९९३ तमे वर्षे किरण बेदी नवदेहली-नगरस्य ’राष्ट्रीय तकनीकी संस्थान’ इत्यस्याः संस्थायाः ’सामाजिक विज्ञान में नशाखोरी तथा घरेलु हिंसा’ इति विषयम् अधिकृत्य पी. एच्. डी. पदवीं प्राप्तवती ।

अभिरुचिः

बाल्ये टेनिस्-क्रीडायां तस्याः अभिरुचिः आसीत् । सा टेनिस्-क्रीडायाः श्रेष्ठक्रीडालुः आसीत् । अस्यां क्रीडायां तया बहवः पुरस्काराः अपि जिताः । ऑल इण्डिया टेनिस् चॅम्पियन्शिप्, ऑल एशियन् टेनिस् चॅम्पियन्शिप् इत्येतयोः अपि सा विजयित्री आसीत् । किन्तु समयान्तरे तस्याः रुचिः सामाजिकक्षेत्रे परिवर्तिता जाता । तस्याः जीवनं स्वस्याः कर्तव्यपालने एव गतम् । किरण बेदी इत्यस्याः जीवनस्य दृष्टिकोणः भिन्नः एव अस्ति । बाल्यावस्थायाः एव तस्याः मनसि उच्चविचाराः आसन् । तेन कारणेन तया देशाय समाजाय च निष्ठापूर्वकं कार्यं कृतम् अस्ति क्रियमाणम् अस्ति च ।

विवाहः

१९७२ तमे वर्षे ब्रज बेदी इत्याख्येन सह किरण बेदी इत्यस्याः विवाहः अभवत् । वर्षत्रयानन्तरं तयोः साइना नामिका एका पुत्री जाता । विवाहात् परम् अपि किरण बेदी इत्यस्याम् अध्ययनस्य उत्साहः आसीत् । अतः सा अध्ययनस्य प्रवर्तनम् अकरोत् ।

प्रथमा महिला आई. पी. एस्. अधिकारी

किरण बेदी आई. पी. एस्. (भारतीय पुलिस् सेवा) इत्यस्यां प्रथमा महिला अधिकारी आसीत् । सा भारतीय पुलिस् सेवायां प्रप्रथमं पुलिस् महानिदेशकत्वेन (ब्युरो ऑफ् पुलिस् रिसर्च् ऍण्ड् डेवलप्मेण्ट्) स्वस्याः दायित्वम् अवहत् । १९७२ तमे वर्षे आई. पी. एस्. प्रशिक्षणं प्राप्य सा तत्पदम् अलङ्कृतवती । तदनन्तरं स्वस्याः कार्याणां प्रभावेन पदोन्नतिं प्राप्य तया बहूनि पदानि अलङ्कृतानि । यथा –

  • दिल्ली यातायात पुलिस् प्रमुख
  • नार्कॉटिक्स् कन्ट्रोल् ब्युरो
  • डेप्युटी इन्स्पेक्टर् जनरल् ऑफ् पुलिस्, मिजोरम
  • इन्स्पेक्टर् जनरल् ऑफ् प्रिज़न्, तिहाड
  • स्पेशल् सेक्रेटरी टु लेफ्टीनेण्ट् गवर्नर्, दिल्ली
  • जॉइण्ट् कमिशनर् ऑफ् पुलिस् ट्रेनिङ्ग्
  • स्पेशल् कमिशनर् ऑफ् पुलिस् इण्टेलिजेन्स्
  • यू. एन्. सिविलियन् पुलिस् अड्वाइजर्
  • महानिदेशक, होम् गार्ड् तथा नागरिक रक्षा
  • महानिदेशक, पुलिस् अनुसन्धान एवं विकास ब्युरो

विशिष्टानि कार्याणि

तिहाड-कारावासिनां स्वभावे परिवर्तनम्

दिल्ली-नगरस्थे तिहाड-नामके भारतस्य बृहत्तमे कारागारे यदा किरण महानिरीक्षिका आसीत् तदा तया कारागारस्य कारावासिनां हृदयपरिवर्तनाय एकम् अभियानं चालितम् आसीत् । कारावासिभ्यः योगस्य, ध्यानस्य, संस्काराणां च शिक्षणस्य व्यवस्था तया कृता । यद्यपि इदं कार्यं बहुकठिनम् आसीत् तथापि दृढनिश्चया किरण बेदी तिहाड-कारागारम् आश्रमवत् परिवर्तितवती । अनेन प्रसङ्गेन अपि सम्पूर्णे भारते किरण बेदी इत्यस्याः ख्यातिः वर्धिता ।

क्रेन् बेदी

किरण बेदी यदा नवदेहली-नगरस्य ट्रॅफिक् कमिशनर् आसीत् तदा एकस्मिन् दिवसे तत्कालीनेन प्रधानमन्त्रिणा इन्दिरा गान्धी इत्याख्यया यातायातनियमस्य भङ्गः कृतः आसीत् । कर्तव्यपराधीना किरण बेदी इन्दिरा गान्धी इत्यस्याः वाहनं क्रेन्-यन्त्रेण नीतवती आसीत् । तत्कालादेव किरण बेदी ’क्रेन् बेदी’ इति प्रसिद्धा अभवत् । अस्य प्रसङ्गस्य प्रभावेन इन्दिरा गान्धी उक्तवती यत् – “अस्माकं भारतदेशे किरण बेदी सदृशानाम् अधिकारिणाम् आवश्यकता वर्तते” इति ।

सम्माननं पुरस्काराः च

किरण बेदी इत्याख्यायाः दृष्टिकोणः मानवीयः निर्भयश्च आसीत् । तया तेन दृष्टिकोणेन एव पुलिस् कार्यप्रणाल्यै नैकानि महत्वपूर्णानि योगदानानि दत्तानि सन्ति । निःस्वार्थकर्तव्यपरायणतायाः कारणेन सा शौर्य-पुरस्कारं प्राप्तवती । तया प्राप्ताः अन्ये विशिष्टाः पुरस्काराः –

  • रमन मैगसेसे पुरस्कारः (एशिया-खण्डस्य नोबल्-पुरस्कारः)
  • जर्मन् फाउण्डेशन् इत्यस्य जोसफ् ब्यूज् पुरस्कारः
  • एशिया रीजन् अवॉर्ड्
  • अमेरिका-देशस्य मॉरीसन्-टॉम् निटकॉक् पुरस्कारः
  • इटली-देशस्य ’विमन् ऑफ् द इयर् २००२’ पुरस्कारः
  • प्रेसिडेण्ट् गॅलेण्ट्रि अवार्ड् (१९७९)
  • महिला शिरोमणि अवार्ड् (१९९१)
  • फादर् मैचिस्मो ह्युमॅनिटेरियन् अवार्ड् (१९९५)
  • प्राईड् ऑफ् इण्डिया (१९९९)
  • मदर् तेरेसा मेमोरियल् नॅशनल् अवार्ड् (२००५)
  • २००५ तमे वर्षे सा ’डॉक्टर् ऑफ् लॉ’ इत्यनया उपाधिना अपि सम्मानिता अभवत् ।

सर्वे पुरस्काराः किरण बेदी इत्याख्यायाः वीरतायाः प्रतीकाः सन्ति । तया यत्किमपि कृतं तत् समाजसेवायै एव कृतम् अस्ति, न तु पुरस्कारेभ्यः ।

किरण इत्यस्याः जीवनाधारितं चलच्चित्रम्

किरण बेदी भारतस्य प्रथमा महिला आई. पी. एस्. अधिकारी अस्ति । इदं तस्याः जीवनस्य गौरवं वर्तते । ऑस्ट्रेलिया-देशस्य निर्मात्रा मेगन् डनमैन् इत्याख्यया किरण बेदी इत्यस्याः जीवनाधारितं ’यस् मैडम्, सर्’ नामकम् एकं चलच्चित्रं निर्मितम् अस्ति । इदं चलच्चित्रं सैण्टा बारबरा अन्ताराष्ट्रिये चलच्चित्रसमारोहे द्वाभ्यां पुरस्काराभ्यां सम्मानितम् अभवत् । तया निर्मितं चलच्चित्रं सर्वश्रेष्ठजीवनाधारितेन चलच्चित्ररूपेण सम्मानितम् अभवत् । तस्य चलच्चित्रस्य निर्माणे षड्वर्षाणि व्यतीतानि । तस्य चलच्चित्रस्य निर्माणकाले बह्व्यः आर्थिकसमस्याः अपि आगताः । किन्तु अन्ते नैजनिवेशकानां साहाय्येन इदं चलच्चित्रं सम्पूर्णम् अभवत् । मेगन् डनमैन् कथयति यत् – “इयं केवलं भारतीया कथा नास्ति किन्तु अनेन चलच्चित्रेण वर्तमानकालस्य जनव्याधीनां निवारणाय जनेषु आशाः जागरिताः भवन्ति” । अस्मिन् वृत्तिचित्रे किरण बेदी इत्यस्याः जीवनचरित्रस्य, कार्यपद्धत्याः, तिहाड-कारागारस्य कारावासिनां जीवने परिवर्तनस्य घटनायाः च वर्णनं कृतम् अस्ति । ततः परं किरण बेदी इत्यस्याः व्यक्तित्वाधारितानि, जीवनाधारितानि अनेकानि चलच्चित्राणि निर्मितानि सन्ति ।

समाजसेवा

किरण इत्याख्यायाः समाजसेवायाम् अपि अभिरुचिः वर्तते । स्वस्याः वृत्त्याः कार्यकाले किरण बेदी इत्यनया समाजसेवायै द्वयोः स्वयंसेविसङ्घटनयोः स्थापना कृता आसीत् । १९८७ तमे वर्षे तया नवज्योति, १९९४ तमे वर्षे इण्डिया विजन् फाउण्डेशन् इत्येतयोः संस्थयोः प्रारम्भः कृतः । तयोः संस्थयोः साहाय्येन जनानां व्यसनमुक्त्यर्थं, निर्बलजनानां साहाय्यार्थं च बहूनि कार्याणि कृतानि सन्ति । निर्धनानाम्, अशक्तानां, बालकानां, स्त्रीणां च उज्ज्वलभविष्यस्य निर्माणार्थं, प्राथमिकशिक्षणप्रदानाय, प्रौढशिक्षणप्रदानाय एते संस्थे कार्यं कुरुतः । ’नवज्योति-संस्था’ व्यसनमुक्तिकार्येण सह ग्रामीणक्षेत्रेषु जनेभ्यः, कारावासिस्त्रीभ्यः च व्यावसायिकं प्रशिक्षणं परामर्शं च ददाति । व्यसनमुक्त्यर्त्थं ’युनाइटेड् नेशन्स्’ इत्यनया संस्थया ’सर्ज् सॉइटीरॉफ् मेमोरियल् अवार्ड्’ इत्यनेन पुरस्कारेण इमे संस्थे सम्मानिते ।

स्वैच्छिकसेवानिवृत्तिः

किरण बेदी वृत्तिजीवने बहूनि वर्षाणि देशसेवायै कार्याणि कृतवती । अन्ये जनाः पदोन्नत्यै कार्याणि कुर्वन्ति । किन्तु किरण बेदी स्वाभिमानेन स्वस्याः कार्याणि करोति । किरण बेदी इत्यस्याः कार्यं दृष्ट्वा एकदा दिल्ली-राज्यस्य उपराज्यपालेन किरण बेदी इत्यस्याः समक्षं दिल्ली-नगरस्य पुलिस् कमिशनर् पदस्य प्रस्तावः उपस्थापितः । किन्तु गृहमन्त्रालयः तत् न ऐच्छत् । गृहमन्त्रालयः किरण बेदी इत्यस्याः स्थाने वाई. एस्. डडवाल इत्याख्याय तत्पदं दातुम् ऐच्छत् । १९७४ तमे वर्षे वाई. एस्. डडवाल इत्याख्याय पुलिस् कमिशनर् पदं दत्तम् । तेन कारणेन खिन्ना किरण बेदी स्वाभिमानेन २००७ तमस्य वर्षस्य दिसम्बर-मासस्य २६ तमे दिनाङ्के (२६/१२/२००७) स्वेच्छया सेवायाः निवृत्ता अभवत् । तस्मिन् काले सा ’भारतीय पुलिस् अनुसंधान एवं विकास ब्युरो’ इत्यस्य महानिदेशकपदे कार्यरता आसीत् ।

बाह्यसम्पर्कतन्तुः

Tags:

किरण बेदी बाल्यं परिवारश्चकिरण बेदी शिक्षणम्किरण बेदी अभिरुचिःकिरण बेदी विवाहःकिरण बेदी प्रथमा महिला आई. पी. एस्. अधिकारीकिरण बेदी विशिष्टानि कार्याणिकिरण बेदी सम्माननं पुरस्काराः चकिरण बेदी किरण इत्यस्याः जीवनाधारितं चलच्चित्रम्किरण बेदी समाजसेवाकिरण बेदी स्वैच्छिकसेवानिवृत्तिःकिरण बेदी बाह्यसम्पर्कतन्तुःकिरण बेदीआङ्ग्लभाषाकिरण बेदी.oggपञ्जाबीभाषासञ्चिका:किरण बेदी.oggहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

समासःप्रशान्तमनसं ह्येनं...द्विचक्रिकासङ्गणकम्सर्वपल्ली राधाकृष्णन्मई १५मिनेसोटास्लम्डाग् मिलियनेर्केशव बलिराम हेडगेवारसितम्बरवृत्तरत्नाकरम्कुवलाश्वःसंयुक्ताधिराज्यम्नेपालीसाहित्यस्य कालविभाजनम्माण्डूक्योपनिषत्८२५जेम्स ७ (स्काटलैंड)१४ नवम्बरकिष्किन्धाकाण्डम्पाणिनीया शिक्षाएवं प्रवर्तितं चक्रं...श्रागद्वेषवियुक्तैस्तु...लाट्वियासिद्धराज जयसिंहपुर्तगालजे साई दीपकस्कौट् तथा गैड् संस्थाजिबूटीविकिःवलसाडमण्डलम्जून ९सायप्रसब्रह्माअद्वैतवेदान्तःआयुर्विज्ञानम्१६८०द्भगवद्गीता१६०१६०२रजतम्बाणभट्टःसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्१९०७नेप्चून्-ग्रहःमनःपुरुषोत्तमयोगःरसगङ्गाधरःक्लव्डी ईदर्लीअभिषेकनाटकम्५७७वेदःमोनाकोयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)विक्रमोर्वशीयम्गद्यकाव्यम्धनम्संभेपूस्वसाट्यूपप्रजातन्त्रम्मत्त (तालः)२७ अक्तूबरविश्वनाथः (आलङ्कारिकः)११३७चीनीभाषामेलबॉर्ननारिकेलम्जिनीवाजार्ज ३१८२८🡆 More