आत्म

}

आत्मनिरूपणम् ज्ञानाधिकरणमात्मा।स द्विविधः।जीवात्मा,परमात्मा चेति।तत्रेश्वरस्सर्वज्ञः परमात्मा एक एव। जीवस्तु,प्रतिशरीरं भिन्नो विभुर्नित्यश्च। आत्मनो लक्षणम्----ज्ञानस्य अधिकरणं ज्ञानाधिकरणम्।ज्ञानस्येत्यत्र षष्ठ्याः आधेयत्वमर्थः।अधिकरणस्य अधिकरणताश्रयत्वमर्थः।तथाच,ज्ञाननिष्ठ आधेयतानिरूपित अधिकरणताश्रयत्वं आत्मनो लक्षणम्। आत्मनि समन्वयः----ज्ञाननिष्ठा या आधेयता इत्युक्ते आत्मनि ज्ञानमस्तीत्याकारक प्रतीतिसिद्धा ज्ञाने विद्यमाना आधेयता। तन्निरूपिता या अधिकरणता इत्युक्ते आत्मनिष्ठा अधिकरणता। तदाश्रयत्वस्य आत्मनि सत्वात्समन्वयः। नन्विदानीं काले अतिव्याप्तिः।अतस्तद्वारणार्थं ज्ञाननिष्ठ आधेयतायां समवायसम्बन्धावच्छिन्नत्वरूप विशेषणं देयम्। एवं गुणत्वावच्छिन्न आधेयतामादाय पृथिव्यादौ अतिव्याप्तिवारणार्थं ज्ञानत्वावच्छिन्नत्वरूपविशेषणं देयम्। एवं च,समवायसम्बन्धावच्छिन्न, ज्ञानत्वावच्छिन्न आधेयतानिरूपित अधिकरणताश्रयत्वम् आत्मनो लक्षणमिति निष्कर्षः। विभागस्य शाब्दबोधो यथा-----जीवात्मत्व,परमात्मत्वरूप धर्माभिन्न विभाजकधर्मद्वयान्यतरवान् आत्मा इति बोधः।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

५३०द्युतिशक्तिःशब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्)भारतीयदार्शनिकाःचाणक्यःसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्भास्कराचार्यःद्वारकाद्वीपः५८७तैत्तिरीयोपनिषत्वेदान्तदेशिकःवि के गोकाकसामवेदः१९०५कुतस्त्वा कश्मलमिदं...जैनधर्मःकाव्यम्अद्वैतवेदान्तःमन्त्रःभूमिरापोऽनलो वायुः...११८३यस्त्विन्द्रियाणि मनसा...पुत्रः१०२७पुनर्गमनवादइलेनॉइस्प्राचीनरसतन्त्रम्किष्किन्धाकाण्डम्हिन्दीडे माय्नेसिन्धुसंस्कृतिःकवकम्पञ्चाङ्गम्तर्कसङ्ग्रहः१७५८रसःअनन्यचेताः सततं...जिबूटी१६४४शुक्लरास्यासर्वपल्ली राधाकृष्णन्विशाखा१९०१न कर्मणामनारम्भात्...केशःअक्षरं ब्रह्म परमं...आत्मवायुमण्डलम्दशरथःअथर्ववेदःमालविकाग्निमित्रम्कर्मण्येवाधिकारस्ते...ओषधयःआङ्ग्लभाषाबालीचन्द्रलेखापारस्करगृह्यसूत्रम्२०११कलिङ्गद्वीपःचीनीभाषाजार्ज २संस्कृतम्लाओसकुवलाश्वःकदलीफलम्🡆 More