नारिकेलजलम्

नारिकेलस्य जलं नारिकेलजलम् । इदं नारिकेलजलं किञ्चित् सुप्रसिद्धं पेयम् अस्ति । प्रायः जगति सर्वत्र अस्य उपयोगः अस्ति एव । भारते तु इदं नारिकेलजलम् अत्यधिकप्रमाणेन पीयते । इदं नारिकेलजलम् आङ्ग्लभाषायां Tender Coconut इति उच्यते । एतत् नारिकेलजलम् आरोग्यार्थम् अपि बहु उत्तमम् । नारिकेलजलम् अपि सस्यजन्यः आहारपदार्थः । वस्तुतः इदं नारिकेलजलं दक्षिणपूर्व-एष्यायां, केरिबियन्देशे, पेसिफिक् ऐस्लाण्ड् इत्यादिषु सर्वदा उपलभ्यते ।

नारिकेलजलम्
भारते मार्गपार्श्वे नारिकेलजलस्य विक्रयणम्
नारिकेलजलम्
वृक्षे दृश्यमानानि विभिन्नस्तरस्य नारिकेलानि
नारिकेलजलम्
पानार्थं सिद्धं नारिकेलम्
नारिकेलजलम्
पानार्थं सिद्धं नारिकेलम्


इदं नारिकेलजलं शारीरस्य औष्ण्यं न्यूनीकरोति । मूत्राशये पाषाणाः सन्ति चेत् अत्यधिकं नारिकेलजलं पातुं वदन्ति वैद्याः । नारिकेलकलस्य विक्रयणम् इदानीं महा-उद्यमरूपेण प्रवृद्धम् अस्ति । मार्गस्य पार्श्वे अपि राशीकृत्य विक्रयणं प्रचलति । केषाञ्चन कुटुम्बानां जीवनाधारः उद्योगः एव नारिकेलजलस्य विक्रयणम् । नारिकेलं यावत् पूर्णतया पक्वं न भवति तदा एव वृक्षतः उत्पाट्यते । तदा एव तत् पातुं योग्यं भवति । पक्वस्य नारिकेलस्य अपेक्षया अपि नारिकेलजलस्य मूल्यम् अधिकम् अस्ति । सिद्धपेयानां स्थाने अस्य नारिकेलजलस्य पानं बहु उत्तमम् ।


एतत् नारिकेलजलं कूपीषु पूरयित्वा अपि विक्रयणं क्रियते । तादृशं कूपीषु पूरितं नारिकेलजलं वर्षं यावत् सम्यक् भवति । तथैव मार्गपार्श्वे यस्य विक्रयणं क्रियते तत्तु मासं यावत् प्रायः सम्यक् तिष्ठति । वृक्षतः उत्पाटनानुक्षणं पीतं चेत् नारिकेलजलं प्रत्यग्रं भवति । तदनन्तरं क्रमशः तस्य प्रत्यग्रता नश्यति । अधिकानि दिनानि अतीतानि चेत् प्रत्यग्रता अधिकप्रमाणेन नष्टा जाता भवति । अतः वृक्षात् उत्पाटनानन्तरं यावत् शक्यं तावत् शीघ्रम् एव नारिकेलजलं पातव्यम् । यदा नारिकेलं हरितवर्णीयम् एव भवति तदा एव तस्य जलं पातव्यम् ।


नारिकेलस्य उपरितने भागे रन्ध्रं कृत्वा तद्द्वारा जलं पीयते । कदाचित् नारिकेलस्य त्वक्-निष्कासनं कृत्वा तदनन्तरं रन्ध्रं कृत्वा अपि पीयते । सामान्यतया त्वक्-निष्कासनं न क्रियते । तथैव नारिकेलस्य उपरितनभागस्य त्वक् किञ्चित् प्रमाणेन निष्कास्य रन्ध्रं कुर्वन्ति ।

अधिकानि चित्राणि

Tags:

आहारःनारिकेलम्भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

कठोपनिषत्प्लावनम्वेदःस्वप्नवासवदत्तम्चार्ल्सटन्पक्षिणःभारतीयदार्शनिकाःअद्वैतवेदान्तःइग्नेसी ल्युकसिविक्जऋतवः८३३शनिःपुनर्जन्मकलियुगम्विकिस्रोतःपुनर्गमनवादनादिर-शाहःचिक्रोडःशिक्षास्बहामासमनुस्मृतिःपञ्चाङ्गम्अविद्या (योगदर्शनम्)रजतम्१०१३राजा राममोहन रायवृत्तरत्नाकरम्रजनीशःआत्मभारतीयदर्शनशास्त्रम्स्पेन्प्राथमिकनेपालीभाषायाः कथाक्षमा रावयमनधनम्लोकेऽस्मिन् द्विविधा निष्ठा...२३८गेन्जी इत्यस्य कथाकेन्याविलियम शेक्सपीयर3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्मिनेसोटा८९८रामःअथर्ववेदः१३८७सार्वभौमसावित्रीबाई फुलेस्लम्डाग् मिलियनेर्कर्मसंन्यासयोगःआस्ट्रेलिया१६०२मार्च १४भारविःशुनकःमनः५ फरवरीभूमिरापोऽनलो वायुः...अन्तर्जालम्इन्दिरा गान्धीकिष्किन्धाकाण्डम्अक्षि१६५४१०९०त्वमेव माता च पिता त्वमेव इतिरामायणम्🡆 More