कर्शयन्तः शरीरस्थं...

श्लोकः

कर्शयन्तः शरीरस्थं... 
गीतोपदेशः
    कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।
    मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ ६ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य षष्ठः(६) श्लोकः ।

पदच्छेदः

कर्शयन्तः शरीरस्थं भूतग्रामम् अचेतसः मां च एव अन्तः शरीरस्थं तान् विद्धि आसुरनिश्चयान् ॥

अन्वयः

दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः अचेतसः शरीरस्थं भूतग्रामम् अन्तःशरीरस्थं मां च एव कर्शयन्तः ये जनाः अशास्त्रविहितं घोरं तपः तप्यन्ते तान् आसुरनिश्चयान् विद्धि ।

शब्दार्थः

    दम्भाहङ्कारसंयुक्ताः = दम्भाभिमानसहिताः
    कामरागबलान्विताः = इच्छानुरागाग्रहयुक्ताः
    अशास्त्रविहितम् = अशास्त्रप्रतिपादितम्
    तप्यन्ते = कुर्वन्ति
    अचेतसः = अविवेकिनः
    शरीरस्थम् = देहस्थितम्
    भूतग्रामम् = इन्द्रियसमुदायम्
    अन्तःशरीरस्थम् = साक्षिभूतम्
    कर्शयन्तः = कृशीकुर्वन्तः
    आसुरनिश्चयान् = क्रूरनिर्णयान् ।

अर्थः

येषु पुनः धार्मिकतया आत्मनः ख्यापनम्, अहङ्कारः, विषयाभिलाषः, विषयाभिनिवेशः, आग्रहः इत्यादयः गुणाः सन्ति ते अविवेकिनः स्वशरीरे वर्तमानं पृथिव्यादिभूतसमूहं मां च कृशीकुर्वन्तः अशास्त्रीयं घोरं तपः कुर्वन्ति । तादृशाः उग्रकर्माणः इति ज्ञातव्यम् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

कर्शयन्तः शरीरस्थं... श्लोकःकर्शयन्तः शरीरस्थं... पदच्छेदःकर्शयन्तः शरीरस्थं... अन्वयःकर्शयन्तः शरीरस्थं... शब्दार्थःकर्शयन्तः शरीरस्थं... अर्थःकर्शयन्तः शरीरस्थं... सम्बद्धसम्पर्कतन्तुःकर्शयन्तः शरीरस्थं... सम्बद्धाः लेखाःकर्शयन्तः शरीरस्थं...

🔥 Trending searches on Wiki संस्कृतम्:

लृ२७४८४प्रियदर्शिकाघानारामनाथ कोविंद१६७१७८३मदनमोहन मालवीयमुख्यपृष्ठम्२८ दिसम्बररामनाथपुरमण्डलम्न्यायदर्शनम्विद्याभूषणः (सङ्गीतकारः)मोल्दोवाप्रतिभा पाटिलप्रतिमानाटकम्चन्दनम्स्त्रीकदलीफलम्हाथरसबर्लिनपाकिस्थाने हिन्दूधर्मः४५२बि.आर्.अम्बेड्करः७४६घटोत्कचःवार्त्तापत्रम्८७६किङ्ग्स् ११ पञ्जाबःकर्मणैव हि संसिद्धिम्...४२१भारतस्य इतिहासःत्वमेव माता च पिता त्वमेव इतिमहाभाष्यम्यजुर्वेदः९६४१५०७संयोगिताPratibha Patilअलङ्कारशास्त्रस्य इतिहासःवेदःसंयुक्तराष्ट्रसङ्घःश्वेताश्वतरोपनिषत्कालिदासःवेणीसंहारम्छन्दः१६१०७०९मनुस्मृतिःबालाकोट् वैमानिकक्षिप्राक्रमणम्भगत सिंहमीनाक्षी१७२४हितोपदेशः८१९महात्मा गान्धीISO 15924अर्जुनःSamskrita Bharatiमोक्षःवाल्मीकिःन हि ज्ञानेन सदृशं...सान्तालीभाषा६८९ज्ञानी जैल सिंह🡆 More