पण्डितः भीमसेनजोशी हिन्दुस्तानीसङ्गीतपरम्परायाः विश्वप्रसिद्धगायकेषु अन्यतमः । भारतरत्नप्रशस्तिभूषितेषु सर्वप्रथमः हिन्दुस्तानीगायकः । एषः भारतदेशस्य कर्णाटकराज्यस्य गदगमण्डलस्य केन्द्रपत्तने अजायत । एतस्य जनकः पाठशालाया: अध्यापक: आसीत् । सवायी गन्धर्वमहोदयः एतस्य गुरुः।
भीमसेनजोशी | |
---|---|
व्यैक्तिकतथ्यानि | |
मूलतः | भारतीयः |
सङ्गीतविद्या | हिन्दुस्तानीशास्त्रीयसङ्गीतम् |
वृत्तिः | गायकः |
सक्रियवर्षाणि | क्रि.श १९४१तः २०११ । |
भीमसेनस्य जन्म गदगमण्डलस्य रोणजनपदे क्रि.श. १९२२ तमवर्षस्य फेब्रवरिमासे चतुर्थे दिने रथसप्तम्याः पावने दिने अभवत् । अस्य पूर्वजाः मूलतः गदगमण्डलस्य होम्बळग्रामीणाः । अस्य पिता गुरुराजजोशी संस्कृतभाषायाः पण्डितः गदगस्य मुन्सिपल् शालायाः अध्यापकः आसीत् । क्रमेण बागलकोटेनगरस्य बसवेश्वरप्रौढशालायाः मुख्योपाध्ययः अपि अभवत् । गुरुराजस्य प्रथमजायया रमाबायीवर्यया सप्तापत्यानि द्वितीयया नवापत्यानि चाभवन् । पुत्रेषु ज्येष्ठः एव भीमसेनः । अन्यापत्यानि वनमाला, नारायणः, वेङ्कण्णः, हेमक्का, मद्दु, माधु, दामोदरः, परिमळा, विशालः, प्रकाशः, जयतीर्थः,सुशीलेन्द्रः, प्राणेशः, वादिराजः , ज्योती, सुशीलेन्द्रः, इत्यादयः । बहवः पुत्राः मराठीकन्नडयोः नाटकरङ्गभूमौ कार्यं कुर्वन्ति ।
बाल्ये भीमसेनस्य दिचक्रिकासञ्चारः प्रियतमं व्यसनम् असीत् । वस्तूनि आनेतुं कुटुम्बस्य ज्येष्ठाः वदन्ति चेत् तेन व्याजेन बहुकालं द्विचक्रिकया पत्तनम् अटति स्म । सङ्गीतविषये अतीव उन्मत्तः एकादशे वयसि गृहं त्यक्त्वा मुम्बैनगरम् अगच्छत् । किन्तु हस्ते धनं नासीत् । अतः परिश्रमकार्यं कृत्वा वीथ्यां शयानः दिनानि यापयत् । बुभुक्षितः पिपासितः अन्यमार्गम् अपश्यन् स्वग्रामम् आगच्छत् । सङ्गीताध्यनस्य अतीवासक्त्या द्वितीयवारं कुटुम्बं त्यक्त्वा ग्वालियर् नगरम् आगच्छत् । पश्चात् गायकस्य विनायकराव पटवर्धनस्य निर्देशानुसारं धारवडम् आगत्य सवायी गन्धर्वस्य आश्रये सङ्गीताभ्यासम् आरब्धवान् । क्रमेण हिन्दुस्तानसङ्गीतस्य परम्परायाः किराणाघराणायां परिणतः भीमसेनः पञ्चदशकवर्षाणि यावत् देशविदेशेषु सङ्गीतगोष्ठयः सञ्चालितवान् ।
पं.भीमसेनस्य पितृव्यः गोविन्दाचार्यः 'जडभरतः' इति काव्यनाम्ना कन्नडभाषासाहित्ये विश्रुतः रूपककारः, लेखकः च । कर्णाटकस्य प्रसिद्धा प्रकाशनसंस्था मनोहरग्रन्थमाल अस्य एव परिश्रमस्य फलम् । अस्य पितामहः ख्यातः हरिकथादासः । कालक्रमेण दासवणीशास्त्रीयवलयेषु अप्रतिमं यशः प्राप्य सङ्गीतमपि अपोषयत् । क्रि.श.१९४४ तमे वर्षे भीमसेनस्य विवाहः सुनन्दया सह अभवत् । दाम्पत्यफलरूपेण क्रमेण रघवेन्द्रः, उषा, सुमङ्गला, आनन्दः चेतिचत्वारि अपत्यानि अजायन्त । सुनन्दायाः अकालमृत्युना वत्सला द्वितीया अभवत् । तस्याः जयन्तः, शुबदा, श्रीनिवासः इति त्रीणि अपत्यानि प्राप्तवान् । पितुः परमशिष्यः श्रीनिवासः प्रबुद्धः हिन्दुस्तानीगायकः अस्ति ।
गदगस्य कठोररोटिकया सह झुणक भक्षणम् अस्य अतीवप्रियः आहारः । स्वस्य ग्रामस्य जनानां सन्तोषाय अनेकान् सङ्गीतकार्यक्रमान् आयोजितवान् । क्रि.शा. १९८२ तमे वर्षे वेङ्केटेशचलच्चित्रमन्दिरे, हत्तिकाळ कूटावसरे, क्रि.श. १९८५ समये कार्पासविपणिषु, क्रि.श. १९९२तमे वर्षे अभिनयरङ्ग विद्यादानसमितिप्रौढशालावरणे, कर्णाटकचित्रमन्दिरे च अनेकाः सङ्गीतगोष्ठीः च प्रदर्शितवान् । अनेन सङ्गृहितधनेन पठशालानां प्रकोष्ठनिर्माणे मन्दिराणां पुनरुत्थानार्थं च विरीर्णवान् ।
कोलकतानगरं प्रतिवर्षं २०वारम् गच्छति स्म । हिन्दुस्तानीगायकानां कोलकतानगरे सङ्गीतगोष्ठिसञ्चालनं गौरवस्थानम् । भिमसेनः ततः सर्वदा आमन्त्रणं प्राप्नोति स्म । एतत् अस्य लोकप्रियतायाः निदर्शनम् । कोलकतानगरस्य अस्य केचनप्रसिद्धकार्यक्रमाः एवं सन्ति ।
हिन्दुस्तानीसङ्गीतस्य खयाल् कृतीनां गाने जोशी सिद्धहस्तः । कन्नडभाषायाः दाससाहित्यस्य गानेऽपि कुशलः आसीत् । तत्र किञ्चित् "भाग्यद लक्ष्मी बारम्म्" इति गानं तु अतीवलोकप्रियम् अस्ति । अस्य स्वरयुक्तानि अनेकानि गीतगुच्छनि बहुभिः भाषाभिः लोकार्पितानि ।भक्तिगीतानि, भजनानि, मराठीगीतानि, अभङ्गानि, नाट्यगीतानि च अनेन गीतानि ध्वनिमुद्रितानि इदानीमपि अधिकाभ्यर्थितानि सन्ति । भीमसेनः स्वभावतः मौनी । प्रश्नस्य उत्तरं सर्वदापि निरीक्षितुं नैव शक्यते स्म । तस्य वाचालत्वं जनाः भीमपलास्य़ां बृन्दवनसारङे वा रागेषु पश्यन्ति स्म । एषः सर्वदा सङ्गीतस्य मनोदशायाम् एव भवति स्म । सङ्गीतासक्तिः गुरुभक्तिः सर्वदा अस्य मन्त्रः । एतदतिरिच्य भीमसेनः किमपि न चिन्तयति स्म ।
नादपुत्रजनम् पित्रा लिखितः पुत्रकथाग्रन्थः। भीमसेनस्य पिता गुरुराजः पुत्रस्य जीवनस्य गाल्यं शिक्षा साधनं च अधिकृत्य ग्रन्थमेकम् अरचयत् । भीमस्य सङ्गीते उन्मत्तता, कलोपासनायां स्वस्य अवरुद्धिः, निर्धारस्य परिवर्तनम्, पुत्रस्य महागायकत्वसिद्धिः इत्यादयः विचाराः अत्र निरूपिताः ।
भीमसेनस्य अधिकृतः वैयक्तिकजीवनस्य निवासः पुण्यपत्तने (पुणे) एव आसीत् । क्रि.श. [[१९५२[[ तः प्रतिवर्षे स्वस्य गुरोः सवायिगन्धर्वस्य स्मरणे सङ्गीतमहोत्सवम् आचरति स्म । हुब्बळ्ळि नगरस्य हानगल् सङ्गीतसंस्था क्रि.श. २००७ तमे वर्षे सङ्गीतकलानिधिः इति प्रशस्तिं गङ्गूबायी हानगल् इत्यस्याः सङ्गीतविदुष्याः हस्तात् अदापयत् । कार् यानस्य चालने अस्य अतीव रुचिः आसीत् ।
पण्डितस्य भीमसेनस्य शिष्येषु माधवगुडी, श्रीकान्त देशपाण्डे, विनायक तोरवी, उपेन्द्र भट्टः, श्रीनिवासजोशी, सञ्जीव जहगीरदारः, राजेन्द्र कन्दल्गाव्कर्, आनन्द भाटे, विनायक पि.प्रभु, रामकृष्ण पटवर्धनम् श्रीपति पाडिगार, पलायार वराज़्, रशीद् खान्, आशुतोष मुखर्जि इत्यादयः प्रमुखाः ।
क्रि.श. २०११ तमवर्षस्य जनवरिमासस्य २४तमे दिनाङ्के पुण्यपत्तनस्य चिकित्सालये स्वस्य ८९तमे वर्षे दिवङ्गतः।
This article uses material from the Wikipedia संस्कृतम् article भीमसेन जोशी, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.