श्रवणा

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते श्रवणानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् श्रवणानक्षत्रं भवति द्वाविंशतितमं नक्षत्रम् । आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

श्रवणा
श्रवणानक्षत्रम्

आकृतिः

श्रवणं मत्स्याकारत्रयम् - मीनस्याकृतौ विद्यमानानि त्रीणि नक्षत्राणि ।

सम्बद्धानि अक्षराणि

जू जे जो ख - श्रवणानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्

    शृण्वन्ति श्रोणाममृतस्य गोपां पुण्यामस्या उपशृणोमि वाचम् ।
    महीं देवीं विष्णुपत्नीमजूर्याम् । प्रतीचीमेनां हविषा यजामः ।
    त्रेधा विष्णुरुरुगायो विचक्रमे दिवं पृथिवीमन्तरिक्षम् ।
    तच्छ्रोणेति श्रव इच्छमाना पुण्यं श्लोकं यजमानाय कृण्वती ॥

वैदिककाले श्रवणनक्षत्रं श्रोणानक्षत्रम् इत्यपि निर्दिश्यते स्म । श्रोणानक्षत्रं विष्णुर्देवता इति उल्लिखितम् अस्ति । तन्नाम श्रवणानक्षत्रस्य देवता विष्णुः । अथर्ववेदे श्रवणनक्षत्रं पुष्टिदायकं नक्षत्रमिति उल्लिखितम् । तैत्तिरीयब्राह्मणस्य अनुसारम् इदं नक्षत्रम् अमृतस्य संरक्षणकारि विष्णोः भोग्यम् अस्ति । अस्मिन् नक्षत्रे पुण्यवचनानि श्रोतव्यानि । इदं सन्तापहारकम् अस्ति । वयम् अस्य यजनं कुर्मः । विष्णुः श्रवणनक्षत्रे स्थितः अस्ति । इदं नक्षत्रं यजमानं पुण्यात्मानं कुर्वत् तेन अभीष्टं सर्वं प्रददाति ।

आश्रिताः पदार्थाः

    श्रवणे मायापटवो नित्योद्युक्ताश्च कर्मसु समर्थाः ।
    उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ॥

मायापटवो मायाविनः प्रपञ्चकुशलाः । नित्योद्युक्ताः सर्वकालं सोद्यमाः कर्मसु व्यापारेषु समर्थाः सक्ताः । उत्साहिनः सोत्साहाः । सधर्मा धर्मसंयुक्ताः । भागवता भगवद्भक्ताः । सत्यवचनाः सत्यभाषिणः । एते सर्व एव श्रवणे ॥

स्वरूपम्

    शान्तिकपौष्टिकमङ्गलविचित्रकृषिशिल्पसम्बराद्यं च ।
    धामविधानसस्थापनमुपनयनं विष्णुभे कार्यम् ॥

श्रवणानक्षत्रे शान्ति-पौष्टिक-माङ्गलिककार्याणि, कृषि-शिल्प-वस्त्रादिकार्याणि, गृहनिर्माणम्, उपनयनम् इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

चरसंज्ञकनक्षत्राणि

श्रवणत्रयमादित्यानिले च चरकर्मणि हितानि ॥ श्रवणत्रयं श्रवणं धनिष्ठा शतभिषगिति । आदित्यं पुनर्वसुः । आनिलं स्वातिः । ते आदियानिले च । एतानि पञ्च नक्षत्राणि । तानि च चरकर्मण्यस्थिरे कर्मणि हितानि प्रशस्तानि ।

पश्य

Tags:

श्रवणा आकृतिःश्रवणा सम्बद्धानि अक्षराणिश्रवणा अधिदैवम्, वैदिकविवेचनम्श्रवणा आश्रिताः पदार्थाःश्रवणा स्वरूपम्श्रवणा चरसंज्ञकनक्षत्राणिश्रवणा पश्यश्रवणारविः

🔥 Trending searches on Wiki संस्कृतम्:

वेदान्तः४२०अलङ्काराःहिन्दूधर्मःपुनर्गमनवादविनायक दामोदर सावरकर१३९३भर्तृहरिःमङ्गलःसुबन्धुःसाङ्ख्यदर्शनम्यास्कःरसगङ्गाधरःसांख्ययोगःजेक् रिपब्लिक्संस्कृतभारतीन हि कश्चित्क्षणमपि...काव्यालङ्कारयोः क्रमिकविकासःनवरात्रम्उपनिषद्भट्टोजिदीक्षितः३६गाम्बियात्रैगुण्यविषया वेदा...जून ९मध्यमव्यायोगःरोनाल्द रेगनभ्भासनाटकचक्रम्टोपेकामुख्यपृष्ठम्पारस्करगृह्यसूत्रम्वि के गोकाक१०१३वेदाङ्गम्सर्वपल्ली राधाकृष्णन्२१ दिसम्बरअन्ताराष्ट्रियः व्यापारःपिङ्गः१०९०सरदार वल्लभभाई पटेलहोशियारपुरम्कालिदासस्य उपमाप्रसक्तिःयस्त्विन्द्रियाणि मनसा...भारतस्य इतिहासःमहात्मा गान्धीशृङ्गाररसःझान्सीपाणिनिःकाव्यवृत्तयःचम्पूरामायणम्डे माय्नेजिनीवाकवकम्अस्माकं तु विशिष्टा ये...१६०२शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्)१८८०धनम्वृत्तरत्नाकरम्ताजमहल११८३मेलबॉर्नसामवेदःभारतसर्वकारःराधा🡆 More