नरसिंहनखस्तुतिः

तत्त्ववादप्रवर्तक इति प्रसिद्धिं गतेन मध्वाचार्येण (क्रिस्तशक.

१२३८-१३१७) विरचितमिति ख्यातमिदं नरसिंहदेवपरं श्लोकद्वयात्मकं स्तोत्रं विशिष्टकाव्यकौशलमपि प्रकाशयति |

श्रीनरसिंहदेवः

स्तोत्रम्

पान्त्वस्मान् पुरुहूत-वैरि-बलवन्मातङ्ग-माद्यद्-घटा-

कुम्भोच्चाद्रि-विपाटनाधिक-पटु-प्रत्येक-वज्रायिताः |

श्रीमत्-कण्ठीरवास्य-प्रतत-सु-नखरा दारिताराति-दूर-

प्रध्वस्त-ध्वान्त-शान्त-प्रवितत-मनसा भाविता भूरि-भागैः ||१||

लक्ष्मी-कान्त समन्ततोऽपि कलयन् नैवेशितुस्ते समं

पश्याम्युत्तम-वस्तु दूर-तरतोऽपास्तं रसो योऽष्टमः |

यद्रोषोत्कर-दक्ष-नेत्र-कुटिल-प्रान्तोत्थिताग्नि-स्फुरत्-

खद्योतोपम-विस्फुलिङ्ग-भसिता ब्रह्मेश-शक्रोत्कराः ||२||

पदच्छेदः

पान्तु अस्मान् पुरुहूत-वैरि-बलवन्मातङ्ग-माद्यद्-घटा-कुम्भोच्चाद्रि-विपाटनाधिक-पटु-प्रत्येक-वज्रायिताः श्रीमत्-कण्ठीरवास्य-प्रतत-सु-नखराः दारिताराति-दूर-प्रध्वस्त-ध्वान्त-शान्त-प्रवितत-मनसा भाविताः भूरिभागैः || १ ||

लक्ष्मी-कान्त समन्ततः अपि कलयन् न एव ईशितुः ते समं पश्यामि उत्तम-वस्तु दूर-तरतः अपास्तं रसः यः अष्टमः | यद्-रोषोत्कर-दक्ष-नेत्र-कुटिल-प्रान्तोत्थिताग्नि-स्फुरत्-खद्योतोपम-विस्फुलिङ्ग-भसिताः ब्रह्मेश-शक्रोत्कराः ||२||

अन्वयः

पुरुहूत-वैरि-बलवन्मातङ्ग-माद्यद्-घटा-कुम्भोच्चाद्रि-विपाटनाधिक-पटु-प्रत्येक-वज्रायिताः, श्रीमत्-कण्ठीरवास्य-प्रतत-सु-नखराः, दारिताराति-दूर-प्रध्वस्त-ध्वान्त-शान्त-प्रवितत-मनसा भूरिभागैः भाविताः, अस्मान् पान्तु || १ ||

(हे) लक्ष्मी-कान्त, समन्ततः अपि कलयन् न एव ईशितुः ते समं पश्यामि | उत्तम-वस्तु दूर-तरतः (एव) | (यथा) अपास्तं रसः यः अष्टमः | यद्-रोषोत्कर-दक्ष-नेत्र-कुटिल-प्रान्तोत्थिताग्नि-स्फुरत्-खद्योतोपम-विस्फुलिङ्ग-भसिताः ब्रह्मेश-शक्रोत्कराः ||२||

अर्थः

नरसिंहदेवस्य प्रत्येकं नखः उन्मत्तगजकुम्भस्थलसदृशान् असुरान् मारयितुम् अत्यन्तसमर्थः वर्तते | शत्रुनाशकाः अज्ञानान्धकारनाशकाः देवैः सर्वदा वन्दिताः नरसिंहनखाः अस्मान् पातु || १ ||

हे लक्ष्मीपते, सर्वशास्त्राणि सम्यक् परिशील्य अपि तवादृशं देवदेवं न पश्यामि | त्वयापि अधिकं उत्तमवस्तु विश्वे नास्ति एव | यथा लोके सप्तरसाः प्रसिद्धाः अष्टमरसः तु न विद्यते एव | केवलं तव रोषयुक्तनेत्रात् उत्पन्नात् अग्निकारणात् ब्रह्ममहेश्वरेन्द्रादयः देवाः भस्मीभूताः भवन्ति | यथा अग्निज्वालायां पतन्तः खद्योतकीटाः भस्मीभवन्ति || २ ||

बाह्यानुबन्धाः

श्रीनरसिंहनखास्तुतिः ध्वनिमुद्रणम्

Tags:

नरसिंहनखस्तुतिः स्तोत्रम्नरसिंहनखस्तुतिः पदच्छेदःनरसिंहनखस्तुतिः अन्वयःनरसिंहनखस्तुतिः अर्थःनरसिंहनखस्तुतिः बाह्यानुबन्धाःनरसिंहनखस्तुतिःमध्वाचार्यः

🔥 Trending searches on Wiki संस्कृतम्:

कालिका पुराणवाविद्याओषधयःसीताफलम्सितम्बरभट्टोजिदीक्षितःभारतीयप्रौद्यौगिकसंस्थानम्फिनिक्स्, ऍरिझोनासाङ्ख्यदर्शनम्रागद्वेषवियुक्तैस्तु...मृच्छकटिकम्कर्मसंन्यासयोगः२२ दिसम्बरभारतीयदार्शनिकाःक्रिकेट्-शब्दावलीचिक्रोडः४१५१६४४किष्किन्धाकाण्डम्नीलःअष्टाङ्गयोगःकाव्यालङ्कारयोः क्रमिकविकासःपृथ्वीजार्ज ३घ्हिन्दी१०२१बालीविशिष्टाद्वैतवेदान्तः१३ मार्चनार्थ डेकोटाअश्वघोषःएस् एल् किर्लोस्करजून ९कृष्णःसंयुक्तराज्यानितैत्तिरीयोपनिषत्२७ अक्तूबर१२ फरवरी३ अक्तूबरहिन्द-यूरोपीयभाषाः२०१२विशाखाद्विचक्रिका१००६पेस्काराजी२०चीनदेशःमार्च १४विज्ञानम्स्वामी विवेकानन्दः२३८केशःएवं प्रवर्तितं चक्रं...ईशावास्योपनिषत्दीपावलिःकठोपनिषत्धारणा१०१३चार्वाकदर्शनम्भाषासञ्जयः🡆 More