डा सम्पूर्णानन्दः

इयम् वाराणसी नगरि त्रयस्त्रिशत्काेटिदेवानाम आवासभुमिः ,भगवत्या भागिरथ्याः सीकराम्भाेभिः पवित्रा, विश्वविद्यालयत्रयाणां जननी, महात्मनो गौतमबुद्धस्याश्रयप्रदात्री च शम्भाेस्त्रिशूलाग्रवर्तिनीचिराद् विराजते । एतादृशीनगर्याम् कायस्थपरिवाऱो पराेपकारपरायणास्य धर्मिकभावनापरिपुष्टसम्स्कारस्य श्रीमताे विजयानन्दमहाेदयस्य सद्मनि १८९० ईशवीयाब्दे जनवरीमासस्य प्रथमतारिकायाम् श्रीसम्पूर्णानन्दस्य जन्म अभवत्। पुत्रे पितुः सर्वतेमुखि प्रतिभा भवति, इत्युक्तेरनुसारम् न केवलमेतेन पितुःरुत्तराधिकार एवाधिगतः अपितु तस्य सर्वे शीलविनयादिगुणा अपि आत्मसात्कृतः।

सम्पूर्णानन्दः काश्यामेव प्रारम्भकीः सर्वविद्या अधिगतवान् । तदनन्तरम् विज्ञानस्याेच्चशिक्षाम् प्राप्तुकामः अयम् प्रायागनगरे स्वकीय अध्ययनम् प्रारब्धवान्। तत्र स्थिताेयम् बी एस सि परीक्षामुत्तीर्य स्नातकोत्तराम् एल टी इति दीक्षामपि अग्रहीत् । छात्राजीवनम् सपरिश्रमम् व्यतीत्य लभ्धोपाधिः इन्दाेरनगरीय विद्यालये विज्ञान अध्यापक पदेयम् नियुक्तः। स्वकीय अध्यापनकोशलेन छात्राणाम् मनेविनाेदपुरः सरम् तेषाम् ज्ञान विज्ञान सर्वकालम् प्रयततेस्म । तदनु वृन्दावने पश्चात् पुनः काशिम् परावृत्य काशिविद्यापीठे अध्यापनमकराेत् । आसीत् तदानीं भरतीय स्वतन्त्रता आन्दोलनस्य महान् उग्र रूपः।

तदा गान्धिमहाेदयः एतस्य राजनीतिविषयिणाम् अभिरुचिम् विज्ञाय तमाहूतवान् । अयमपि स्वकीयाम् आजीविकाम् सहसा विहाय महात्मनः पथानुवर्ती जातः । अन्ये तात्कालिक नेतृभिः सह कार्येन वाचा मनसा निरन्तरम् प्रयतमानेन अनेन गान्धिने बहुसाहाय्यं प्रदत्तम् । राजनीतिकार्येषु संलग्नाेपि अयम् यथावसरम् स्वाध्यायपरायणः अभवत्। अस्य लिखिता निबन्धाः विद्यालयानाम् महाविद्यालयानाम् च पाठ्यक्रमेषु निर्धारिताः सन्ति । एतस्य हिन्दीभाषा सम्स्कृतनिष्टा महन्महत्त्वमावहति। दार्षनिकविषयेषु सामान्यविषये अपि च अनेन ग्रन्थरचना व्यधायि । येषाम् सन्ख्या प्रायः चतुर्दशाधिका वर्तते ।

नासदीयसूक्ते अनेन विदूषा सर्वाेत्तमा टीका लिखिता । अस्य वेदभाष्यस्य सर्वप्रथमः टीकाकारः श्रीसम्पूर्णानन्दमहाभाग एव नान्यः । 'आर्याें का आदी देश ' ग्रन्थः एेतिहासिकगवेषणापूर्णः विराजते। श्रीसम्पूर्णानन्दाे यादृग्गम्भीरस्वभाववान् आसीत् तादृगेव गहनविषयेषु अनेन लेखाः अपि लिखिताः । अतएव एतल्लिखितलेखानां भाषा गहना भावाश्च विशदाः सन्ति । इत्त्थम् एषः मनस्वी स्वकीयगम्भीराय अध्ययनाय , मननाय, चिन्तनाय च सुप्रसिद्द्ः। 'समाजवाद' नामकपुस्तकमधिकृत्य केन्द्रीयसर्वकारेण एतस्मै 'मङग्लाप्रसाद' पारिताेषिकः सादरम् समर्पितः ।

अयम् महानुभावाः स्वातन्त्रताप्राप्तेरनन्तरम् उत्तरप्रदेशस्य 'मुख्यमन्त्रि' पदे ससम्मानम् नियुक्ताेभवत् । पन्चवर्षाणि यावत् तत्पदस्य सम्यक्तया सन्चालनम् अनेन कृतम्। उत्तरप्रदेशीयमुख्यमन्त्रित्वकालं समाप्य अयम् राजस्थानप्रदेशस्य 'राज्यपाल्' पदे नियुक्ताेभवत्। अस्य एव मनाेरथशतेः समुत्पन्नः 'वारणासेयसम्स्कृतविश्वविद्यालयः' विराजते । यः काश्याः आध्यात्मिकीं शाेभां पुष्णाति। अयम् सम्प्रति एतस्यैव नाम्ना विश्वप्रसिद्धाेस्ति । वेदानाम् ,न्यायस्य, व्याकरणस्य , दर्शनस्य ,ज्याेतिषशास्त्रस्य, शिक्षाशास्त्रस्य, आयुर्वेदस्य बाैद्धसाहित्यस्य , विदेशीयभाषाणाम् विज्ञानप्रभृतिविषयाणाञ्च सविधि शिक्षां दीक्षाञ्चाधिगत्य अत्रत्यस्नातकाः दिगन्तेषु एतस्य यशः विस्तारयन्ति ।

पर्यन्ते , महानुभावाेयम् ईश्वरभक्तिपरायणाः सन् स्वाध्यायेन काश्यां स्वकीयं चरमं कालं गम्यन् १९६८ ईशवीयाब्दे एेहलोकिकीं लीलां परिसमाप्य नश्वरं पान्चभाैतिकन्च शरीरं विहाय शिवसायुज्यतां गतः । एतस्य लघुभ्राता श्रीपरिपूर्णानन्दमहाेदयः शरीरेण कृशः अपि प्रतिभया तादृशेव विलसति । एतदर्थम् श्रद्धाञ्जलिरूपेण निबन्धकतुः सूक्तिरेषा प्रस्तूयत -

    धन्य माता पिता धन्याे धन्याः सम्बन्धिनाेखिलः ।
    सुतं सम्बन्धिनं प्राप्य सम्पूर्णानन्दसन्निधम् ॥
    भारतं भारतं येन देशाे गाैरवतां गतः ।
    प्रसीदन्ति यमालाेक्य सार्थकं तस्य जीवनम् ॥

ref : www.samskrutam.com

Tags:

भागीरथीवाराणसी

🔥 Trending searches on Wiki संस्कृतम्:

वर्णःचातुर्वर्ण्यं मया सृष्टं...पुरुषः (वेदाः)सूत्रलक्षणम्जैमिनिःडोमोनिकन रिपब्लिकजनवरी १३आङ्ग्लभाषाजून १०मईतुर्कीअन्तर्जालम्ईश्वरःसङ्गणकम्ईशावास्योपनिषत्यजुर्वेदःमुद्राराक्षसम्त्रेतायुगम्कुण्डलिनी (मुद्रा)१७ फरवरीसरस्वतीनदी२६ जुलाईशशि तरूर्देवभक्तिः१८१५१०५८स्१८५६सर्वपल्ली राधाकृष्णन्कृष्णःभाषाविज्ञानम्लोकसभाजून ७मगधःकार्बन२३ मईइराक्माताताण्ड्यपञ्चविंशब्राह्मणम्आस्ट्रियाकरीना कपूरनन्दवंशःवालीबाल्-क्रीडाकोस्टा रीकागोकुरासस्यम्विज्ञानम्राजशेखरःअसहकारान्दोलनम्द्युतिशक्तिःज्योतिषशास्त्रम्स्याम्सङ्ग्सभापर्वहनुमान बेनीवालवेदव्यासःप्रशान्तमनसं ह्येनं...अष्टाध्यायीसेवफलम्नाटकम् (रूपकम्)१०८२तुलसीदासःवसुदेवःचङ्गेझ खान२६४सम्प्रदानकारकम्१२ अक्तूबरभौतिकशास्त्रम्द्वितीयविश्वयुद्धम्स्कन्दस्वामीअङ्गिकाभाषारघुवंशम्विश्वामित्रःशाम्भवी१७०७भारतीयदर्शनशास्त्रम्🡆 More