काव्यालङ्कारयोः क्रमिकविकासः

काव्यालङ्कारयोः विकासक्रमः वेदकालात् दरीदृश्यते। संस्कृतकाव्यस्योदयो यद्यपि, प्रशान्तपावने तपोवनेऽजायत, तथापि तस्य को राज्ञां प्रासादेष्वभूदिति सत्यादपेतम् । कालिदासो-विक्रमादित्यमन्तरा र एवास्थास्यत् । हर्षवर्धनं विना बाणस्य सम्भवो नासीत् । कविसमादरो भिः क्रियमाण एव तानुत्तमकाव्यनिर्माणाय प्रेरयत् । राजानो हि केवीना.

दियन्त । राज्ञामाश्रये कवित्वं प्रस्फुटतिस्म । राज्ञामेव रङ्गशालासु तेषां कृतयो. अध्यनीयन्त । राज्ञामाश्रयमवाप्यव संस्कृतकाव्यं सर्वांशतो विकासमभजत ।

काव्यस्य विकासक्रमः

संस्कृतकाव्यानि वेदं पुराणं महाभारतञ्च बीजभावेनाश्रयन्ति । वेदेषु वर्णनपराणां मन्त्राणामुपलब्धिः प्रत्यक्षाभवा परोक्षभावेन काव्यबीजत्वं भजते । तद्यथा -

प्रपर्वतानामुशती उपस्थादश्व इदं विषिते हासमाने।

गावेव शुभ्रे मातरारिहाणे विपाट्छुतुद्री पयसा जवेते ।।

ऋग्वेदस्यास्मिन् मन्त्रे उत्तमकाव्यस्य सर्वतत्त्वानि सन्ति । अत्र शृङ्गारवात्सल्यरसयोरभिव्यक्तिर्भवति । माधुर्यगुणस्तयोपमालङ्कारस्य चमत्कारिकसौन्दर्यमपि अस्ति । ऋग्वेदस्यव निम्नलिखितमन्त्रः स्वातिशयोक्त्यलङ्कारस्य गहनतमभावानामभिव्यक्तिहंतो प्रसिद्धोऽस्ति

द्वा सुपर्णा सयुजा सखाया समानं वृक्षमभिष्वजाते

तयोरन्यः पिप्पलं स्वादत्यनश्मनन्योऽभिचाकशीति । ।

अतिशयोक्तिवर्णनप्रसङ्गे 'इयं चातिशयोक्तिदेऽपि दृश्यते ।' यथा-द्वा सुपर्णेत्यादि । अत्र द्वौ सुपणो सयुजी सखायो इति लौकिकप्रयोगस्थाने छान्दसो व्यत्ययः । जीवेश्वरी नित्यो मुक्तावस्थायां समानी संसारेण सम्बद्धौ, परं जीवः कर्मफलं भुक्ते, ईश्वरः कर्मफलमभुजानोऽपि प्रकाशते । यजुर्वेदस्य निम्नलिखित- मन्त्रे वाचकलुप्तोपमा तथा यमकालङ्कारस्य सुन्दरविन्यासोऽपि दर्शनीय एव

सप्ततेऽग्ने समिधः सप्तजिह्वा सप्तऋषयः सप्तधाम प्रियाणि ।

सप्तहोत्राः सप्तधात्वा यजन्ति सप्तयो नीरापृणस्वघृत्तेन स्वाहा ।।

अथर्ववेदस्य अप्सरासूक्ते, राष्ट्रसूक्ते, सूर्यासूक्ते चादिकाव्यस्योत्तमा उदा हरणानि सन्ति । यथा -

ये त्रिषप्ताः परियन्ति विश्वारूपाणि बिभ्रतः । 

वाचस्पतिर्बला तेषां तन्वो अद्य वधातु मे ।

अथर्ववेदानुसारेण 'वेदः' परमात्मनः अमरकाव्यमस्ति । यथा -

'पश्य देवस्य काव्यं न ममार न जीर्यति।'

उपनिषत्साहित्येऽपि काव्यस्य विविधानि तत्त्वानि मिलन्ति । यथा -

धनुगृहीत्वौपनिषदं महाँस्त्रं शरं ह्यपाशानिशितं सन्धयीत

आयम्यतद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि ।। 

तथैव -

आत्मानं रथिनं विद्धि शरीरं रथमेव तु । 

कर्षितुसारथीं विद्धि मनः प्रग्रहमेव वा ।।

वेदेषु वर्णितानां कथानामाधारेण यद्यपि लौकिककाव्यप्रणयनं प्रायो नाजा यत, तथापि कालिदासो विक्रमोर्वशीये वेदवणितामेवोर्वशीपुरूरवसोः स्नेहकथां सन्दृब्धवान् । 

राज्ञामाश्रयेषु स्थिता अपि संस्कृतभाषाकवयः केवलं तेषामेव वर्णनानि प्रस्तुवन्त इति यदाधुनिका आलोचका आक्षिपन्ति तदसारमेव, यतो मेघदूते कालिदासः साधारणभृत्यस्य यक्षस्यैव प्रणयकथाममरतामनयत्, दरिद्रचारुदत्ते भासोऽपि तथैव दरिद्राश्रयकथामुपस्थापितवान्, शूद्रकोऽपि मृच्छकटिके तथैव दरिद्रवृत्तमुपस्थापितवान् । 

संस्कृतभाषाकाव्यानां विकासस्यालोचनायां प्रक्रान्तायामिदं न विस्मर्त्तव्यं यदत्र साहित्ये प्रथमं रसं बन्धुमध्यवसायः प्रवर्त्ततेस्म । वाल्मीकिना हि काव्या नामादिकाव्ये स्वरामायणे करुणरसस्य या धारा प्रवाहिता सा सततं स्यन्दमाना एव स्थास्यति । वर्णनप्रवृत्तावनुदिनमुपचीयमानायामपि कालिदासप्रभृतयो महा कवयो रसबन्धायैव व्याप्रियमाणाः प्राप्यन्ते ।

अनन्तरकालोत्पन्नाः पुनः कवयो रससापेक्षाः सन्तोऽपि ज्ञानगरिमाणमुप दर्शयितुं कवितामरचयन्, तादृशानां कवीनां मध्ये श्रीहर्षः प्रधानम् । यद्यपि हर्षस्य काव्ये ज्ञानगरिमान्तीनः प्रतिभाति, तथा रशपेशलता सर्वत्र प्राप्यत एव ।  कतिपये पाश्चात्यविद्वांसः संस्कृतकाव्यानां मूलं प्राकृतकाव्यमाहुः, तदनु चितम्, नहि संस्कृतकाव्यानि प्राकृतमूलानि, प्राकृतकाव्यानां तावत्प्राचीनानाम श्रवणात् । नाप्यनुवादरूपत्वे संस्कृतकाव्यस्रोतसि एतावती प्रखरता समागन्तुमशक्ष्यत । 

संस्कृतकाव्यधाराया रामायणादि हिमवत्प्रसूतत्त्वेऽपि प्रथमे काव्यग्रन्थाः कतम इति चिन्तायां श्रूयमाणनामधेयाः पाणिनिवररुचि प्रभृतयो यानि काव्यानि  रचितवन्तस्त एव ग्रन्थास्तथेति प्रतिपत्तुं शक्यन्ते । 

अलङ्कारशास्त्रस्य विकासक्रमः

यस्मिन् खल्ववगते काव्यस्य निर्माणे स्वरूपदोषगुणालङ्कारादीनामवधारणे च शक्तिरुन्मिषति तदलङ्कारशास्त्रम् । यथा च व्याकरणः भाषायां व्युत्पत्य, अपेक्ष्यते तथा अलङ्कारशास्त्रमपि काव्ये नैपुण्यायापेक्ष्यते ।  प्रारम्भतः एव स्वपरिसरे सुष्ठुपदार्थानवलोकयितुं सुमधुरशब्दांश्च शब्दान् श्रोतुं जनाः अभिलषन्तः जीवन्ति । अतएव त्वस्माकं ऋषयः परमात्मानं प्रार्थयन्ति -

'सुचक्षाहमक्षीभ्यां भूयासम्, सुश्रुतकर्णाभ्याम् भूयासम्'

तेन शिवसुन्दराभ्यां सत्यस्य यदा सहयोगो भवति तदा भुवि मङ्गलो जायते । तथैवापारे काव्यसंसारे मनोहरशब्देन सह माङ्गल्यार्थस्य यदा परस्परं समन्वयो भवति तदैव तत्र चारुत्वस्य विधानोऽपि भवति । 'मङ्गल्याय च मनोहराय च।' 

स्वाभाविकसौन्दर्यस्य तथोत्कर्षाधायकैरलङ्कारैः परिवधित सौन्दर्यस्य च हाव-महत्त्वानाञ्च सम्बन्धे कवयः समालोचकाश्च नैकमतो भवन्ति सर्वदा ।  गावादी महाकविकालिदासस्तु कृत्रिमाभूषणापेक्षया स्वाभाविकसौन्दर्यस्यैव  श्रेयस्त्वं स्वीकरोति -

'किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।' 

विपरीतस्त्वस्य भामहाचार्येण कृत्रिमाभूषणं विना कान्तमनोहरदेहमपि  सशोभितो न भवतीति मन्यते । 

'न कान्तमपि निर्भूषं विभाति वनिताऽननम् ।'

इयमेव दृष्टिद्वयं नीत्वा काव्ये गुणालङ्कारविषये तेषां कार्यमहत्व-तारतम्या होता निरूपणमलङ्कारशास्त्रे समजनि । अलङ्कारसम्प्रदायस्य कतिपयाचार्याः अलङ्कारानेव काव्यसौन्दर्यस्य समुत्पादको धर्मः मत्वाऽलङ्कारस्य विशालजाले एव गुण-सन्धि-सन्ध्यङ्ग-वृत्ति-वृत्यङ्ग-लक्षण-रस-भावादीन् संग्रहीतुं प्रयत्नो विहितवन्तः ।

'काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते ।

तथा च -

यच्च सन्ध्यङ्ग-वृत्त्यङ्ग-लक्षणाद्यागमान्तरे ।  व्यावणितमिदं चेष्टमलङ्कारतयैव नः ॥ -तत्रब, २।२६७ रसवत्-प्रेय-ऊर्जस्वि-समाहिताद्यलङ्काराः रसभावादींश्चात्मसातं कृत्वा काव्ये

भावपक्षोपरि कलापक्षस्य विजयघोषणा कृतवन्तः । किन्तु नीरक्षीरविवेकि भिराचार्यैरलङ्कारस्य कार्यसीमा तथा तदीया महत्तायाः युक्तिपूर्वकेन निरूपणं कृतम्। आचार्यदण्डिना प्रतिपादितालङ्कारस्य काव्यशोभा-सम्पादकत्वस्य खण्डनं कृत्वा काव्यशोभाकरेण धर्मेण मण्डितं गुणमेव महत्वमदददाचार्यवाम नेन । यथा-'काव्यशोभाया कर्तारो धर्मा गुणाः' (का० ल० ३।१।१) । पुनश्च गुणेन सम्पादितशोभायामुत्कर्षाधायककार्यमेवालङ्कारस्येति मान्यता तस्य । 'तदतिशयहेतवस्त्वलङ्काराः' ( तत्रैव ) । फलतः गुणस्य नित्यता स्पष्टमेव 'पूर्वे नित्याः' तथाऽलङ्कारस्त्वनित्यः आनुषङ्गिकश्चेति वामनो वदति । 

काव्ये गुणालङ्कारयोः स्थान-महत्त्व-कार्यादीनां निरूपणप्रसङ्गे आचार्य वामनेन दृष्टान्तद्वयं समुपस्थापितम् । ललनायाः ललितरूपसदृशः केवलं शुद्ध गुणयुक्तकाव्यमपि आह्लादको भवति । सुष्ठु अलङ्कारः विभूषिते सति तद्रूपः यथाधिकमनोहरो भवति तथैव गुणविशिष्टकाव्यमपि सुन्दरालङ्कारः विभूषिते सत्यधिकालादको भवति । यथा -

युवतेरिव रूपमङ्गकाव्यं स्वदते शुद्धगुणं तदप्यतीव ।

विहितप्रणयं निरन्तराभिः सदलङ्कारः विकल्पकल्पनाभिः । ।

किञ्च जरतीजीर्णशरीरे विविधालङ्काराणामाडम्बरो यथा हास्यास्पदो भवति तथैव गुणरहितकाव्येऽलङ्काराणां समावेशनं वैरस्यावहो भवति । यथा -

यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः ।

अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥  ( तत्रैव द्रष्टव्यम् ) 

अलङ्कारत्वम् 

आचार्यवामनस्तु शोभातिशयहेतुरूपादुपरिनिर्दिष्टालङ्कारादतिरिक्तसौन्दर्य रूपानलङ्कारानपि मान्यतां ददाति ‘सौन्दर्यमलङ्कारः' (१।१।२) । सौन्दर्यरूपो ऽयमलङ्कारो दोषहानात् गुणालङ्कारयोरादानाच्च कवेः, येन काव्ये काम्यत्व मुपादेयत्वञ्च समायाति–'काव्यग्राह्यमलङ्कारात्'(१।१।१) अलङ्कृतिरलङ्कारः' इति भावव्युत्पन्नो दोषापगमगुणालङ्कारसंवलनकृतसौन्दर्यपरः तत्प्रतिपादकत्वा देवास्यालङ्कारता । भावार्थकघञ्प्रत्ययान्तालङ्कारशब्देऽस्मिन् सौन्दर्यबोधस्य क्षमताऽस्ति नवेति विवेचनीयः प्रश्नः । यथा 'पचनं पाकः' अत्र पाकशब्दात् प्रतिपादितपचनव्यापारे 'पचति' क्रियायातोऽभिहितव्यापारात् किञ्चित् भिन्नो सत्यपि भावः अर्थात् व्यापाररूप एवासीत् तथैवालङ्करणम् 'अलङ्कारः' अत्रापि भावप्रत्ययान्तालङ्कारशब्दालङ्करणव्यापारस्यैव प्रत्यायको भविष्यति, न  तु सौन्दर्यस्येति । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' ( पा० सू० ५।१।१२४ ) अनेन सूत्रेण 'सुन्दरस्य भावः सौन्दर्यम्' अत्र भावप्रत्ययान्ते सत्यपि सौन्दर्य शब्दादभिहितः 'भावः' अलङ्कारशब्देन प्रतिपादितभावात् सर्वथा भिन्न एवास्ति । विशेषणवाचकः सुन्दरशब्दान्निष्पन्नो 'सौन्दर्यम्' सुन्दरस्य भावः अर्थात् तद्धर्म प्रतिपादक एव भवति । किञ्चालं पूर्वकात् कृ धातोः निष्पन्नभावप्रत्ययान्तः अलङ्कारशब्दः अलङ्करणव्यापारस्यैव बोधको भवति । अनेन रूपेणोभयोः अलङ्कार-सौन्दर्यशब्दयोर्मध्ये व्युत्पत्तिलभ्यार्थस्य भिन्नत्वात् अलङ्कारस्य सौन्दर्य नाम्ना व्यपदेशो हि सुसङ्गतः प्रतीतो न भवति । यद्यपि व्याकरणसिद्धान्तानु सारेण कृत्प्रत्ययात्प्रतिपादितो भावः अर्थात् व्यापारः द्रव्यवत्प्रकाशितो भवति 'कृदभिहितो भावः द्रव्यवत् प्रकाशते ।' सौन्दर्यार्थे यदि अलंकारशब्दोऽयं योगरूढशब्दश्चेत् तहि परवत्तिभिराचार्यैरपि तस्मिन्नर्थे परिगृहीतो भवति । किञ्चाचार्यवामनं विहाय नैकोऽपि आचार्यः अलङ्कारशब्दस्य प्रयोगः सौन्दर्याऽर्थे कृतवानस्ति । अतः लौकिकालङ्कार इव काव्येऽपि सौन्दर्यस्यातिशयाधाने साधनमात्रमेवास्ति । अतोऽलङ्कारशब्दस्य 'यो हेतुः काव्यशोभायाः सोऽलङ्कारः प्रकीर्यते' इदमेव लक्षणम् तथा अलंक्रियतेऽनेनेति' करणव्युत्पत्तिनिष्पन्नो मकोपमादिबोधकोऽयमलङ्कारशब्द इति । 

अलङ्कारशास्त्रम् 

एनमलङ्कारशास्त्रं कदा केन प्रथममाविष्कृतमिति निर्णतुं न शक्यमस्माभिः । किञ्च प्रसिद्धेषु सर्वेषु, अलङ्कारनिबन्धेषु कालिदासकृतेरुद्धरणात् कालिदासा  तरकालमेवास्य बाहुल्येन चर्चाजनीति सम्भाव्यते । 

दण्डिना भामहेन वा इदं शास्त्रं प्रथममाविष्कृतमिति । ताभ्यां प्राक्तनस्या बडारशास्त्रनिर्मातुरनुपलम्भात् । तयोः परमप्राचीनत्वं यथा -

'जाते जगति बाल्मीको कविरित्यभिधाऽभवत् । 

कवी, इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥' इति प्राचीनपद्येन प्राचीनतरः कविवरश्वायमिति नात्र सन्देहः । परन्तु शुद्रककविकृते मृच्छकटिकनाम्नि नाटके विद्यमानस्य -

लिम्पतीव तमोऽङ्गानि वषतीवाञ्जनं नभः । 

असत् पुरुषसेवेव दृष्टिविफलतां गता ॥

इति पद्यस्य यत्प्रथमार्द्धं तस्य स्वकृतकाव्यादर्श, उपादानात् शूद्रक कवेरर्वाचीन इत्येव निश्चीयते । भामहोऽपि प्राचीनतरस्तेन हि 'प्रतापरुद्रयशो भूषणे' विद्यानाथेनोक्तम् -

'पूर्वेभ्यो भामहादिभ्यः सादरं विहिताञ्जलिः । 

वक्ष्ये सम्यगलङ्कारशास्त्रसर्वस्वसंग्रहम् ॥'

उक्तञ्चालङ्कारसर्वस्वे रुय्यकेणापि-'भामहोद्भटप्रभृतयश्चिरंतनालङ्कार काराः' इति । किञ्च ध्वन्यालोकलोचने द्वितीयोद्योते 'ध्वन्यात्मभूते शृङ्गारे' इति २१ कारिकायावृत्तिव्याख्यानावसरे 'उक्तः' इति प्रतीकमुपादायाभिनव गुप्ताचार्यैरभिहितम् 'भामहादिभिरलङ्कारलक्षणकारैः' इति । अपि च काव्य प्रकाशवृत्तिग्रन्थस्थे 'समाम्नासिषुः' इतिपदे 'प्राञ्चो भामहादय' इति शेषः, इत्युक्तं काव्यप्रकाशटीकाकारैः । भामहस्य प्राचीनतरत्वादेव च मम्मटेनापि स्वोक्तेऽर्थे सम्मति दर्शयितुं 'रूपकादिरलङ्कारः' इत्यादिः 'सैषा सर्वत्र वक्रोक्तिः' इत्यादिश्च भामहग्रन्थ उपन्यस्त । 

किञ्चाग्निपुराणे भगवता वेदव्यासेन सर्वस्याऽपि काव्यप्रपञ्चस्य प्रायशः कथनात् कालिदासात्पूर्वकालेऽप्यस्य चर्चा, आसीदिति । तथा हि अग्निपुराणे ३४३ अध्याये, ३४४ अध्याये च -

'स्यादावृत्तिरनुप्रासो वर्णानां पदवाक्ययोः'

इत्यादिना, अनुप्रासादयः शब्दालङ्काराः -

'अलङ्करणमर्थानामलङ्कार इतीष्यते ।

तं विना शब्दसौन्दर्यमपि नास्ति मनोहरम् ।' 

'अर्थालङ्काररहिता विधवैव सरस्वती।'

इत्युपक्रम्य -

'उपमा नाम सा यस्यामुपमानोपमेययोः । 

सत्ता चान्तरसामान्ययोगि लक्षिताः ॥'

तथा ३४७ अध्याये -

संक्षेपात् वाक्यमिष्टार्थ व्यवच्छिन्ना पदावली। 

काव्यं स्फुरदलङ्कारं गुणवद्दोषवर्जितम् ।

इत्यादिना काव्यस्यापि लक्षणमुक्तम् । किं बहुना  -

रत्यादि ववर्गोऽयं यामाजीव्योपजायते । 

आलम्बनविभावोऽसौ नायकादिभवस्तथा ॥

इत्यादिना -

विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते । 

विभावो नाम स द्वेधा लम्बनोद्दीपनात्मकः ॥

इत्यादिना च विभावस्तदभेदोऽपि ३३९ अध्याये लक्षितः । किञ्च -

वाग्विद्या सम्प्रतिज्ञाने रीतिः साऽपि चतुर्विधा ।

पाञ्चालीगोडदेशी च वैदर्भी लाटजा तथा ।। 

इत्यादिना ३४० अध्याये चतुर्धारीतिरप्युक्ता । एवञ्चास्यालङ्कारशास्त्र स्याग्निपुराणं मूलमिव प्रतिभाति । 

काव्यस्य प्रयोजनम्

मानवः किमपि कर्तुं केनाऽपि विशेषप्रयोजनेनोद्देश्येन वा प्रवृत्तो भवति । अतः काव्यस्य प्रयोजनं कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश एवेति । एत स्मिन् विषये प्राचीनकालादारभ्याधुनिककालपर्यन्तस्यालङ्कारिकाः स्वस्वविचारं  समुपस्थापिताः । काव्यस्य प्रयोजनं नाट्यशास्त्रकारेण भरतेनाप्युक्तम् -

उत्तमाधममध्यानां नराणां कर्मसंश्रयम् ।

हितोपदेशजननं धृतिक्रीडासुखादिकृत् ।।

दुःखार्तानां श्रमार्त्तानां शोकार्तानां तपस्विनाम् ।

विश्रान्तिजननं काले नाटयमेतद्भविष्यति ।

धम्यं यशस्यमायुष्यं हितं बुद्धिर्विवर्द्धनम् ।

लोकोपदेशजननं नाट्यमेतद्भविष्यति ।। 

भामहेनाप्युक्तं यदुत्तमकाव्यनिबन्धनात् धर्मार्थकाममोक्षाणां प्राप्तिर्भवति, कलासु वैचक्षण्यं समायाति, कीतिमिलति, आनन्दोपलब्धिर्भवति । यथा -

धर्मार्थकाममोक्षाणां वैचक्षण्यं कलासु च ।

करोति कीत्ति प्रीतिञ्च साधुकाव्यनिबन्धनम् ॥ 

वामनेनाप्युक्तम् -

'काव्यं सद् दृष्टार्थं प्रीतिकीत्तिहेतुत्वात् ।

तत्रैव काव्यालङ्कारसूत्रस्य वृत्तौ -

प्रतिष्ठां काव्यबन्धस्य यशसः सरणि विदुः ।

अकीतित्तिनीं त्वेवं कुकुवित्वविडम्बनाम् ।

कीत्ति स्वर्गफलमाहुरासंसारं विपश्चितः ।

अकीत्ति तु निरालोकनरकोदेशदूतिकाम् ॥

तस्मात्कीर्तिमुपादातुं अकीत्तिञ्च निहितुम् । 

काव्यालङ्कारसूत्रार्थः प्रसाद्यः कविपुङ्गवः ॥

भोजराजेन काव्यरचनायाः द्वौ प्रयोजनौ मन्येते, कीत्ति प्रीतिञ्चेति -

निर्दोषगुणवत्काव्यमलङ्कारैरलङ्कृतम् । 

रसान्वितं कविः कुर्वन् कीत्ति प्रीतिं च विन्दति ।।

वक्रोक्तिजीवितकारेणाप्युक्तम् -

धर्मादिसाधनोपायः सुकुमारक्रमोदितः ।

काव्यबन्धोऽभिजातानां हृदयाह्लादकारकः ॥

व्यवहारपरिस्पन्द सौन्दर्यव्यवहारिभिः ।

सत्काव्यादिगमादेव नूतनौचित्यमाप्यते ॥

चतुवर्गफलास्वादमप्यतिक्रम्य तद्विदाम् ।

काव्यामृतरसेनान्तश्चमत्कारो वितन्यते ॥

तत्रैव -

कटुकोषधवच्छास्त्रमविद्याव्याधिनाशनम् । 

आह्लाद्यामृतवत् काव्यमविवेकगदापहम् ॥

वाग्भटाचार्येण स्वकाव्यानुशासने काव्यप्रयोजनस्य विशदविवेचनं कृतम् । तेनोक्तं काव्यरचनायाः षटप्रयोजनानि सन्ति । 'काव्यम्' प्रमोदायानर्थपरि हाराय व्यवहारज्ञानाय त्रिवर्गफललाभाय कान्तातुल्यतयोपदेशाय कीर्तये च ( काव्यमालासंस्करणे द्रष्टव्यम् ) किञ्च मनसा तेनकैव प्रयोजनं मन्यते-- 

'वयं तु कीत्तिमेवैकां काव्यहेतुतायामन्यामहे ।'

रुद्रटस्य काव्यालङ्कारे -

'ननु काव्येन क्रियते सरसानामवर्गमश्चतुर्वर्गे । 

लघुमृदु च नो रसेभ्यस्ते हि त्रस्यन्ति शास्त्रेभ्यः ॥'

अग्निपुराणे च काव्यरचनायाः प्रयोजनं त्रिवर्गसाधनं मन्यते । यथा -

'त्रिवर्गसाधनं नाटयम् ।'

रामचन्द्र-गुणचन्द्रयोः नाट्यदर्पणे -

'चतुर्वर्गफलां नित्यां जैनी वाचमुपास्महे । 

रूपैदशभिर्विश्वं यया न्याय्ये धृतं पथि ॥'

तत्रैव-

'धर्मस्य च मोक्षहेतुतया मोक्षोऽपि पारंपर्ये फलम् ।'

धर्मकाम अर्थाः व्यस्त समस्ताः सत् प्रधानं फलं यत्र मोक्षस्तु धर्मकार्यत्वात् गौणं फलम् ।' 

काव्यप्रकाशे मम्मटाचार्येण सप्रयोजनमुक्तम् -

काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । 

सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे ।।

एतान्येव षट्प्रयोजनानि सन्ति । काव्यात् यशःप्रभृतीनि प्रयोजनानि लभ्यन्ते, इत्येतत् दृष्टान्तेनोपपादयन् आदौ -

(१) यशसे — रघुवंशकुमारसम्भवादिकाव्यकर्तुः कालिदासस्याद्यापि - पित्रादिकुलं वा कश्चिज्जानाति नवादानादिकं किञ्चित्प्रसिद्धं येन तादृशं यशः  स्यात्, किन्तु काव्यमेतत्कारणमिति । 

( २ ) अर्थकृते धावकनामा कश्चित्पण्डितः प्राक् परमदरिद्रश्चिन्तामणि नामकमहामन्त्रविशेषोपासनप्रासादेन विचित्र्य विद्याशाल्यपि निर्धनत्वेन बहु क्लिश्यमानः सन् नैषधीयचरिताख्यं शतसर्गात्मकं विचित्रं महाकाव्यं विरच्य गुणशिरोमणि श्रीहर्षनामानं राजानं प्रदर्य तेनातितुष्टात्ततः शतसहस्रात्मक  रूप्यमुद्रोत्पत्तियोग्यतां भूमिं प्राप्तवान् । 

( ३ ) व्यवहारविदे-राज्ञि, सचिवे गुरुमुन्यादौ च गतो य उचित आचारास्तत् परिज्ञानम् । पुराणे बालिवधादनुचितप्रकारेणाचारनिबन्धनात् महावीरचरितादौ च तस्यैवौचित्येन निबन्धनादिति ।।

(४) शिवेतरक्षतये-मयूरनामा कोऽपि कविः श्लोकशतेनादित्यमुपश्लोक्य कुष्ठरोगानिस्तीर्ण इति जनश्रुतिरस्ति । सुधासागरकारैरप्युक्तम्-पुरा किल मयूरशर्मा कुष्ठीकविः क्लेशमसहिष्णुः 'सूर्यप्रसादेन कुष्ठान्निस्तरामि प्राणान्वा त्यजामि' इति निश्चित्य हरिद्वारं गत्वा गङ्गातटे अत्युच्चतरुशाखावलम्बि शत रज्जुशिक्यमधिरूढः सूर्यमस्तौषीत्, अकरोच्चकैकपद्यान्ते एकैकरज्जुविच्छेदम् । एवं क्रियमाणकाव्यपरितुष्टो रविः सद्य एव नीरोगं रमणीयाञ्च तत्तनुमकार्षीत् । 

(५ ) सद्यः परनिर्वृतये-सकलेषु यशःप्रभृतिषु प्रयोजनेषु मौलिभूतेदम् । काव्यश्रवणानन्तरमेव स्वविषयातिरिक्तवेद्यान्तरसम्पर्क शून्यो भवति, तदा ज्ञाना त्मकः आनन्द एव विषयो भवति, किमपि वेद्यान्तरं न भासते । 

(६) कान्तासम्मिततयोपदेशयुजे-प्रभुसम्मितानि शब्दप्रधानानि यानि वेदशास्त्राणि तेभ्यो विलक्षणमिति । मित्रतुल्या अर्थतात्पर्यवन्तो ये पुराणादय स्तेभ्योऽपि विलक्षणम् । यथा दयितं गुरुमित्राद्यधीनमपि, इतरजनलक्षण्येन कटाक्षभुजक्षेपादिना सरसतामापाद्य स्वाभिमुखीकृत्य प्रवर्त्तयति, एवं काव्यमपि सुकुमारमतीन् सुखिस्वभावां नीतिशास्त्रपराङ्मुखान् राजकुमारादीन् ललित पदकदम्बकोपर्शितशृङ्गारादिरसेन मधुरपानादिना कटुकषायौषधपान् परा ङमखान बालकानिव सदपदेशस्वरूपस्वार्थे प्रवर्तयतीति ।  महापात्रविश्वनाथेनाप्यत्र विशदं विवेचनं कृतम् । यथा -

'चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि । 

काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते । ।

किञ्च काव्यधर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, 'एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके च कामधुग्भवति' इत्यादि वेदवाक्येभ्यश्च सुप्रसिद्धव । अर्थप्राप्तिश्च प्रत्यक्षसिद्धा । कामप्राप्तिश्च अर्थद्वारैव । मोक्षप्राप्ति श्चतज्जन्यधर्मफलाननुसन्धानात्, मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च । चतुर्वर्गफलप्राप्तिहि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धिनामेव जायते । परमानन्दसन्दोहजनकतया सुखादेव सुकुमारवुद्धीनामपि पुनः काव्यादेव । 

ननु तर्हि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् । कटुकौषधशमनीयस्य रोगस्य शितशर्करोपशमनीयत्येव कस्य वा रोगिणः सितशर्करा-प्रवृत्तिः साधीयसी न स्यात् । पण्डितराज जगन्नाथेनापि  -

तत्र कीतिपरमाह्लादगुरुराजदेवताप्रसादाद्यनेकप्रयोजनकस्य काव्यस्येति । तेन हि काव्यनिरूपण-प्रयोजकीभूतफलानि पूर्वप्रदर्शितानि एवेति । 

काव्यहेतु-विमर्शः

काव्यहेतुत्वं प्रतिभायाः प्रायः सर्वैरालङ्कारिकैः शब्दान्तरैर्व्यवहरद्भिः स्वीक्रियत एव । तत्र प्रतिभापदप्रयोगविषयान कियतः संक्षेपेणात्रोपस्थापयामि । तत्र-'तस्य च कारणं कविगता केवला प्रतिभा । सा च काव्यघटनानुकूल शब्दार्थोपस्थितिः ।' इति पण्डितराजजगन्नाथेनोक्तम् । पण्डितराजोऽयं पदा र्थानां स्फुटतया प्रतिपादने प्रायोऽद्यावधि अवतीर्णान् सर्वानपि अलङ्कारिका नतिशेते । प्रतिभाशब्दस्य प्रायः ज्ञानार्थकपदरूपेणैव सर्वत्र सूक्ष्मदृष्ट्या प्रयोगो भवति । किञ्च-सूक्ष्मदृष्ट्या स्मृतिमात्रे प्रसिद्धोऽप्युपस्थितिशब्दो नात्र तथापि तु ज्ञानमात्रे मानसप्रत्यक्ष वा स्मृतानां नूतनत्वासम्भवात् । नूतनानामेव काव्य घटनानुकूलत्वात् ।

'प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता' इति प्रतिभापदप्रयोगविषयश्च प्रसिद्धः । क्वचिच्च प्रज्ञापदस्थाने बुद्धिरित्यपि पाठो मिलति । तथा च प्रतिभा पदप्रवृत्ति-निमित्तभूतो बुद्धेर्नवनवोन्मेषो न स्वाभाविकोऽपि तु अदृष्टवासना निमित्तकः । तदा च निमित्तवशात् अदृष्टे वासनायाञ्चालङ्कारिकाणां लाक्ष णिकः प्रतिभापदप्रयोगो नापूर्व इति । वासना संस्कार इत्यनर्थान्तरम् । संस्कार श्वानुभवजन्यो अनुभवसमानविषयकः, स्वानुभवसमानविषयिण्याः स्मृतेर्जनकः, न भवति पटानुभवजन्यसंस्कारेण घटस्य स्मरणम् । संस्कारवशात् स्मृतानां विषयाणां नवनवताऽपि प्रागनुभूततया न साधु सङ्गच्छते । अदृष्टन्तु स्वकारणा पेक्षविलक्षणसामर्थ्यवत् न प्राक्तनं कवित्वमनुभवं वाऽपेक्षमाणं साधु नवनवोन्मेष कारि इति विभाति । तथा च श्रीमान् नागेशमहोदयः प्रदीपोद्योते काव्यप्रका शस्य 'शक्तिपदस्य' प्रदीपकृतां 'संस्कारविशेषा' इति व्याख्यामुपेक्ष्य 'देवता राधनादिजन्यं विलक्षणादृष्टं शक्नोति काव्यनिर्माणायानयेति योगाच्छक्तिरित्यु च्युते' इति साधु व्याख्यातवान् । किञ्चादृष्टेऽपि संस्कारशब्दप्रयोगः सम्भवति यथाऽनुभवेन बुद्धिः संस्क्रियते तथा कर्मणाऽपि । साधुसंस्कारोऽस्यासीयेनाना यासमरणमलभतेत्यादावदृष्टपरतया प्रयुज्यतेऽपि । एवञ्च प्रदीपस्थं संस्कारपद मपि नादृष्टं दर्शयतीति न साधयितुं शक्यते । पूर्वोक्ता प्रतिभा परिभाषा तु न सम्यक् न्यायसरणिमनुसरति, अतएव कदाचन पण्डितराजपरित्यक्ता भवेत् । पण्डितराजमतेन सांख्यरीत्या व्याख्याने नवनवोन्मेषपदार्थः स एव प्रतिभा पदार्थतयाऽभिमत इति । 

विलक्षणव्युत्पत्तिः

आचार्यमम्मटेनोक्तम्  'शक्तिनिपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।  काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ शक्तिः लोकशास्त्रकाव्याद्यवेक्षणात् निपुणता काव्यज्ञशिक्षयाभ्यासः, इति एतत्त्रितयं काव्यस्योद्भवे हेतुरिति । लोकशास्त्रादिविमर्शादत्र व्युत्पत्तिरिति उपलभ्यते । तत्र का नाम व्युत्पत्तिनिपुणता वेति विचारे लोकशास्त्रादीनामनु भवश्चेत् क्षणद्वयस्थायी संस्कारमुत्पाद्य विनश्यतीति समयान्तरे व्युत्पन्नतया काव्यनिर्माणं न स्यात् । न चैतावदेव किन्तु कतिपयालङ्कारिका जन्मान्तरीया मपि व्युत्पत्ति जन्मान्तरे उपयोजयन्ति । तेन हि लोकशास्त्राद्यनुभवजन्यः संस्कारो वासनापरपर्यायो व्युत्पत्तिरिति आयाति । केचन च लोकशास्त्रादीना मनुभवपर्यवसायि श्रवणमेव कारणमित्यपि वदन्ति । तत्र श्रवणस्य संस्काररूप व्यापारद्वारा कारणत्वं बोध्यम् । अनुभवजन्यः संस्कारः कारणं अनुभवो वा संस्कारद्वारा कारणमित्यत्र न फले विशेषः । 

अभ्यासः

पौनःपुन्येन प्रवृत्तिरित्यभ्यासपदम् । काव्यप्रकाशरीत्या काव्यज्ञशिक्षया करणे योजने च साभिनिवेशं प्रवृत्तिरित्येवाभ्यासः सर्वेषां प्रायो भिमतः । तत्रापि व्युत्पत्तिपदार्थनिर्वचनवत् करणयोजना अनुभवजन्यः संस्कार राव स्थिरतां भजमानः काव्यकारणतापात्रमवशिष्यते । अत्रापि करणयोजनादि विषयकानुभवस्य संस्कारद्वारा तादृशानुभवजन्यसंस्कारस्य वा कारणत्वे फला विशेषो बोध्यः, व्युत्पत्त्यभ्यासयोर्द्वयोः संस्कारत्वेऽपि लोकशास्त्रादिविषयकः संस्कारो व्युत्पत्तिः, करणयोजनादिविषयकश्चाभ्यास इति बोध्यः । आचार्य दण्डिमहाभागस्तु -

नैसर्गिकी च प्रतिभाः श्रुतञ्च बहुनिर्मलम् । 

अमन्दश्चाभियोगोऽस्याः कारणं काव्यसम्पदः ॥

न विद्यते यद्यपि पूर्ववासनागुणानुबन्धिप्रतिभानमद्भुतम् । 

श्रुतेन यत्नेन च वागुपासिता ध्र वं करोत्येव कमप्यनुग्रहम् ॥ इति वदति । 

पूर्वोक्तप्रतिभापदार्थविवेचनरीत्या विलक्षणादष्टसहकृता अन्तःकरणबुद्धिः प्रतिभानान्तोका नैसर्गिकत्वञ्च तस्यादृष्टव्युत्पत्त्यभ्यासभिन्नत्वमेव । यथा शक्तिनिपुणतेत्यादिकारिकाव्याख्याने-'शक्तिः कवित्वबीजभूतो देवताप्रसादादिजन्मासंस्कारविशेषः प्रतिभा व्यपदेशः । तस्याः कारणतायां किं मानमिति चेत्, निपुणतादिकारणान्तरसद्भावेऽपि अनुपहसनीयकाव्यप्रसरस्य कार्यस्य व्यतिरेकः । स च विशेष्यस्य काव्यप्रसरस्य विशेषणस्यानुपहसनीयत्वस्य वा व्यतिरेकात्स र्वत्राविशिष्टः । न चैवं कारणान्तरं किंञ्चिदायातु न तु शक्तिरिति वाच्यम् । प्रसिद्धातिरेकिण्येव तद्धती शक्तिर्व्यपदेशात् ।' इति प्रदीपः । यद्यपि जन्मान्तरा दृष्टवशादिह किञ्चिदनायासेन समुद्भूतं नैसर्गिकमिति व्यपदिश्यते तद्रीत्या च जन्मान्तरीयादृष्टसचिवा बुद्धिरिति व्याख्यानं प्रतिभानान्तस्य सम्भवति तथापि ऐहिकदेवप्रसादादिवशाज्जायमानकाव्यसम्पन्नसंग्रहीता स्यादिति न्यूनता वारणाय तादृशमेव नैसर्गिकत्वं वणितम् । तादृशवर्णने च जन्मान्तरीयानुभव जन्या कवित्ववासनाऽपि संगृह्यतेति तु गुणान्तरमेव । श्रुतञ्च शास्त्रं, प्रकाशो क्तलोकादीनामुपलक्षणम् । तथा च पूर्ववर्णिता व्युत्पत्तिरेवोक्ताः । अमन्दः साभिनिवेशः करणयोजनादिविषयिणी प्रवृत्तिः । तत्र पूर्वपद्येन प्रतिभाव्युत्पत्त्य भ्यासानां समुच्चयस्यानुपहसनीयकाव्यं प्रति कारणतां प्रदर्श्य व्युत्पत्त्यभ्यासयोः समुच्चयस्य मध्यमाधमकाव्यस्य कारणान् प्रदर्शयति द्वितीयेन पद्येनेति ।

रुद्रटमतम्

मनसि सदा सुसमाधिनि विस्फुरणमनेकधाऽभिधेयस्याक्लिष्टानि पदानि च विभान्ति यस्यामसौ शक्तिरिति रुद्रटो ब्रूते -

सहजोत्पाद्या च द्विधा सा भवति । 

उत्पाद्या च कथञ्चित् व्युत्पत्त्या जन्यते परया ॥

विस्फुरणं विभान्ती ताभ्यामत्र प्रतिभव निर्दिष्टा । सा प्रतिभा कापिल प्रसिद्धा नास्ति बुद्धिः । शक्तिश्चात्र द्विधा संस्काररूपा अदृष्टरूपा चेति । जन्मान्तरीयानुभवजन्यसंस्काररूपा अदृष्टरूपा च सहजा । ऐहिकोत्कृष्टव्युत्पत्तिजन्या चोत्पाद्या । यद्यपि सहजशब्दस्वारस्यं जन्मान्तरीयादृष्टस्य परिग्रह एव । तथापि ऐहिकदेवतादिप्रसादजन्यस्य संग्रहाय सामान्यतोऽदृष्टरूपतया परिगणितम् । सहजत्वन्तु दण्डिमते नैसर्गिकत्ववद् ऐहिकव्युत्पत्त्यभ्यासजन्यत्वमात्रम् । अथवा सहजा अदृष्टमात्ररूपा, उत्पाद्या तु ऐहिकव्युत्पत्तिजन्या। यहिकव्युत्पत्तिर्न दृश्यते तत्र जन्मान्तरीयमदृष्टमेव ।

वामनमतम् 

'कवित्वबीजं प्रतिभानं, कवित्वस्य बीजं संस्कारविशेषः कश्चित्, यस्मा द्विना काव्यं न निष्पद्यते निष्पन्नं वा हास्यायतनं स्यात् ।' इति वामन वचः प्रतिभानं प्रतिभाजनकम्, बीजं संस्कारविशेष इत्यत्र प्रतिभाद्वारेति शेषः । किञ्चिदपि कारणं शब्दार्थोपस्थितिमन्तरा न काव्यं घटयितुं प्रभवतीति प्रतिभा द्वारकत्वं समेषामिष्टमेव । संस्कारपदेन अदृष्टं व्युत्पत्तिप्रभृतिजन्यः संस्कारश्च  सप्तम उल्लासः  १८७ सर्वोऽपि गृह्यते । बालस्य कवित्वे देवताप्रसादादिजन्यमदृष्टं जन्मान्तरीयव्युत्प त्यभ्यासजन्यः संस्कारो वा कारणम् । हास्यायतनं काव्याभासरूप तथा च काव्यं प्रति प्रतिभेव कारणम् । केचनानुपहसनीयकाव्यं प्रति प्रतिभाकारणम् ।

मम्मटाचार्यमतम्

मम्मटाचार्यस्यापि मतमित्थमायाति -

शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । 

काव्यज्ञशिक्षयाभ्यासः इति हेतुस्तदुद्भवे ॥

शक्तिः संस्कारविशेषः इति तद्वृत्तौ प्रतिपादितम् । तस्यादृष्टपरत्वेन व्याख्यानं नागेशमहोदयस्य प्रागेव प्रदर्शितम् । निपुणता पूर्वोपर्शितव्युत्पत्ति पदार्थ एव । अभ्यासोऽपि करणयोजनयोः प्रतिपादित एव । यद्यपि क्वचिच्छक्तिः क्वचिच्च काव्ये निपुणताभ्यासो कारणमिति दिशाऽपि व्याख्याऽस्य दृश्यते परं शक्त्यादित्रयसमूदायस्यैव काव्यं प्रतिकारणत्वेनैवोद्धरणं दश्यत इति समुदितस्य त्रितयस्य कारणतावादित्वेनैव मतमिदमस्ति । तत्खण्डनं तु ग्रन्थ एव वर्तते । तत्रापि काव्यं प्रति त्रितयस्य कारणत्वेन बह्वयोः व्याख्याः परं काव्यानुकूल प्रतिभा प्रति त्रितयस्य कारणत्वमस्याभिप्रेतम् ।  यद्यपि शक्तिपदार्थस्यैव प्रतिभात्वेन व्याख्यानं काव्यप्रदीपे उपलभ्यते परं न तत्समेषां सम्मतम् । भवेदपि शक्तिपदार्थः प्रतिभा, परं न पण्डितराजपरि एकतप्रतिभा, अपि तु नवनवोन्मेषेत्यादिना लक्षिता प्रतिभा ।  समुदितत्रयस्य हेतुता घटचक्रकुलालादिन्यायेन व्याक्रियते । यथा घटं प्रति चक्रत्वेन कुलालत्वेन च चक्रकुलालकपालादेः कारणत्वेऽपि न केवलेन चक्रेण कलालादिना वा प्रत्येकं घटफलजननं अपितु चक्रकुलालादिसमुदयस्यैव फल जनकता न तु प्रत्येकम् । 

पण्डितराजजगन्नाथस्तु तृणारणिमणिन्यायेन व्याख्यायते । यथा वह्नि प्रति क्वचित्तृणं कारणं, क्वचिदरणिमन्थनं क्वचिच्च सूर्यकान्तो मणिः, न तु त्रयः समुदिताः कमपि वह्नि समुत्पादयन्ति । तथा काव्यप्रतिभा प्रति काव्यं प्रति वा क्वचिच्छक्तिः कारणं क्वचिच्च व्युत्पत्त्यभ्यासो, न तु त्रयः समुदिताः, क्वचिदपि काव्यप्रतिभा काव्यं वा जनयन्ति ।

वाग्भटमतम् 

प्रतिभा कारणन्तस्य व्युत्पत्तिस्तु विभूषणम् । 

भृशोत्पत्तिकृदभ्यास इत्यादि कविसंकथा ।।

इति वाग्भटो ब्रूते । तत्र प्रतिभाव्युत्पत्ती सुष्ठ काव्यमुत्पादयतः अभ्यासस्तु अधिककाव्यरचनायामुपयुञ्जानो न काव्यसामान्यकारणतायां गणनीयतामावहति इति तदभिप्रेतं प्रतिभाति । एवञ्च सुन्दरकाव्यं प्रति समुदितस्य कारणता वाद्ये वेदमपि मतम् । नवनवकल्पनाशालिनी अन्तरिन्द्रियरूपा बुद्धिः प्रतिभाशब्देन विवक्षिता । सा च साधारणी शास्त्रान्तरेऽपि नवनववस्तूत्थापन शीला । सा च काव्यमार्गेऽपि नवनवान् शब्दार्थानुपस्थापयन्ती वाक्यस्य पद्यस्य वा कारणं भवन्त्यपि चमत्कारधायकवाक्यस्य व्युत्पत्ति विना बाधायिकेति व्युत्पत्तिस्तस्याः सहकारिणी अङ्गीक्रियते । प्रतिभाजन्यशब्दार्थोपस्थितो काव्य घटनानुकूलत्वं व्युत्पत्तिसहकारसम्पादितमिति भावः । तथा च विभूषा विशिष्टमेव वाक्यादिकं काव्यम् विभूषारहितं वाक्यमानं काव्याभासो वेति । तादृशञ्च काव्यमुभाभ्यामेव प्रतिभाव्युत्पत्तिभ्यां क्रियते । वाग्भटमतसदृशतया अनल्पप्रतिपादनभयादिदं मतमुद्धरामि । विशिष्टकाव्यं प्रति प्रतिभाव्युत्पत्त्य भ्यासानां समुदायस्य कारणता । विशिष्टं काव्यं तु लोकोत्तरवर्णनानिपुणता विशिष्टं कविकर्मप्रतिभामात्रेण शब्दार्थयोजनायां सम्भवन्यामपि निपुणतारूप व्युत्पतिमन्तरा शब्दार्थयो(लक्षण्यस्य काव्यत्वाधायकस्यासम्भवात् निपुणता वैलक्षण्याधायिका, तथा लोकोत्तरतायाः शब्दार्थयोः सम्पादकोऽभ्यासश्च प्रतिभा सहकारितयाङ्गीक्रियते ।

पीयूषवर्षमतम् 

प्रतिभव श्रुताभ्याससहिता कवितां प्रति । 

हेतु दम्बुसम्बन्ध बीजोत्पतिर्लतामिव ।।

इति पीयूषवर्षों वदति । एवं पदं प्रतिभायाः प्राधान्यस्य वैलक्षण्यस्य वा द्योतनाय न तु व्युत्पत्त्यभ्यासव्यावृत्तये, पण्डितराजमतापातात् मृदम्बुदृष्टान्ता सनतेश्च । नहि बीजं मृदम्बु सहकारं विना लतां प्रति प्रभवति । प्राधान्यं वैलक्षण्यमित्थं दृष्टान्तबलादायाति । यवलतां प्रति यवबीजं गोधूमलतां प्रति गोधूमबीजमित्यादिरीत्या बीजमसाधारणम् । मृदम्बुनी तु लतान्तरं प्रत्युपयुञ्जाने बीजान्तराणामपि सहकारिणी तथा प्रतिभा काव्यस्यासाधारणं कारणमिति । ध्रुतशब्दस्य दण्डिमते इव व्युत्पत्ती तात्पर्यमवसेयम् उत्पत्तिपदं तु प्रायः पाद पूरकमेव । त्रयाणां समुदायस्य कारणतावादि मतमिदम् । अन्यच्चापेक्षितमुप पादनं वाग्भटमतप्रतिपादनादवसेयम् अनन्तरोक्तगौरवपरम्परादूषणमनुवर्त नीयम् । एव पदमपि तादृक् सफलं न प्रतिभाति । अत्र व्युत्पत्त्यभासयोरप्य साधारणयोरेव काव्यमात्रप्रयोजकयोर्ग्रहणं न तु कार्यान्तरप्रयोजकयोरिति ।

कार्यमात्रं प्रति सर्वैः प्रतिबन्धकाभावस्य कारणताङ्गीक्रियते । शक्तिनिपुण ताऽभ्यासश्चेति त्रयम्, हेतुता काव्यं प्रति काव्यप्रतिभा प्रति चेति व्याख्यान भेदेन । शक्तिपदार्थश्चादृष्टादिः प्रतिभापदार्थनिरूपणावसरे एव प्रदर्शितम् । तेन व्युत्पत्याभ्यसयोरपि शक्त्या साकं सत्ता सूचितेति दिक् । 

काव्यलक्षणम्

तत्र गुणालङ्कारादिनिष्ठप्रकारतानिरूपितविशेषताकाव्ये विशेष्यताव च्छेदकं काव्य त्वम् । प्रसङ्गादत्र 'शब्द एव काव्यमिति मत्त्वा' कृतानि पुरातना चार्याणां काव्यलक्षणानि प्रदर्शयन्ते । 

१. तत्र काव्यादर्श दण्डिना -

'तैः शरीरं काव्यानामलङ्काराश्च दर्शिताः । 

शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली।'

2. काव्यदीपिकायां कान्तिचन्द्रेण  'इष्टार्थव्यवच्छिन्नापदावलीति काव्यम् ।'

३. अग्निपुराणे व्यासेन 

......... 'इष्टार्थव्यवच्छिन्ना पदावली 

काव्यं स्फुरदलङ्कारं गुणवद्दोषवर्जितम् ॥'

4. शौद्धोदनिना अलङ्कारशेखरे तद्वृत्तिकारकेशवमिश्रेण च  'काव्यं रसादिमद्वाक्यं श्रुतं सुखविशेषकृत् ।'

५. भोजेन सरस्वतीकण्ठाभरणे -

'निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कम् ।

रसान्वितं कविः कुर्वन् कीत्ति प्रीतिञ्च विन्दति ॥' 

6. जयदेवेन चन्द्रालोके -

'निर्दोषालक्षणवती सरीतिर्गुणभूषिता । 

सालङ्काररसानेकवृत्तिर्वाक् काव्यनामभाक् ।'

चण्डीदाशः ब्रूते -

7. 'आस्वादजीवातु पदसन्दर्भः काव्यम् ।' 

८. स्वाभिमतं काव्यलक्षणं ब्रूते विश्वनाथः - 'वाक्यं रसात्मकं काव्यम् ।' 

9. पण्डितराजजगन्नाथेन -

'रमणीयार्थप्रतिपादकः शब्दः काव्यम् ।'

इत्येवं प्रकारेण काव्यलक्षणानि कृतानि । 

अथ ये च शब्दे चार्थे चोभयत्र काव्यत्वमभ्युपगच्छन्ति, तेषां नामानि प्रदर्श्यन्ते । तत्र भामहोद्भटरुद्रटानन्दवर्धनाचार्याः ‘शब्दाथों सहितौ काव्यम्' इति । तत्र -

१. काव्यालङ्कारे भामहेन  _ 'शब्दार्थों सहितौ काव्यम् ।' 

२. काव्यालङ्कारसूत्रवृत्तौ वामनेन  'काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्तते । भक्त्या तु शब्दार्थ वचनमात्रोऽत्र गृह्यते ।' 

३. रुद्रटाचार्येण काव्यालङ्कारे  'शब्दार्थों काव्यम् ।'

४. काव्यानुशासने वाग्भटाचार्येण  'शब्दाथों निर्दोषो सगुणौ प्रायः सालङ्कारौ काव्यम् ।' 

५. कुन्तकेन वक्रोक्तिजीविते  'शब्दाथों सहितौ वक्रकविव्यापारशालिनी।  बन्धे व्यवस्थितौ काव्यं तद्विदाहलादकारिणि ।'

६. वाग्भटेद्वितीयो ब्रूते -

'साधुशब्दार्थसन्दर्भ गुणालङ्कारभूषितम् । 

स्फुटरीतिरसोपेतं काव्यं कुर्वीत कीर्तये ॥'

७. काव्यानुशासने हेमचन्द्रेण  'अदोषौ सगुणौ सालङ्कारौ च शब्दाथों काव्यम् ।' 

८. आनन्दवर्धनाचार्येण ध्वन्यालोके -

'सहृदयहृदयाह्लादि शब्दार्थमयत्वमेव काव्यलक्षणम् ।' 

९. विद्यानाथेन प्रतापरुद्रीये -

'गुणालङ्कारसहितौ शब्दाथों दोषवर्जितो।

गद्यपद्योभयमयं काव्यं काव्यविदो विदुः ॥'

१०. विद्याधरेणकावल्याम्  'शब्दाथों वपुरस्य तत्र विबुधैरात्माभिधायि ध्वनिः ।'

११. अच्युतरायेण साहित्यसारे -

'तत्र निर्दोषशब्दार्थं गुणवत्त्वे सति स्फुटम् ।

गद्यादिबन्धरूपत्वं काव्यसामान्यलक्षणम् ॥' 

१२. क्षेमेन्द्रेण कविकण्ठाभरणे -

'काव्यं विशिष्टशब्दार्थसाहित्यसदलङ्कृतिः ।'

१३. न्यायवागीशेनालङ्कारचन्द्रिकायाम्-- 

'गुणालङ्कारसंयुक्तौ शब्दाौं रसभावगौ । 

नित्यदोषे विनिर्मुक्तौ काव्यमित्यभिधीयते ॥'

१४. मम्मटादिमतं तु  'तददोषौ शब्दार्थों सगुणावनलङ्कृती पुनः क्वाऽपि ।'

इत्थं चोभयमतप्रदर्शने कतरद् युक्तमिति विचिकित्सायाम्-शब्दार्थों काव्यमित्येव निर्दुष्टमिति समालोचयन्ति । तथा हि चमत्कृतिजनकीभूतं वर्णनं काव्यमित्युक्ते चमत्कृतिजनकतावच्छेदकरूपस्येष्टतावच्छेदकस्याज्ञानम् । तत्र प्रवृत्त्ययोगात् । प्रागुक्तस्य वर्णनात्मकलक्ष्यतावच्छेदकस्य शब्दार्थोभयाश्रित त्वात् । कविप्रौढोक्तिकल्पितत्वस्य चार्थ एव सद्भावात् । अर्थचित्रस्याभ्यहि तत्वाच्च । अर्थविशिष्टशब्दस्यैव तत्त्वानौचित्यादुभयोपादानम् । तत्र च 'नामरूपे' इत्यादौ वेदे, 'वागर्थाविव' इत्यादौ लौकिके प्रयोगे शब्दप्राथम्यात् शब्दोद्भव त्वाच्चार्थस्य शब्दप्राथम्यम् । तत्र शब्दप्रयोजना वैचित्र्ये शब्द: काव्यम् । अर्थ प्रयोजनावैचित्र्येऽर्थः । उभयवैचित्र्ये द्वयमपि । न तु काव्यत्वमुभयपर्याप्तम् । योजनारूपस्यालङ्कारादि वैशिष्ट्यरूपस्य वा व्यासज्यवृत्तित्वायोगात् । ‘एको न द्वौ' इतिवल्लोकवाक्यं न काव्यमिति व्यवहारापत्तेश्च । उभयवैचित्र्ये काव्यद्वय मिति व्यवहारः स्यादिति चेन्न । विजातीयैकचमत्कृतिजनकत्वेनैकत्वस्यैव व्यव हारात् । 'काव्यमुच्चैः पठ्यते' 'काव्यं श्रुतमर्थो न ज्ञातः' इत्यादिव्यवहारश्च शब्दांशेनोपपन्न एव । अर्थमात्रवैचित्र्ये तु काव्यशब्दस्य शब्दमात्रपरतयोपन्नः । 'काव्यं बुद्धम्' इत्यादि व्यवहारश्चार्थस्य काव्यत्वसाधको ज्ञेय इत्यलं विस्तरेण । 

पण्डितराजजगन्नाथमते गुणाश्रयतयाऽपीत्यधिकम्, गुणानां शब्दार्थवृत्तित्व स्याप्यङ्गीकारात् । अर्थपदेन शब्दार्थयोरुभयोः संग्रहात् तत्प्रतिपादकः शब्दः काव्यमिति । यत्त्वनेन 'रमणीयार्थः प्रतिपादकः शब्दः काव्यमिति काव्यलक्षणं कृत्वा उक्तम्, 'यत्तु प्राञ्चः काव्यप्रकाशकृदादयः शब्दार्थों काव्यमित्याहुस्तत्र विचार्यते ।.....अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोासक्तं प्रत्येक पर्याप्तं वा । नाद्यः । एको न द्वाविति व्यवहारस्यैव श्लोकवाक्यं न काव्यमिति व्यवहारस्यापत्तेः । न द्वितीयः । एकस्मिन पद्ये काव्यद्वयव्यवहारापत्तेः । तस्मा द्वेदपुराणशास्त्रलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता' इति तत्तु आग्रहमूलकमेव अतएव तट्टीकायां मर्मप्रकाशाख्यायाम् 'उचिता, इति प्रतीकमुपादाय नागोजीभट्टाः प्राहुः । 'आस्वाद्य व्यञ्जकत्वस्योभयत्राप्यविशेषात् चमत्कारिबोधजनकज्ञान विषयतावच्छेदकधर्मवत्त्वरूपस्यानुपहसनीयकाव्यलक्षणस्य प्रकाशाद्युक्तलक्ष्यतावच्छेदकस्योभयवृत्तित्वाच्च काव्यं पठितं, श्रुतं काव्यम्, बुद्धं काव्यमित्युभयविधव्यवहारदर्शनाच्च काव्यपदप्रवृत्तिनिमित्ते व्यासज्यवृत्तिः । अतएव वेदत्वादेरुभयवृत्तित्वप्रतिपादक: 'तदधीते तद्वेद' ( ४।२।५९ ) इति पाणिनि सूत्रस्थो पतञ्जलिकृत महाभाष्यमपि सङ्गच्छते । लक्षणयान्यतरस्मिन्नपि तत्त्वात् - ‘एको न द्वौ' इतिवत् न तदापत्तिः । तेनानुपहसनीयकाव्यलक्षणं काव्यप्रकाशोक्तं निर्बाधमिति ।

अदोषाविति

काव्यत्वविघटका ये च्युतसंस्कारादयः प्रबलदोषास्तद्रहितो नरसिंहठक्कु रास्तु-'ननु दोषसामान्यभावस्य लक्षणप्रवेशे निःशेषेत्यादावुत्तमत्वेनोदाहृते ऽविमृष्टविधेयांशेऽव्याप्तिः । पण्डितकेदारनाथस्तु-यत्र दोषोद्भवे पदान्तर निवेशेन निर्दोषतां नयन्ति लक्षणं व्याख्यातारः, परं मूलगृहीतपदनिस्सारणेनैवा तिव्याप्तिवारणं विधेयं व्याख्यातृभिरित्यस्य प्रधानं निदर्शनमयं ग्रन्थः । यथा मम्मटमहत्त्वमुग्धोऽपि उद्धरिष्यमाणो मर्मप्रकाशः, काव्यप्रकाशोक्तं लक्षणमनु पहसनीयस्य काव्यस्य निर्दुष्टमिति व्याख्याति ।

सगुणाविति

माधुयोजः प्रसादाख्या ये गुणास्तत्सहितावित्यर्थः । गुणानां रसैकनिष्ठत्वे ऽपि परम्परया तदभिव्यञ्जकशब्दार्थनिष्ठत्वमिति भावः ।

अनलङ्कृतीति 

इदं न लक्षणघटकं किन्तु सालङ्काराविति विशेषणं ग्राहयति । एतच्चान लङ्कृती इति नमोस्फुटतारूपे पदार्थता वल्लभ्यमिति । 'अनलकृती पुनः क्वाऽपि' इत्यनेनाप्यस्फूटालङ्कारस्य क्वचिदेव काव्यत्वं यत्र रसादिः स्फूटः, न तु सर्वत्रेत्येतदेव प्रतिपाद्यते । तस्मात्सालङ्कारत्वमानं न विशेषणं किन्तु स्फुटालङ्कारसामान्यतरत्वम् । न चैवमपि रसवत्यनलङ्कारे काव्यत्वप्रसङ्गो दोषाय । इष्टापत्तेः । यथोदाहृते 'मुनिर्जयति' इत्यादौ । यदि तु श्रद्धाजाड्येन तत्रापि न काव्यत्वक्षमा तदा सालङ्कारत्वे सतीत्यपि पूरणीयमिति प्रदीपकारः । तेन हि गुणालङ्कारादिनिष्ठप्रकारतानिरूपितविशेष्यताकाव्ये विशेष्यतावच्छेदकं काव्यत्वमिति । 

काव्यभेदविचारः

तत्र काव्यस्वरूपप्रतिपादनानन्तरं काव्यं कतिविधमिति जिज्ञासायां काव्य भेदमाहुराचार्याः । प्रथम काव्यलक्षणस्य निरूपणं कृत्वा भेदानाहुः । तत्र सजातीयविजातीयस्त्रगतभेदेन भेदस्तावत् त्रिविधः । यथा-घटात् घटस्य भेदः सजातीयः, पटात् घटस्य भेदो विजातीयः, एकस्यैव घटस्य पुनः कपालकदेशा दिभ्यः स्वगतो भेदः । तत्र वक्ष्यमाणः काव्यभेदः सजातीयांदिषु मध्ये कतमः ? न तावत् स्वगतः-चमत्कारापरपर्यायस्य रसपदवाच्यस्य काव्यत्वस्याखण्डै करसत्वे सावयिवत्वासम्भवात् । न चापि द्वितीयः अपारे काव्यसंसारे काव्य त्वं विना प्रतीत्यसम्भवात् । न वाप्याद्यः-काव्यत्वस्य सावच्छिन्नत्वाभावात् । न हि काव्यभेदो वास्तविकः किन्त्वौपाधिकः, स च जपाकुसुमसम्पृक्तलौहित्य स्फटिकमिव जातिव्यक्त्यादिः शरीरस्येव देश-काल-वक्तृ-तात्पर्य-संयोग-वियो गादिः शब्दार्थयोः, तत्समर्पितः पुनः रसस्येति लापयन्ति । तथापि काव्यस्वरूपं तदथस्याधारञ्च गृहीत्वा तत्काव्यभेदानाहुराचार्याः । भरत-भामह-दण्डि-वामन प्रभृतिभिराचार्यैः काव्यस्वरूपस्याधारं गृहीत्वा विशदीकृतं भेदादिकं स्वप्रबन्धे ष्विति । प्रथमं ध्वनिगुणीभूतव्यङ्गयत्वेन काव्यस्य भेदद्वयमुक्त्वा पुनर्दृश्यश्रव्य त्वेन भेदद्वयमाह महापात्रविश्वनाथः -

'दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् ।'

पुनः दृश्य-श्रव्यकाव्यानामनेकभेद-प्रभेदाः भवन्ति । तत्र दृश्यकाव्यस्या भिनेयत्वात् रूपाणामारोपाच्च तदृश्यकाव्यं रूपकमुच्यते । उक्तञ्च  मन्दारमन्दे -

'यथा मुखादौ पद्मादेरारोपो रूपकं मतम् । 

तथैव नायकारोपो नटे रूपकमुच्यते ॥'

रूपकमपि द्विविधम्भवति-रूपकमुपरूपकञ्चेति । रूपकभेदस्य प्रथमकथनं भरतेन कृतम् । दशधा रूपकस्य नाटिकायाश्च लक्षणमपि तेन कृतम् । तद्यथा -

नाटकं सप्रकरणमकं व्यायोग एव च

भाणः समवकारश्च वीथी प्रहसनं डिमः । 

इहामृगश्च विज्ञेयो दशमो नाटयलक्षणे ।

दृश्यकाव्यस्य प्राचीनता 

काव्यशास्त्रे दृश्यकाव्यानामुदयः प्राचीनकाल एवाजायत । वैदिकयुगे दृश्यकाव्यानामस्तित्वं प्रमाणितम् । ऋग्वेदीयसूक्तः प्रतीयते यत्तदा दृश्यकाव्य मप्रथत । सोमविक्रयसमये क्रियमाणस्याभिनयस्य वर्णनं तत्काले दृश्यकाव्यस्य सद्भावं गमयति । संहिताब्राह्मणग्रन्थयोः शैलूषशब्दोपलब्धिरपि वैदिकयुगे दृश्य काव्यस्यास्तित्वं प्रमाणयति । महाव्रते वृष्टेः पशुसमृद्धेश्वोपलब्धो सत्यां वह्नः समन्ततः कुमारिकाणां नृत्यस्य वर्णनं दृश्यते । ऋग्वेदगताः यमयमीसंवादा तदानीं नाटकस्य प्राचीनतामुपख्यापयति । रामायणे 'शैलुष' नट-नर्तकप्रभृतीनां दृश्यकाव्याङ्गानामुल्लेखो विद्यते । 'साँची' 'भरहुत' स्थाने प्राप्तासु मूर्तिषु  कथकानां समूहस्य मूर्तयोऽप्यलभ्यन्त यासु तच्चेष्टाभिरभिनयः प्रकाश्यते । पाणिनिप्रणीतायामष्टाध्याय्याम् ‘पराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः' ( ४।३। ११० ), 'कर्मन्दकृशाश्वादिनिः' ( ४ । ३ । १११ ) इति सूत्रद्वयमपि दृश्यते । तदेवमुपरितनैरुल्लेखैः प्रमाणितो भवति यद्वैदिककालादारभ्याद्यतनपर्यन्तमत्र दृश्यकाव्यस्य प्रचारोऽविच्छिन्नप्रवाह एवाभूत् ।

दृश्यकाव्यभेदाः 

(अ) रूपकाणि 

'नाटकमथप्रकरणं भाणव्यायोगसमवकारडिमाः ।  ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश । नाटकरूपकयोर्मध्ये इदमेव भेदकं प्राचीनाः निर्णयन्ति यत् नाटके ख्यातं वृत्तं, रूपके कविकल्पितं तत् । 

१. नाटकम्-पञ्चसन्धि (पञ्च अर्थप्रकृति+पञ्च कार्यावस्था) समन्वितं ख्यातवृत्तं धीरोदात्तराजर्षिनायकवत् वीर अथवा शृङ्गार-रसपूर्ण नाटक मित्युच्यते । 

२. प्रकरणम्-प्रकर्षेण क्रियते कल्प्यते नेताफलं वस्तु वा व्यस्तसमस्त तयाऽत्रेति प्रकरणं तस्मिन् प्रकरणे वर्णनीयनायकचरितं मर्त्यलोकसम्भव योग्यम् न तु मर्त्यलोकासम्भवदिव्ययोग्यम्, शृङ्गारो रसोऽङ्गीमुख्यो भवेत् तद्यथा -

'यत्र कविरात्मबुद्धया वस्तुशरीरं नायकं चैव । 

औत्पत्तिकं प्रकुरुते प्रकरणमिति तबुधैर्जेयम् ॥'

३. भाणः-नाटकवत भाणस्यापि स्थानं संस्कृतसाहित्ये श्रेष्ठतरमस्ति । अस्मिन् भाणे धूर्तस्य नायकस्य चरितम्, एकैवाङ्कः, हास्य रसस्य प्राधान्यं, सौभाग्य-शौर्यादिवर्णनया शृङ्गारवीररस सूचना, भारतीवृत्तिश्च भवति । 

४. व्यायोगः-व्यायोगे लोकप्रसिद्धमितिवृत्तम्, नारीपात्रविरहः, अनेक पुरुषपात्रता, गर्भविमर्शसन्ध्यभावः, कैशिकीवृत्तिः, सुविख्यातश्च नायको भवति । हास्यशृङ्गारशान्तभिन्नाः रसाः । 

५. समवकारः-समवकीर्यन्ते बहवो रसा यत्रेति व्युत्पत्त्या समवकारे सर्वरसावस्थानं सूच्यते । अस्य वृत्तं देवासुराश्रयं ख्यातञ्चेति । द्वादशनायकाः, वैदिकानि गायत्र्यादीनि च्छन्दांसि, वीरः प्रधानो प्रायः रसो भवति । 

६. डिम:-'डिमः सङ्घाते' इति नायकसङ्गातव्यापारात्मकत्वाड्डिम इति संज्ञेति धनिकः । अस्येतिवृत्तस्तु विख्यातो भवति । चतुरङ्कः, षोडशभिरुद्धतनाय कैरुपेतः शान्त-हास्य-शृङ्गारभिन्न रसैरुपस्कृतः, कैशिक्यतिरिक्तवृत्तिशाली च भवति डिमः। 

7. ईहामृगः–अस्मिनीहामृगे चत्वारोऽङ्कास्त्रयः सन्धयः संघर्षसंकलं कथानकं च भवन्ति । मृगवदलभ्यायां नायिकायामभिलाषस्य वर्णनीयतया इहामृग इति नामकरणम् । अस्य वृत्तं ख्यातं कल्पितकिञ्चिदंशञ्च भवति । 

८. वीथी-वीथ्यः कथा भाणसमानैव भवति, एकोऽङ्कः, शृङ्गारोऽनुद्भिन्न रूपो रसः, कैशिकी वृत्तिश्च भवति । 

9. अङ्क –अस्मिन्नके करुणरसप्रधानः पुराणेतिहासप्रसिद्धमितिवृत्तम् वास्तवयुद्धाभावेऽपि वाग्युद्धमकेऽपेक्ष्यते ।। 

१०. प्रहसनम्-प्रहसने भाणवत् सन्ध्यादयः, निन्दनीयत्वेन वर्ण्यमानानां कल्पितं वृत्तम्, विष्कम्भकप्रवेशकराहित्यम्, हास्यरसप्राधान्यश्च भवति । 

(आ) उपरूपकाणि 

नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् ।

प्रस्थानोल्लाप्यकाव्यानि प्रेसणं रासकं तथा ।

संलापकं श्रीगदितं शिल्पकञ्च विलासिका।।

दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥

अष्टादश प्राहरुपरूपकाणि मनीषिणः । 

विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम् ॥

१. नाटिका-दशरूपके प्रकरणनाटकयोमिलितं रूपं नाटिकेत्युक्तम् । विख्यातवंशे सत्यपि नायके तस्य वृत्तं कल्पितमुपादीयते । 

२. त्रोटकम्-दिव्यमानुषसंश्रयम्, पञ्चाङ्कतोऽन्यूनं, प्रत्यकं सविदूषकञ्च  भवति । 

३. गोष्ठी-पञ्च षड्वा नारीपात्रसमन्विता, नवभिर्दशभिर्वा प्राकृतपात्र पंक्ता, एकाङ्क विनिर्मिता च भवति । 

४. सट्टकम्-प्राकृताशेषपाटया नाटिका सट्टकं भवति ।

५. नाट्यरासकम् -हास्यरसं बहुज्ञेयं च भवति । 

६. प्रस्थानकम्-हीनो नायकः, दासी नायिका, सुरापानं विषयः, सर्वमिदं प्रस्थानके भवति । 

७. उल्लाप्यम् -- एकाङ्कम्, उदात्तनायकम्, संग्रामरोदनगीतादि बहुलं च भवति । 

८. काव्यम्-एकाङ्क, स्त्रीनायकं, आरभटीहीनञ्च काव्यमुपरूपकम् ।

9. प्रेक्षणम्-हीननायकमसूत्रधारञ्चेति । 

१०. रासकम्-पञ्चपात्रयुतम्, ख्यातनायिकं, विभाषाबहुलभाषा, मूर्खनाय कञ्चेति । 

११. संलापकम्-चतुरङ्कम्, पाखण्डनायकम्, पुरसंरोधसंग्रामवर्णनपरम् । 

१२. श्रीगदितम्-वृत्तनायकौ प्रख्यातौ, नायिकाऽपि प्रसिद्धा, श्रीशब्दयुतं पद्यं भवति । 

१३. शिल्पकम्-चतुरङ्कम्, ब्राह्मणनायकम्, श्मसानवर्णनयुतं भवति ।

१४. विलासिका-एकाङ्का, शृङ्गारबहुला च भवति ।

१५. दुमल्लिका-चतुरङ्का, कैशिकीवृत्तिशालिनी च भवति । 

१६. प्रकरणिका–नाटिकेव प्रकरणी सार्थवाहादिनायिका, समानवंशजा यत्र नेतुर्नायिकेति भवति । 

१७. हल्लीशः-एक एवाङ्गः, सप्त वा दश वा स्त्रियः ।

१८. भणिका-भाणसमा । एवं परिचितानि रूपकाप्युपरूपकाणि च भवन्ति । 

मुख्यतः काव्यस्य भेदद्वयमेव प्रथते। दृश्यं श्रव्यञ्चेति । दृश्यं वर्णितम् । श्रोतव्यमात्रमेव श्रव्यकाव्यम्-गद्यकाव्यं पद्यकाव्यञ्चेति–'तत्पद्यगद्यमयं द्विधा।'

स्वीययाऽर्थप्रधानतया गद्यकाव्यं गौरवशालि, यतो हि पद्यकाव्यं कियतां. शेन रागद्वाराऽपि श्रोतृजनमनांस्याकर्षयति । गद्यकाव्यं तु स्वीयेनार्थ गौरवेणैव श्रोतृजनहृदयान्यावर्जयेत् । गद्यकाव्यगतमर्थगौरवं पद्यकाव्यशास्त्रगतमर्थगौरव पुरस्कृतं रागमयत्वं चेत्युभयं मिलितं सदधिकं चमत्कारं जनयेदिति भावनैव चम्पूकाव्यस्योत्पत्तौ करणत्वेन सम्भाव्यते । 

प्रायेणानेन प्रकारेणालङ्कारसमीक्षाशास्त्रे शैली-अर्थ-बन्धानां दृष्ट्या काव्यानां भेद-प्रभेदान् कल्पयन्त्यलङ्कारिकाः । तत्र शैलीदृष्ट्या-गद्यपद्य-मिश्रा त्मकास्त्रयो भेदास्सन्ति । अर्थदृष्टया-उत्तममध्यमाधमास्त्रयो भेदाः भवन्ति मम्मटाचार्यादिमतेन । एतानेव भेदान् कतिपया आलङ्कारिकाः चित्र-गुणीभूत व्यङ्गध्वनिकाव्यत्वेन च वर्णयन्ति । कतिपया आलङ्कारिकाः काव्ये वस्तु-विष याणाञ्चाधारं गृहीत्वा प्रबन्ध-मुक्तक-खण्डकाव्यपदेनापि भेदाः प्रदर्शयन्ति । पूर्वोक्तदृश्य-श्रव्यात्मककाव्यभेदौ तु ऐन्द्रियिकाधारं गृहीत्वा एव प्रतिपादिती स्तः । तत्रापि गद्यपद्यमयं भेदद्वयं भवति । . बृत्तबन्धोज्झितगद्यकाव्योऽपि द्विविधम्भवति-कथा, आख्यायिका चेति । अग्निपुराणे गद्यकाव्यस्य पञ्चभेदाः  सन्ति-आख्यायिका, कथा, खण्डकथा, परिकथा, कथनिकाश्चेति ।

ऐतिहासिकविकासदृष्टया पद्यसाहित्यमिव गद्यसाहित्यस्यापि प्रचुरप्रयोगः वेदकालेऽपि आसीत् । संहिताग्रन्थेषु गद्यस्य भूयसी मात्राऽवाप्यते संहिताया भाषांशतो व्याकरणलक्षणच्युता, तदपेक्षया ब्राह्मणानां भाषा लक्षणशालिनी स्पष्टा चोपनिषदां भाषा तु व्याकरणसम्मता स्फुटतमा चेति क्रमिकविकासे पर्याप्तं निदर्शनम् । साहित्यगद्यं तु सर्वप्रथमं शिलालेखेषु प्राप्यते। 

पद्यमयं हि ग्रन्थं पाठकाः सुखमभ्यस्यन्ति, कण्ठे स्थापयन्ति चेति पद्यमयो ग्रन्थस्ताललयाश्रिततया रोचकः प्रचारोपयुक्तश्च भवतीति धिया च भूयसा प्रायुज्यत प्राचीनशास्त्रीयग्रन्थेष्वथापि गद्यस्य तत्रापि समावेशो दुरपह्नव एवेति । 

यत्र भाषान्तरगद्यानि सरलभावेनार्थप्रत्ययसमर्थानि विस्तृतरूपाणि च भवन्ति तत्र संस्कृतगद्यं चमत्कारकारिवस्तुव्यञ्जनविधया लघुकायानि भवन्ति संस्कृतगद्यस्य लघुत्वोपबृहित समासकृतार्थाधिक्यपूर्णत्वं च भाषान्तरगी र्दुलभम् । 

ओजः समासभूयस्त्वमेतद् गद्यस्य जीवितम् ।'

इति दण्डीप्रतिपादितदिशा सजीवगद्यं संस्कृतभाषानिबद्धमेव सम्भवति । 

संस्कृते कथाया द्वौ प्रकारो-उपदेशात्मककथा, मनोरञ्जककथा च । प्रथमा पशुपक्षिकथा, द्वितीया मनोरञ्जनमात्रफलदा मानवकथा । कथायां कथानकं सरसमुपाख्यानं गोरेव विरचितं भवेत् कथायां क्वचिद्भागे आर्या छन्दो निबद्धं पद्यं भवेत् । क्वचिद्भागे वक्त्रापवक्त्रके छन्दोविशेषौ निबद्ध पद्यं भवेत् । तत्रादौ पद्यैः देवतादीनां प्रणामः, तथा खलसज्जनवृत्तकीर्तनं भवेत् । तथा सत्येव कादम्बर्यां उदाहरणदानं सङ्गच्छते इति । तथा च साहित्य दर्पणे  -

कथायां सरसं वस्तु गद्यैरेव विनिर्मितम् ।

क्वचिदत्र भवेदार्या क्वचिद्वक्त्रापवक्त्रके ।

आदी पद्यैनमस्कारः खलादेर्वृत्तकीर्तनम् । 

तेन हि बाणस्य कादम्बरी कथाग्रन्थः । यतो हि स्वयमेव कविना -

'धिया निबद्धेयमतिद्वयी कथा'

इति कादम्बर्याः कथाग्रन्थत्वमुक्तम् । अनेनैव प्रकारेण -

'करोम्याख्यायिकाम्भोधौ जिह्वाप्लवनचापलम्'

इति हर्षचरितोक्तदिशा हर्षचरितस्याख्यायिका ग्रन्थरूपत्वं प्रतीतम् । नेदं साधारणं चरितपुस्तकमपि तु सरसं काव्यमिति वर्णनेषु सजीवतामानेतुमत्र प्रयासः कृतो वेद्यः । 

'आख्यायिका कथावत् स्यात्'

इत्युक्त्या आख्यायिकायामपि यथावत् पद्यनमस्कारखलवृत्तकीर्तनसरस वस्तुवर्णनञ्च भवेत् । कवेः स्वकुलस्यानुकीर्तनश्च स्यात् । 

यत्र छन्दसा बद्धानि पदानि सन्ति तथोक्तं काव्यं पद्यकाव्यमिति उच्यते । तत्र पद्यकाव्यमपि द्विविधं भवति

( १ ) अनिबद्धकाव्यम्,

( २ ) प्रबन्धकाव्य ञ्चेति ।

अनिबद्धकाव्ये कस्यापि सुनियोजितकथाबन्धस्य आवश्यकता न भवति । तेन पद्येन समाप्तिबोधकक्रियान्वये-पद्यान्तरनिरपेक्षेण एकेन मुक्तकम् इत्यर्थः । तच्चैकेन द्वाभ्यां वा समाप्तिबोधकक्रियान्वये परस्परैकवाक्यतापन्नाभ्यां पद्याभ्यां युग्मकम् । एवं च त्रिभिः समाप्तिबोधक क्रियान्वये परस्परैकवाक्यता पन्नः पद्यैः सन्दानं सम्मेलनमस्य सञ्जातमिति सान्दानतिकमिष्यते सान्दानति कस्यैव चान्यत्र विशेषकमिति तिलकमिति च संज्ञान्तरद्वयमुपलभ्यते । चतुभिः समाप्तिबोधकक्रियान्वये परस्परैकवाक्यतापन्नः पद्यैः कलापकं मतम् । पञ्चभिः समाप्तिबोधक क्रियान्वये परस्परैकवाक्यतापन्नः पद्यैः कुलकं मतम् । पञ्चभिरिति तदन्यूनसंख्या व्यवच्छेदार्थम् । तेन शिशुपालवधादौ दशादिभिः पद्य: कुलकं सङ्गच्छत इति । तदुक्तम् -

द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैविशेषकम् । 

कलापकं चतुभिः स्यात् तदूर्ध्वं कुलकं स्मृतम् ॥

यस्मिन् काव्ये सुनियोजितस्य कस्यापि दीर्घकथायाः समावेशो भवति तदेव प्रबन्धकाव्यमुच्यते । प्रबन्धकाव्यमपि द्विविधं भवति–महाकाव्यम्, खण्डकाव्य ञ्चेति । तत्र सगैरवान्तरार्थवर्णनै रुपलक्षितो बन्धः रसवत्पद्यकदम्बविन्यासो यत्र भवति तदेव महाकाव्यम् । महाकाव्यमपि प्रायश्चतुर्धा भवति । अत्र विशेषः -

'शास्त्रं काव्यं शास्त्रकाव्यं काव्यशास्त्रं च भेदतः । 

चतुःप्रकारः प्रसरः सतां सारस्वतो मतः ॥'

महाकाव्यस्वरूपस्य विस्तृतव्याख्या भामह-दण्डी-रुद्रट-विश्वनाथप्रभृतिभिरा चार्यैः कृताः । मूलतः संस्कृतमहाकाव्यानि पुराणं रामायणं भारतञ्च बीजभावेना श्रयन्ति । संस्कृतमहाकाव्यानां विकासस्यालोचनायां प्रक्रान्तायामिदं न विस्मर्त्तव्यम्, यदत्र साहित्ये प्रथमं रसं बन्धुमध्यवसायः प्रवर्ततेस्म । वाल्मी किना हि काव्यानामादिकाव्ये स्वरामायणे करुणरसस्य या धारा प्रवाहिता सा सततं स्यन्दमाना एव स्थास्यन्ति । वर्णनप्रवृत्तावनुदिनमुपचीयमानायामपि कालिदासप्रभृतयो महाकवयो रसबन्धायैव व्याप्रियमाणाः प्राप्यन्ते । संस्कृत महाकाव्यधाराया रामायणादि हिमवत्प्रसूतत्वेऽपि प्रथमे काव्यग्रन्था कतम इति चिन्तायां श्रूयमाण नामधेयाः पाणिनिवररुचिप्रभृतयोः यानि काव्यानि रचितवन्तः त एव ग्रन्थास्तथेति प्रतिपत्तुं शक्यन्ते । यद्यपि आलोचका वैया करणस्य पाणिनेः काव्यप्रणेतृत्वं प्रति सन्दिहन्ति, तथापि भूयांसो विद्वांसो वैयाकरणप्रवरं पाणिनिमेव काव्यप्रणेतारमाहः । वररुचे: काव्यं यद्यपि नोप लभ्यते तथापि पतञ्जलिप्रामाण्येन भ्राजाख्यश्लोकरचयितृत्वं वररुचेः प्रामाण्यते । 

ऐतिहासिककाव्यरचनाप्रसङ्गे पौराणिकमाधारमादाय बहूनि महाकाव्यानि रघुवंशादीनि प्रणीतानि । किञ्चेतिहासाधारेण प्रक्रान्तरचनाष्वपि भूयसी ऐतिहासिकतां विहाय काव्यात्मकतैव पुरस्कृता। अत ऐतिहासिककाव्यानां सङ्ख्याऽङ्गुलिगणनीयवास्ति । यथा वाक्पतिराजस्य 'गउडवहो' बिह्मणस्य विक्रमाङ्कदेवचरितमित्यादिः । 

व्याकरणसम्बन्धिपदप्रयोगनियमानां ज्ञानायान्यशास्त्रीयज्ञानसौलभ्याय च यानि काव्यानि रचितानि तानि शास्त्रकाव्यान्युच्यन्ते । शास्त्रकाव्येषु भट्टिस्वा मिनो 'भट्टिकाव्यं' प्रसिद्धतरम् ।  यथा शास्त्रकाव्यानि शास्त्रीयतत्त्वप्रख्यापनबुद्धया विरचितानि, तथैव प्रधानतया देवतानां कीत्ति गातुं यानि काव्यानि रचितानि तानि देवकाव्या न्यभिधीयते । यथा-

नीलकण्ठदीक्षितस्य 'शिवलीलार्णवः' ।

खण्डकाव्यम् - पूर्वाभिहितस्य महाकाव्यस्यैकदेशानुसारि यत्किञ्चिल्लक्षण हीनं संस्कृतपद्यनिर्मितकाव्यं खण्डकाव्यं भवेत् । अस्य काव्यप्रभेदस्येतिहासः कदा आरभते इति चिन्तायाम् ऋग्वेदकाल एव खण्डकाव्यस्य बीजमुप्तमिति सविश्वासं वक्तुं शक्यते । अग्रवालमहोदयाः खण्डकाव्यस्य पञ्चप्रकारकतामा तिष्ठन्ते -

१. ऋग्वेदकालिकखण्डकाव्यम् । अत्र खण्डकाव्यानुकारैः सूक्तैऋषयो ऽव्याजमात्मभावान् व्यञ्जयामासुः, यथोषःसूक्तादिषु । 

२. भक्तिरसमयं खण्डकाव्यम् । यस्य प्रभेदस्य निदर्शनानि बौद्धग्रन्थेषु उपनिषत्सु च प्राप्यन्ते ।

३. ऐतिहासिकं खण्डकाव्यम् । अस्य प्रभेदस्योदाहरणं रामायणे भारते वा कृतं प्रकृतिवर्णनं बोध्यम् ।

४. रूपकान्तर्गतं खण्डकाव्यम् । रूपकेषु यत्र तत्र पात्राणां वस्तुवर्णन पराणि प्रेमप्रकाशनपराणि वा पद्यानि एतदुदाहरणतया स्वीकत्तुं शक्यन्ते । 

५. उत्तरकालभवानां कवीनां शृङ्गारप्रधानं सङ्कीर्णं वा खण्डकाव्यम् ।

इदमेव खण्डकाव्यमत्याधुनिकाः गीतिकाव्यमपि व्यपदिशन्ति । मेघदूतर्तुसंहा रादि खण्डकाव्यानि सन्ति । 

विश्वनाथमतेन पद्यमयकाव्यस्येकोऽन्योऽपि भेदोऽस्ति कोषः । परस्परापेक्षा निरपेक्षकः श्लोकसमूहस्तु रत्नसदृशश्लोककदम्बधारणात् कोष इति कथ्यते । 

व्रज्याक्रमेण अकारादि हकारान्ताद्यक्ष रश्लोकसङ्घातक्रमेण रचित एव स कोषः अतिमनोरमः स्यात् । इदञ्च प्रशंसामात्रमेवेति बोध्यम् । तथा च व्रज्याघटित एकः प्रकारस्तदतिरिक्तो द्वितीयः इति द्विविधः कोष इति । तत्राद्यस्योदाहरण मार्यासप्तशत्यादयः । द्वितीयस्य सुभाषितावलिप्रभृतय इति । 

अर्थाधारमधिकृत्य काव्यस्य वर्गीकरणम्

आनन्दवर्धनाचार्यमतेन काव्याऽर्थप्रतीत्युपयोगिनःशब्दस्य वाच्यलक्ष्यार्थयोः न प्राधान्यम्, शरीररूपत्वात् । किन्तु सहृदयश्लाघ्योत्कर्षमात्रत्वेन परापेक्षया चमत्कारातिशयाधानाच्चात्मभूतः प्रतीयमानो योऽर्थः, स एव काव्यत्वव्यपदेश हेतुरणुप्राणकः प्रधानम् । श्लाघ्यो योऽयमर्थः स द्विविधः वाच्यः, प्रतीयमान । श्चेति । अनया दृष्ट्या काव्यस्य प्रायस्त्रयो भेदाः भवन्ति । तद्यथा-ध्वनि  काव्यम्, गुणीभूतव्यङ्गयकाव्यम्, चित्रकाव्यञ्चेति । 

ध्वनिकाव्यम् 

इदं काव्यम् अभिधावृत्तिप्रतिपाद्यादर्थात्, व्यञ्जनावृत्तिप्रतिपाद्येऽर्थेऽधिक चमत्कारजनके सति, उत्तमम् । तदेव ध्वनिपण्डितैः ध्वनिरित्युच्यते ।  'इदमुत्तममतिशायिनि व्यङ्गये वाच्याद् ध्वनिर्बुधैः कथितः ।'  -का० प्र० ११४ तदेवोत्तमं काव्यमपि कथ्यते । ध्वनिकाव्यगतभेदानां विस्तृतवर्णनं ध्वन्या लोक-काव्यप्रकाश-साहित्यदर्पणादिग्रन्थेषु द्रष्टव्यम् । 

गुणीभूतव्यङ्गयकाव्यम् 

यत्र व्यङ्ग्यार्थे वाच्यादनतिशायिनि अर्थात् वाच्यापेक्षयातिशयित चमत्कारानाधायके तु भवति तत्र तु मध्यमं काव्यं भवति  _ 'अतादृशगुणीभूतव्यङ्गयं व्यङ्गये तु मध्यमम् ।' -का० प्र० ११५ एतदेव काव्यं गुणीभूतव्यङ्गयकाव्यं कथ्यते । मम्मटाचार्येणास्य काव्यस्या ष्टभेदाः प्रपञ्चिताः । तद्यथा -

अगूढमपरस्याङ्गं वाच्यसिद्धयङ्गमस्फुटम् ॥

सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ।

व्यङ्गयमेवं गुणीभूतव्यङ्गयस्याष्टौ भिदः स्मृताः ॥ 

गुणीभूतव्यङ्गयस्य मध्यमकाव्यस्य प्रभेदान् दर्शयति 

१. अगूढम्-वाच्यापेक्षया चमत्कारित्वे नात्र व्यङ्गयस्य गुणीभावः । तच्च स्वत एवासुन्दरत्वेन सुन्दरत्वेऽपि, अगूढत्वादि विशेषणसप्तकेन चेति बोध्यम् । 

२. अपरस्याङ्गम्-अपरस्य वाक्यार्थीभूतस्य वाक्यतात्पर्यविषयितया प्रधानस्येति यावत् अङ्ग उपकारकं भवति । 

३. वाच्यसिद्धयङ्गम्-वाच्यार्थस्य यत्र विश्रान्तिस्तत्र निदानं यदधीना तदिति । 

४. अस्फुटम् - सहृदयैरपि झटिति असंवेद्यमिति यावत् । 

५. सन्दिग्धम–सन्दिग्धप्राधान्यं नाम सन्दिग्धम । वाच्यकृतं व्यङ्ग्यकृतं वेत्यनिश्चितं प्राधान्यं चमत्कारित्वं यस्य यत्र वा तत् । यद्वा-सन्दिग्धं वाच्य कृतो व्यङ्गयकृतो वा चमत्कार इति सन्देहः । 

६. तुल्यप्राधान्यम्-चमत्कारजनने वाच्यव्यङ्गययोः द्वयोरपि क्षमत्वेन यत्र तुल्यता भवति तत्र तुल्यप्राधान्यमस्ति । 

७. काक्वाक्षिप्तम्-काकुलनेर्विकारस्तयाक्षिप्तं झटिति प्रकाशितं यया काक्वा विना वाक्यार्थ एव नात्मानं लभते तया प्रकाश्यमिति । 

८. असुन्दरम् -चमत्कारजनने वाच्यमुखनिरीक्षकं यद्वा स्वभावादेव वाच्या पेक्षया चारु भवति । एवं भूतं व्यङ्गयं गुणीभूतव्यङ्गयं मध्यमकाव्यं भवति । 

चित्रकाव्यम् 

अव्यङ्गयं काव्यम्, अवरमधमं स्मृतम् । तदेव बुधश्चित्रमिति कथितम् । तच्च चित्रं द्विविधं शब्दचित्रं वाच्यचित्रं चेति -

'शब्दचित्रं वाच्यचित्रमव्यङ्गयं त्ववरं स्मृतम् ।'

(१) शब्दचित्रम्-किञ्चिच्छब्दालङ्कारभूषितं शब्दचित्रं भवति ।

( २ ) अर्थचित्रम्-अतः परं तद्भिन्नमर्थालङ्कारमण्डितमर्थचित्रं भवति ।

तद्यथा -

चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् ।

तत्र किञ्चित् शब्दचित्रं वाच्यचित्रमतः परम् ॥ 

पण्डितराजजगन्नाथस्याभिमतम् 

'तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा ।'

(१) पण्डितराजमतेन काव्यं चतुर्धेति भवति । चमत्कारिणो व्यङ्गयस्य सर्वथा प्राधान्ये प्रथममुत्तमोत्तमम् ।। 

(२) तादृशस्य व्यङ्गयस्य अप्राधान्ये द्वितीयमुत्तमं काव्यं भवति ।

( ३ ) वाच्यस्यैव चमत्कारित्वे तृतीयं मध्यमं काव्यं भवति ।

(४) वाचकस्यैव प्राधान्येन चमत्कारित्वे चतुर्थमधर्म काव्यमिति । 

प्राचीनाः रुद्रट-दण्डी-हेमचन्द्राद्याचार्याः भाषादृष्टयापि काव्यस्य कतिचन भेदाः वर्णयन्ति तदलमतिग्रन्थविस्तरेणेति । 

गुणनिरूपणम्

भरतमुनेर्मतम् 

प्रसिद्धालङ्कारिकग्रन्थे दोषनिरूपणानन्तरमेव गुणनिरूपणं दृश्यते तथाऽप्यत्र दोषनिरूपणस्य पूर्वतनैरेव गुणनिरूपणं क्रियते । भरतस्य नाट्यशास्त्रेऽधोलिखित रूपेण गुणानां दशभेदं पर्यवस्यति -

श्लेषः प्रसादः समता समाधिर्माधुर्यमोजः पदसौकुमार्यम् ।

अर्थस्य चाव्यक्तिरुदारता च कान्तिश्च काव्यार्थगुणा दशैते ।। 

एवञ्च माधुयौदार्यगुणनिरूपणं कृत्वा ओजगुणस्यापि स्वरूपमपि दर्शितम नेनाचार्यवरेण । तद्यथा -

समासवद्भिर्विविधैर्विचित्रश्च पदैर्युतम् ।

सा तु स्वरैरुदारैश्च तदोजः परिकीर्त्यते ॥

भरतस्य पश्चाद् भामहेनापि माधुयोजःप्रसादाख्यानां गुणत्रयाणां वर्णनं कृतम् । 

'माधुर्यमभिवाञ्छन्तः प्रसादञ्च सुमेधसः ।

.......... केचिदोजोऽभिधित्सन्तः .......॥ 

दण्डिनः मतम्

श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।

अर्थव्यक्तिरुदारत्वमोजःकान्ति-समाधयः ॥

इति वैदर्भमार्गस्य प्राणाः दश गुणाः स्मृताः ।

एषां विपर्ययः प्रायो दृश्यते काव्यवर्त्मनि ॥ 

अग्निपुराणे गुणानां विवेचना भिन्नरूपेणास्ति । अस्मिन् पुराणे शब्दार्थो भयरूपवर्गेषु विभक्ताः गुणाः सन्ति । तद्यथा शब्दगुणवर्गे-यौगिकी-सती उदारता-सौकुमार्य-गाम्भीर्य-लालित्य-श्लेषान्ताः सप्त शब्दगुणाः सन्ति । तथा माधुर्य-कोमलत्व-उदारता-प्रौढि-सामयिकत्व-संविधानान्ता षड्गुणाः अर्थगुणवर्गे सन्ति । उभयगुणवर्गे च प्रसाद-सौभाग्य-यथासंख्य-उदारता-पाक-रागान्ताः षड्गुणाः सन्ति । गुणविषयेऽग्निपुराणस्येदं कथनमस्ति  -

'यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणः ।' 

गुणानां संख्याविषये भोजराजस्य मन्तव्यः भिन्नमस्ति । भोजराजमते तु इलेष-प्रसाद-समता-माधुर्य-सुकुमारता-अर्षव्यक्तिकान्ति-उदारता-उदात्तता-ओज-औचित्य-प्रेयान्-सुशब्दता-समाधि-सूक्ष्मता-गाम्भीर्य-संक्षेपसम्मितता-भाविकत्व गति-रीति-उक्ति-प्रौढि-विस्तरान्ताश्चतुर्विंशतिगुणाः सन्ति । गुणानां संख्यास्व रूपयोः प्रतिपादने कुन्तकाचार्यस्य भिन्नप्रकारकं मतमस्ति । तन्मते-काव्यस्य त्रयो मार्गाः सन्ति । सुकुमार-विचित्र-मध्यमाख्याः । एतत्त्रयाणां मार्गाणां द्वौ प्रकारको गुणौ स्तः-साधारण-विशिष्टौ च । औचित्यसौभाग्याख्यौ द्वौ साधारणगुणो स्तस्तथा माधुर्य प्रसाद-लावण्य-आभिजात्याख्याश्चतुर्गुणाः विशिष्टाः सन्ति । 

आचार्यवामनमतम् 

'काव्यशोभायाः कर्तारो धर्मा गुणाः ।' 

'तदतिशयहेतवस्त्वलङ्काराः ॥'

इति वचसा काव्यसौन्दर्यसाधकाः सुन्दरं काव्यव्यवहारस्य साधका वा गुणा इति गुणलक्षणं अस्ति । अलङ्कारयोगेन तु सुन्दरतमं काव्यमिति व्यवहारः । गुणमात्रेण सुन्दरमेतावदेव । शोभाशब्दस्वारस्येन तु सौन्दर्यमेवायाति । तच्च सौन्दर्य काव्यस्य चमत्कारितया यथाऽन्येषां मते तथा वामनमतेऽपि भवति । अस्याचार्यस्य मते रीतेः काव्यात्मतया 'शब्दाथों शरीरं काव्यस्येति' सिद्धमेव । अतएव तन्मते-शब्दवृत्तितया शब्दगुणाः, अर्थवृत्तितया अर्थगुणाः भवन्ति । शौर्यादयो गुणाः उत्कर्षसाधकाः यथा न भवन्ति तथा स्वरूपान्तर्भूता अपि इमे गुणाः न भवन्त्यपितु काव्यस्योत्कर्षसाधका एव भवन्ति । 

वामनाचार्यानुसारेण 'काव्यशोभायाः कर्त्तारो धर्माः गुणाः' 'तदतिशयहेत वस्त्वलङ्काराः' ये खलु शब्दार्थयोः धर्माः काव्यशोभां कुर्वन्ति ते गुणाः । ते च बोजः प्रसादादयः । न यमकोपमादयः । केवल्येव तेषामकाव्यशोभाकरत्वात् । मोजः प्रसादादीनान्तु केवलानामस्ति काव्यशोभाकरत्वमिति । तदतिशयहेत वस्त्वलङ्काराः । तस्याः काव्यशोभायाः अतिशयस्तदतिशयः, तस्य हेतवः । तु शब्दो व्यतिरेके । अलङ्काराश्च यमकोपमादयः । अत्र श्लोकौ

युवतेरिव रूपमङ्ग काव्यं स्वदते तदप्यतीव ।

विहितप्रणयं निरन्तराभिः सदलङ्करणविकल्पकल्पनाभिः । 

अपि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनबन्ध्यमङ्गनायाः ।

अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते।।' 

'पूर्वे नित्याः । पूर्वे गुणाः नित्याः । तेविना काव्यशोभानुपपत्तेः।' वामन मी पुणानां संख्या विशवस्ति । तेषु वक्ष पाब्दगुणाः सार्वगुणाय सन्ति । 

'प्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयोः शब्दगुणाः' 'त एवार्थगुणाः ।

गुणानां विभाजनं लक्षणञ्च निम्नरूपेण कृतमनेनाचार्येण -

शब्दगुणाः - गाढबन्धत्वमोजः, शैथिल्यं प्रसादः, मसृणत्वं श्लेषः, मार्गाभेदः समता, आरोहावरोहक्रमः समाधिः, पृथक्पदत्वं माधुर्यम्, अजरठत्वं सौकुमार्यम्, विकटत्वमुदारता, अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः, औज्ज्वल्यं समाधिः ।

अर्थगुणा: - अर्थस्य प्रौढिरोजः, अर्थवैमल्यं प्रसादः, घटना श्लेषः अवैषम्यं समता, अर्थदृष्टि: समाधिः, उक्तिवैचित्र्यं माधुर्यम्, अपारुष्यं सौकुमार्यम्, अग्राम्यत्वमुदारता, वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः, दीप्तरसत्वं कान्तिः । 

काव्यप्रकाशकृता तु काव्यव्यवहारनिमित्तत्त्वं गुणत्वमित्यर्थं परिकल्प्य 'अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुलसत्येष धूम ।' इत्यत्रीजो गुणसत्वा दतिव्याप्तिः । 'स्वर्गप्राप्तिरनेनैव देहेन वरवणिनी। 

अस्या रदच्छदरसो न्यक्करोतितरां सुधाम् ॥'

इत्यत्र गुणाभावादव्याप्तिश्चोदाहता। यद्यपि अव्याप्तिप्रदानं काव्यरसस्य काव्यत्वस्य च गुणनियतत्त्ववादिनां तेषामपि मते न समन्वयं भजते, काव्यत्वे गुणस्यावश्यं भावात्तथापि तत्कथान्तरम् । यदपि तद्वयाख्यात्रा प्रसादस्य सत्त्वा काव्यत्वं समस्तगुणाभावात् अव्याप्तिप्रदानमिति समाहितं तदपि न सम्यक् प्रतिभाति समस्तगुणानां काव्यत्वप्रयोजकत्वेऽसम्भवस्य वैरस्यस्य वा आपत्तेर्दा तुमुचितत्वात् । 'अद्रावे'त्यादावपि यदि गुणानां काव्यमिति व्यवहारविषयतां भजते तदा वामनेनापीष्यते, नो चेत् तादृशोपयोग्यर्थाभावेन वामनमतेऽपि तथैवेति शम् ।

मम्मटाचार्यमतम्

ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । 

उत्कर्षहेतवस्तेस्युरचलस्थितयो गुणाः ॥

काव्यप्रकाशस्येयं कारिकामनुसृत्य तस्य व्याख्यातार: -

(१) रसधर्मत्वे सति रसोत्कर्षकत्वम्,

(२) रसोत्कर्षकत्वे सति रसा व्यभिचारि स्थितित्वम्

( ३ ) अयोगव्यवच्छेदेन रसोपकारकत्वमिति गुणानां लक्षणत्रयं व्याचक्षते । कारिकापूर्वार्द्धन रसधर्मत्वमायाति, उत्कर्षहेतुत्वं तु स्फूटमेवेति । 

यद्यपि अचलस्थितय इत्यस्य सगुणत्वघटितं काव्यत्वमपेक्ष्यकाव्ये नियत स्थितय इति व्याख्यानमपि ग्रन्थानुकूलं सम्भवति, तथापि रसेनैव नियतस्थितिः प्रायः सर्वैाख्यायते । नैयत्यञ्च रसेन तदुपकारेण च । यत्र रसो नास्ति तत्र गुणोऽपि नास्त्येव रसनैयत्यम्, रसाभावव्यापकीभूताभावप्रतियोगित्वमिति यावत् । अवस्थिताश्च गुणाः अवश्यं रसमुपकुर्वन्ति इति रसोपकारनैयत्यं स्व स्थितिव्यापकरसोपकृतिकत्वमिति । इत्येव अयोगव्यवच्छेदेनेत्यादिनाभिहितम् । रसधर्मत्वञ्च द्रुतिकारणम्, द्रुतिकारणं माधुर्यम्, चेतसो विस्ताररूपस्य दीप्तत्वस्य जनकमोजः, चेतसो व्याप्तेर्जनकः प्रसाद इति विशेषलक्षणमपि कृतप्रायमेव । परं काव्यप्रकाशकृतायामपरिष्कृतभाषायां वस्तुस्वरूपनिर्णये भूयान् सन्देहो जागत्ति । तथा हि-आह्लादकत्वं माधुर्यं द्रुतिकारणम्, दीप्त्याप्तविस्तृतेर्हेतु रोज इत्याधुक्त्या आह्लादकत्वमित्यत्र त्वप्रत्ययेन द्रुतिकारणत्वं माधुर्यम्, दीप्ति जनकत्वमोजः इत्यायाति । अन्यत्रत्वप्रत्ययाप्रयोगेण द्रुत्यादिकारणमित्यायाति । ततश्च महान् पदार्थभेदः प्रथमपक्षे द्रुतिकारणत्वं माधुर्यस्य स्वरूपं सत्यं निर्णीतं भवति परं कारणत्वस्याभिव्यञ्जकं न किञ्चित् कुत्रचिदङ्गीक्रियते कैश्चिदिति । तथाभिव्यञ्जकोक्ति वृथैव जायेत । 

यथाकथञ्चिदङ्गीक्रियेत सामग्रयेव कारणत्वव्यञ्जिका नान्यत् द्वितीये द्रुत्यादिकारणं माधुर्यादीति माधुर्यादेः स्वरूपनिर्णयो न जायते द्रुति जनयत् रचनादिभिरभिव्यज्यमानं किं वस्तुरसगतमित्याकाङ्क्षोदयत्येव । किञ्च दुर्ति प्रति शृङ्गारस्य माधुर्यस्य च कारणत्वे मिलितयोः सहकारिभावेन वा कारणत्व मिति विकल्पः प्रसज्यते । मिलितयोः कारणत्वे गुणं विना रसो तिं करोति न वा ? प्रथमे गुणः किं कृतम् ? यदि गुणं विना रसो रसास्वादमात्रं जनयति गुणविशिष्टस्तु द्रुतिमपि इति चेत् हन्त गुणकार्यमेव द्रुति रसकार्यतयाऽभि मन्यसे, तथा च गुणानामेव कारणत्वं द्रुत्यादि प्रति न रसानाम् । द्वितीयेऽप्येष दोषः । किञ्च पृथक् माधुर्यादीनां किञ्चित् कार्य प्रति कारणत्वासिद्धया स्वरूप सिद्धयभावेन सहकारिकारणत्वमपि न स्यात् । अत एव पण्डितराजजगन्नाथः वक्ति–'दाहादेः कार्यादनलगतस्य उष्णस्पर्शस्य यथाभिन्नतयाऽनुभवस्तथा दूत्यादिचित्तवृत्तिभ्यो रसकार्येभ्योऽन्येषां रसगतगुणानामनुभवात् । तस्माद् द्रुत्यादिकारणत्वमेव माधुर्यादि न तु द्रुत्यादिकारणं किञ्चित् । इत्थञ्च साक्षात् द्रुतिकारणे रसे द्रुतिकारणत्वरूपस्य माधुर्यस्य विद्यमानत्वात् रसधर्मत्वं माधु र्यादेः । परम्परया प्रयोजके रचनादावभावात् भाक्तः प्रयोगो मधुर इति तन्मत निष्कर्षोऽपि समन्वयं भजेतेत्थं विचारयति डा० भगीरथप्रसादत्रिपाठीमहोदयः । 

गोविन्दठक्कुरस्तु-अङ्गिनः शरीरेष्वात्मत्काव्ये प्राधान्येन स्थितस्य रसस्य धर्माः साक्षात्तदाश्रिता । इति मम्मटभट्टस्य कारिकार्थः । अचलस्थितय इत्यपृथ विस्थतयः । अव्यभिचारिस्थितय इति यावत् । अव्यभिचारश्च रसेन तदुपकारेण वा । तेन रसं विना येनावतिष्ठन्ते अवतिष्ठमानाश्चावश्यं रसमुपकुर्वन्तीत्यर्थः । अतएवानयोर्व्यतिरेकालङ्कारे वक्ष्यति स्वयं मम्मटाचार्येण एवं च रसस्योत्कर्ष हेतुत्वे सति रसधर्मत्वं, तथात्वे सति रसाव्यभिचारिस्थितित्वं, अयोगव्यवच्छेदेन रसोपकारकत्वं चेति लक्षणत्रयं गुणानां स्पष्टमेव । अलङ्कारमात्रभेदकत्वं तु सत्यन्तभागविमुक्तमिदमेव ग्राह्यम् । अन्यथा विशेषणवैयर्थ्यात् । 

चण्डीदासस्तु–'रसधर्ममात्रं लक्षणं, उत्कर्षहेतुत्वं गुणशब्दप्रवृत्तिबीजम्' इत्याह । तदयुक्तम्, शृङ्गारत्वादी धर्मेति व्याप्तेः । ननु रसधर्मत्वमेषाम सिद्धम् । कथमन्यथा नीरसेऽपि सुकुमारादिवर्णशालिनि मधुरादिव्यवहारः रस वत्यपि ईदृग्वर्णा भाववत्यमधुरादिव्यवहार इति । उच्यते-शौर्यादयस्ताव दात्मान एव धर्मा इत्यविवादम् । दृश्यते तु क्वचिदशूरेऽप्याकार महत्वादियो गिनि शूरव्यवहारः, शूरेऽप्याकारलाघवादियोगिन्यशूरत्वव्यवहारश्च । तत्कस्य हेतोः ।

अथ क्वचिच्छूरव्यवहारविषये वितताकृतिदर्शनादाकार एवास्य शूर इत्यौ पचारिकव्यवहाराच्चाभियुक्तानामाकार एवैतादृशः शूरपदवाच्य इति विपर्या साददूरदर्शिनस्तथा व्यवहरन्ति । तत्त्वज्ञास्तु क्वचिदुपचारत इति वक्तव्यम् । हन्तैवं मधुरादिरसयोगिनि सुकुमारादिवर्णयुक्ते मधुरादिव्यवहाराद्वर्ण एवायं मधुरादिरित्यौपचारिक व्यपदेशाच्चाभियुक्तानां वर्ण एवैतादृशो माधुर्यभागिति विपर्ययाद्रसपर्यन्तावगाहि बुद्धिविधुरा व्यवहरन्ति । तत्त्वालोचिनस्तु क्वचिदुप चारादिति तुल्यमेतत् । 

ननु शौर्यादेरात्मवृत्तित्ववन्मधुरत्वादीनां रसवृतित्वव्यवस्थितावेवं स्यात् । सैव त्वसिद्धा विनिगमकाभावादिति चेत्, मैवम् । भवत्वेव विनिगमकाभावो, यदि त्वया वर्णमात्राश्रया गुणाः स्वीकत्तु शक्यन्ते । न त्वेवम्, अविशेषेण रचनायामपि तदभ्युपगमात् । तथा च रसमात्रवृत्तित्वे लाघवम् । वर्णरचनो भयवृत्तित्वे तु गौरवम् । यतश्चैवमत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णा दिभिर्व्यज्यन्त इत्येव सम्यगिति ।

विश्वनाथस्य मतम् 

'रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा । 

गुणा:......

रसस्य शरीरित्वं प्राप्तस्य आत्मन इति शेषः, शौर्यज्ञानविशेषः, आदिप देनौदार्यादीनां परिग्रहः । तथा च पुरुषोत्कर्षकत्वेन शौर्यादयो गुणाः आत्मन श्चेतनस्यैव धर्माः साऽचेतनशरीरस्य धर्मा यथा, तथाङ्गित्वमाप्तस्य शब्दार्थ  ॥'  सप्तम उल्लासः  २०७  दिसमुदायमध्ये मुखत्वं प्राप्तस्य रसस्य न तु रसवदाद्यलङ्कार वदङ्गतां प्राप्तस्ये त्यर्थः । धर्माः साक्षात्तदाश्रितास्ते गुणा उच्यन्ते इत्यर्थः, आत्मधर्मेष्वेव गुणव्यव हारो मुख्यः, सत्यपि शरीरसौन्दर्यादौ शौर्यपाण्डित्यादिरहिते निर्गुणत्वव्यवहारात् । अङ्गित्वमाप्तस्येत्यनेन काव्यं अङ्ग रसोऽङ्गी इत्येव बोध्यते न त्वङ्गिपदादङ्ग रसव्यावृतिस्तत्राऽपि माधुर्याद्यनुभवात् । रसपदस्यात्रापि रस्यते आस्वाद्यते इति व्युत्पत्त्या भावादयोऽपि गृह्यन्ते, तेष्वपि गुणाङ्गीकारात् । दोषव्यवच्छेदाय धर्मा इत्युक्तम् । एवञ्च स्थिरत्वे सति रसादीनां साक्षादुत्कर्षजनकधर्मत्वगुणत्व मिति सामान्यलक्षणं फलितम् । सत्यन्तदलोपादानात् स्थिरेषु रसवदाद्यलङ्कारेषु नातिव्याप्तिः । रसादीनामुत्कर्षजनकत्वाभावाच्च नापि रसत्वादावतिप्रसङ्गः । एतेन स्पष्टमेव गुणानां रसधर्मत्वं प्रतिपादितं भवति । 

यद्यपि मूलग्रन्थे स्थिरत्वबोधकशब्दो नास्ति तथाऽपि स्थिरत्वे सति रसा दीनां साक्षादुत्कर्षजनकधर्मत्वं गुणत्वम् । स्थिरत्वे सतीत्यभिधानात् रसवदाद्य लङ्कारेषु, साक्षादित्यनेन रीतिषूभयाभावाच्चालङ्कारेषु, नातिप्रसङ्ग इति लक्ष्मीटीकाकृतो वक्ष्यते । एषां मते द्रुतिर्माधुर्यम्, दीप्तिरोजः, व्याप्तिः प्रसादो, न तु तत्कारणत्वम् । तद्वादिना काव्यप्रकाशकृतां मतं खण्डितमनेन । द्रुतिरपि आस्वादस्वरूपालादभिन्नेति ब्रुवत एते । काव्यप्रकाशमते रसाद् रसास्वादो भिन्न इति कृत्वा द्रुत्यादिकारणत्वं समर्थितमत्र तु रसो रसास्वादश्चैक एवेति तृतीयपरिच्छेदे प्रतिपादितम् । तथा चैषां मते द्रुतिकारणता न रसेष्विति काव्यप्रकाशात् विशेषः । आस्वादरूपतायां रसस्येत्थं वासना प्रतिभाति । तथा च स्वयं प्रकाशरूपरसाकारवृत्तौ चैतन्यछाया न सम्भवति इति फलव्याप्तेर भावान्न कश्चिद् रसास्वादो रसाद् पृथक इति । साहित्यदर्पणे गुणनिरूपणे द्रवीभावश्चेत्यादिनाऽऽरभ्य 'रत्याद्याकारानुविद्धानन्दोद्बोधेन सहृदयचित्ताद्रता प्रायत्वम्' इत्युपलभ्यते अत्रोद्बोधान्तेन रसास्वाद एवाभिमतो भवेदन्यविषयस्य रसोद्बोधस्य निर्वक्तुमशक्यत्वात् । तदा तृतीया यदि हेतौ तदा रसोद्बोधजन्य त्वेन प्रतीयमाना चित्ताद्रता रसास्वादादन्तरं जायेत तदा चित्ताद्रता व्यञ्जकानां रचनादीनां रसास्वादेः कश्चिदुपयोगो न स्यात् । तेन प्रकृत्यादित्वादभेदे तृतीयव येन रसास्वादा भिन्ना या चित्ताद्रतेति सङ्गतिः ग्रन्थस्येति । चित्ताद्रता च गलितत्वेनानुभूयमानश्चित्तवृत्तिविशेष एव तथा च रसास्वादस्याऽपि चित्तवृत्तिता ग्रन्थादेवायाति सा च द्रुता रसजन्येत्यायात्यैवेति काव्यप्रकाशमत एवास्य प्रवेशः । 

वेदान्तिग्रन्थेषु स्वप्रकाशाकारा वृत्तिव्याप्तिशब्दवाच्या चित्तवृत्तिरेवाङ्गि क्रियते न फलव्याप्तिः । स्वप्रकाशचिन्मयस्यापि तादृशी चित्तवृत्तिरेव रसास्वादः । चित्त द्रवीभावमय आह्लादो-माधुर्यमुच्यत इत्यादिग्रन्थसमन्वयस्तु मानन्दरूपरसाकारा चित्तवृत्तिरपि आनन्द एव विषयवृत्योः समानाकारापन्नत्वात एवं वदत्याचार्यत्रिपाठीमहोदयः ।

ध्वन्यालोकमतम् 

तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास्त्वलङ्कारा मन्तव्या कटकादिवत् ।  -ध्व० लो० २ । २९ । शूरता-सौजन्य-विद्यादयो गुणाः यथा प्रधानात्मनि विद्यमानास्तं प्रगुण यन्ति, तथैव माधुयौंजप्रसादा रसस्था आत्मभूतं रसादिम् । यथा च वलयकेयू रादयः शरीरस्था अलङ्काराश्शरीरद्वाराऽऽत्मानं भूषयन्ति, तथैव च शब्दार्थनिष्ठा अनुप्रासोपमादयश्शब्दार्थद्वारा रसादिम् । इत्थञ्च गुणालङ्कारयोरात्मभूताद्र सान्मिथश्च लोकवन्महान् भेदः । अत एव 'रसोत्कर्षप्रयोजकत्वविशिष्टरसमात्र वृत्तित्वं गुणत्वम् । रसोत्कर्षप्रयोजकत्वविशिष्टशब्दार्थान्यतरवृत्तित्वमलङ्कारत्व मिति । तयोर्लक्षणे पर्यवस्यतः । लक्षणद्वयघटक रसपथं रसादिपरम्, रस्यत  आस्वाद्यत इति रस इति व्युत्पत्तेः ।

पण्डितराजजगन्नाथस्य मतम् 

पण्डितराजमते द्रुत्याद्यन्यतमचित्तवृत्तिप्रयोजकत्वं गुणसामान्यलक्षणम् । अन्यस्य लक्षणस्याकरणात् । काव्यप्रयोज्यचमत्कृतिप्रयोजकतात्वं गुणत्वम् । रसालङ्काररीतिरचनादयश्च मत्कृतेः प्रयोजका न तु प्रयोजकतारूपाः । प्रयोज कतावत्त्वात्तेष्वपि मधुरादिव्यवहार इष्यत एव । न तु काव्यप्रकाशमते द्रुति जनके मधुरपदस्य शक्तिः, पण्डितराजमते च द्रुतिप्रयोजक इत्यनयोः कतरः श्रेयान्निति जिज्ञासा चेत् मधुरारचनेत्यादी लक्षणाकल्पनाभावरूपलाघवेन पण्डितराजमतस्यैव ज्यायस्त्वात् । यथा रसेषु मधुरादि स्वारसिको व्यवहार स्तथा रचनादिष्वपीति किमनुरुद्धय चैकत्र शक्तिरन्यत्र च लक्षणा कल्प्यते । जनकत्वमन्यथासिद्धिशून्यत्वघटितम्, प्रयोजकत्वन्तु तदघटितमिति शक्यता वच्छेदकेऽपि लाघवमित्येवं वदसि त्रिपाठी महोदयः । 

दोषविवेचनम्

अलङ्कारशास्त्रस्य विवेच्यविषयेषु दोषप्रकरणस्य महत्त्वपूर्णस्थानमस्ति । काव्यत्वविघटका ये दोषास्तद्रहिता काव्यरचनायामेव प्राचीनानां प्रवृतिः परि दृश्यते । काव्यदोषाणां सर्वप्रथमः उल्लेखः कृतो मुनिना भरतेन । 

गूढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभिप्लुतार्थम् । 

न्यायादपेतं विषयं विसन्धि शब्दच्युतं वै दशकाव्यदोषाः ॥

भामहमते तु सदोषकाव्यरचना कुत्सितपुत्रवन्निन्दितो भवति यथा  -

सर्वथा पदमप्येकं न निगद्यमवद्यवत् ।

विलक्ष्मणा हि काव्येन दुःसुतेनेव निन्द्यते ॥

अकवित्वमधर्माय व्याधये दण्डनाय वा ।

कुकवित्वं पुनः साक्षान्मृतिमाहुर्मनीषिणः ॥ 

दण्डीकविस्तु केवलकाव्यदोषपरिहारस्य महत्त्वं ददाति । काव्येऽल्पदोषोऽपि अक्षम्यो भवति । 

तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथञ्चन 

स्याद्वपुः सुन्दरमपि श्वित्रणैकेन दुर्भगम् ॥

दण्डीमते दशदोषाः भवन्ति -

अपार्थव्यर्थमेकार्थ ससंशयमपक्रमम् ।

शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धिकम् ॥

देशकालकलालोकन्यायागमविरोध च

इति दोषा दर्शवेते वाः काव्येषु सूरिभिः ।। 

भरतादारभ्य विश्वनाथपर्यन्तमनेकाचार्याः दोषाणां विवेचनं कृतवन्तः । दोषाणां वर्गीकरणं सर्वप्रथमं वामनेन कृतम् । दोषस्य सर्वाधिकसन्तुलितविवेचनं कृतं मम्मटभट्टेन तत्पश्चाद्विश्वनाथेन च । अनयोविवेचने सर्वप्रकाराणां दोषाणां समावेशोऽभवत् । 

दोषस्वरूपम्

काव्यप्रकाशसाहित्यदर्पणादिग्रन्थव्याख्यादिभ्यः साक्षात्परम्परया वा रसा दीनां सम्यक् प्रतीतिप्रतिबन्धकत्वे सति काव्यवृत्तित्वमिति दोषस्य सामान्य स्वरूपमस्ति । तथा च काव्यवृत्तित्वे सति काव्यप्रयोज्यचमत्कृत्यपकर्षकत्वम्, स्वाभावविशिष्टकाव्यप्रयोज्यचमत्कृतेः प्रतिबन्धकत्वमिति दोषसामान्यलक्षणं पर्यवस्यति । काव्यवृत्तित्वञ्च साक्षात्परमपरया वा तत्तन्नियतसम्बन्धेन, येन अर्थरसादिवृत्तिदोषाणां नासंग्रहः ।

काव्यप्रकाशकारस्य मतम् 

मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ।

मुख्यश्चासावर्थश्चेति कर्मधारयः, हतिरिति भावसाधनं तथा च मुख्यस्या र्थस्य हतिरपकर्षों यस्मात्स दोषः । अत्र व्यधिकरणत्वेऽपि गमकत्वात् बहुव्रीहिः । 

अन्ये तु मुख्यार्थो हन्यतेऽपकृष्यतेऽनेनेति करणसाधनो हतिशब्दः एवं 'हतिरपकर्षः' इति वृत्तावपि, अपकर्षशब्दोऽपि करणसाधन एव, एवं हि दोषपरता भवति तद्वत्वञ्च टुष्टलक्षणं बोध्यमित्याहुः । एवञ्च मुख्यार्थापकर्ष कत्वं दोषमिति मतद्वयेऽपि लक्षणम् । मुख्यत्वमर्थस्य न शक्यत्वलक्षणं येन लक्षणस्यासङ्गतिस्स्यात् किन्तु, इतरेच्छानधीनेच्छाविषयत्वम् तच्च स्वतः पुरुषार्थे सुखरूपे रसेऽक्षतमिति । नन्वेवं नीरसेषु न कश्चिद्दोषः स्याद्विघात्या भावादित्यत आह-तदाश्रयादिति आश्रयणमाश्रयः । तथा च तेन रसेनाश्रयणा दुपकारित्वेनापेक्षणाद्वाच्योऽपि मुख्य इत्यर्थः । न चैवम् । मुख्यशब्दार्थस्य नाना त्वेनावगमकाव्ये प्राधान्येनोद्देशाप्रतीतिविषयत्वेनानुगमात् । तदेवं रसवति सर्व एव दोषाः, नीरसे त्वविलम्बितचमत्कारिवाक्यार्थप्रतीतिविघातका एव हेया इति मन्तव्यम् । नन्वेवं तयोरेव दोषाधारत्वमुचितं, न तु शब्दादीनामित्यत आह-उभयोपयोगिन इत्यादि । अत्र शब्दपदं प्रतिपादनात्मकशब्दना व्यापार वतोः पदवाक्ययोर्वर्तते । तेनाद्य पदापदाद्वर्णरचने संगृहीते इति प्रकाशकार स्वरसः । न च तत्र बीजाभावः । अन्यथा वर्णस्यापि शब्दपदेनैव प्राप्ती शब्दाद्या इति बहुवचनासङ्गतेः । स्यादेतत् । हतिविनाशः । न च दोषेण रसो नाश्यते । तस्मादलक्षणमेतत् । मैवम् । इति शब्दस्यापकर्षवाचित्वात् । 

अत्र ब्रूते गोविन्दठक्कुरः-उद्देश्यप्रतीतिविघातलक्षणोऽपकर्षों इति शब्दार्थः । उद्देश्या च प्रतीती रसवत्यविलम्बितानपकृष्टरसविषया च । नीरसे त्वविलम्बिता चमत्कारिणी चार्थविषया। तथा च तादृशप्रतीतिविघातकत्वं सर्वेषामविशिष्टम् । यतो दुष्टेषु क्वचिद्रसस्याप्रतीतिरेव, क्वचित्प्रतीयमान स्यापकर्षः, क्वचित्तु विलम्बः । एवं नीरसे क्वचिदर्थस्य मुख्यभूतस्याप्रतीतिरेव, क्वचिद्विलम्बन प्रतीतिः, क्वचिद् चमत्कारितेत्यनुभवसिद्धम् । इत्युद्देश्यप्रतीत्य नुत्पादो व्यक्त एव ।

साहित्यदर्पणकारस्य मतम् 

'रसापकर्षकाः दोषाः' ।

विश्वनाथस्य दोषलक्षणं नातिभिन्नोऽस्ति मम्मटाचार्यात् । तथैवात्रापि रसशब्देन रस्यते आस्वाद्यते इति व्युत्पत्त्या रसाभासादिरप्युपसंगृह्यते । नन्वेवं नीरसेषु न कश्चित् दोषः स्यात् । अपकर्षणीयस्य रसस्याभावादिति चेत् ? मैवम्, तत्राविलम्बितचमत्कारिवाक्यार्थप्रतीतिविघातका एव हेयत्वेन ग्रह णात् । रसवति तु सर्वेषामेव दोषाणां हेयत्वेनोपादानात् । तेनात्र रसपदं नीरस स्थले अविलम्बितचमत्कारिवाक्यार्थस्य चोपलक्षणम् । तथा च रस-रसाभास भाव-भावाभास-सन्धि-शबलताद्यन्यतमरूपं काव्यस्यात्मानं सविलम्बितचमत्कारि-वाक्यार्थञ्च अपकर्षयन्ति साक्षात् परम्परया वा स्वप्रतीति प्रतिबन्धद्वारा निकर्षयन्तीति रसापकर्षका आस्वादविघ्नहेतवः काव्यवृत्तिधर्मविशेषा दोषा इत्यर्थः । एवञ्च साक्षात् परम्परया वा रसादीनां साधुतया प्रतीतिप्रतिबन्धक काव्यधर्मत्वं दोषत्वमिति दोषसामान्यलक्षणम् । बधिरत्वादि पुरुषधर्मेष्व तिव्याप्तिवारणाय काव्यधर्मत्वमिति, रसादीनां साधुतया प्रतीतिस्तु यथासमयं चमत्कारित्वेन प्रतीतिरेव, तत्प्रतिबन्धकत्वञ्च कदाचिच्चमत्कारित्वहननात् कदाचित् समयविलम्बजननात् कदाचित् सर्वथैव बाधाच्चेति ज्ञेयम् । 

तत्र साक्षाद्यथा  -

'चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम् ।'

अत्र रसस्य स्वशब्दोपात्तत्वेन स्वशब्दवाच्यत्वदोषस्य सत्त्वात् रसस्य चम कारितामुपहत्याचमत्कारितया रसप्रतीतिमवरोधयति । परम्परया यथा -

'कार्तायं यातु तन्वङ्गी कदानङ्ग वशंवदा।'

इत्यादौ दुःश्रवत्वादयो दोषाः शब्दद्वारा परम्परासम्बन्धेन रसस्य चमत्कारिता मुपहत्याचमत्कारितया रसप्रतीतिमवरोधयन्ति । समयविलम्बजननात् तत्प्रतीति प्रतिबन्धकत्वं यथा -

'क्षीरोदजा वसति जन्मभुवः प्रसन्नाः ।'

इत्यादौ क्लिष्टत्वादेः। सर्वथैव रसादीनां साधुतया प्रतीतिप्रतिबन्धकत्वम् । यथा-'कुजं हन्ति कृशोदरी' इत्यादावसमर्थत्वादेरिति । 

जयदेवस्त्वलङ्कारवादी आचार्य आसीत् । अयं हि शब्दार्थोभयनिष्ठदोषाणां स्थितिः स्वीचकार । तन्मते  -

स्याच्चेतो विशता येन सक्षता रमणीयता । 

शब्देऽर्थे च कृतोन्मेषं दोषमुद्घोषयन्ति तम् ॥

चेतोऽन्तःकरणं विवशता येन चेतः प्रविष्टेन काव्यस्य रमणीयतोद्देश्य प्रत्यायकत्वलक्षणा सुन्दरता क्षतेन सहिता सक्षता सप्रतिबन्धा स्यात् । यत्सत्त योद्देश्यप्रतीतिविघातको भवेत्स दोष इति तात्पर्यम् । शब्दे वाचके अर्थे वाच्ये  च कृतो विहित उन्मेषः प्रादुर्भावो येन स तम् । शब्दार्थोभयनिष्ठमिति यावत् । तं रमणीयता विघातकं दोषं काव्यदूषणमुद्घोषयति जयदेवः । 

दोषाणां वर्गीकरणम्

तत्र नित्यानित्यस्वरूपेण द्विविधोऽयं दोषः । प्रकारान्तरेणापि समाधातु मशक्यो नित्यदोषः। यथा-च्युतसंस्कृत्यादिः । एतद्विपरीतस्त्वनित्यः । यथा-ग्राम्यत्वादिस्तस्य हासरसोद्देशे गुणत्वात् । तत्र नित्यानित्यरूपेण द्विविधो प्ययं दोषस्त्रिविधः काव्यप्रकाशकृतां मतेन । तच्छब्ददोषोऽर्थदोषो रसदोबाचेति ।  वाक्यार्थबोधात्प्राक प्रतीयमानाः शब्दगाः, ततः परं प्रतीयमानाः परम्परया रसापकर्षका अर्थगाः, तादृशाः साक्षात् रसापकर्षका रसगाः । तत्र शब्दार्थ रसानां यथापूर्वमुपस्थितिः प्राथमिकीति तत्क्रमेणैव दोषभेदा निरूपणीया इति शब्ददोषाणां प्राथम्यम् शब्दस्तु त्रिधा-पदं तदेकदेशो वाक्यञ्च । एवञ्च तदा श्रितः शब्दोऽपि त्रिविधः । तत्र पदानां वाक्यघटकत्वेन प्राथम्यात्प्रथमं तद्दोष निरूपणमिति परमार्थः । तत्रेदं शक्यते-एवं सति पदैकदेशस्य पदापेक्षयाऽपि प्राथम्यम् न च पदांशः पदं निरूप्यः प्रकृतित्व-प्रत्ययत्वादिना भानात् । तस्मात् तद्दोषनिरूपणस्यैव प्राथम्यमहतीति । अत्र भास्कर:-'सत्यमुच्यते, परं तु पद दोषेष्वेव यथासम्भवं केचित् पदैकदेशदोषाः' इति समाधत्ते तन्नातिमनोरमम् । अस्त्वेवं तथापि पदैकदेशदोषत्वेन प्रथमाभिधानापादने किमुत्तरमिति । वस्तुतस्तू पदेशे तावत् प्राथम्यादिविचारणा, अतिदेशस्तूपदेशानन्तरमेव न च पदैकदेशे दोषोपदेशः, अतिदेशे नैव तल्लाभे लाघवात् । न च पदैकदेशे एवास्तूपदेशः पदे त्वतिदेश इति वाच्यम् । पदैकदेशावृत्तीनामपि केषाञ्चित् पदवृतित्वेन तदर्थं पदेषुपदेशस्यावश्यकत्वात् ।

(क) पददोषाः -

पददोषलक्षणमाह -

दुष्टं पदं श्रुतिकटुच्युत्संस्कृत्यप्रयुक्तमसमर्थम्,

निहितार्थमनचितार्थ निरर्थकमवाचकं त्रिधाश्नीलम । 

सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत्क्लिष्टम्,

अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥ 

विश्वनाथोऽपि मम्मटाचार्यस्य मतं समर्थयति शब्दान्तरेण, यथा -

.....ते पुनः पञ्चधा स्मृताः ।'

पदे तदंशे वाक्येऽर्थे सम्भवन्ति रसेऽपि यत् ॥

तेषां षोडशपददोषाणां क्रमेण विवेचनम् -

१. श्रुतिकटुः-श्रुतिकटुत्वं यद्यपि श्रुत्युद्वेजकं तच्च पुरुषभेदेनानियतम् तथापि तज्जनकतावच्छेदकरूपवत्त्वं विवक्षितं तच्च परुषवर्णत्वं तच्च दुर्वचत्वम् । तद्यथा -

अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः । 

आलिङ्गितः स तन्वङ्गया कार्तायं लभते कदा ॥

अत्र 'कार्तार्थ्य'मिति पदं कठोरवर्णघटितत्वात् श्रुतिकटुः । कार्तार्थ्य मिति शब्दः श्रोतुविरक्तिमापादयतीति दुष्ट इति भावः । 

२. च्युतसंस्कृतिः-च्युताः स्खलिता संस्कृतिः संस्करणं व्याकरणलक्षणा नुगमो यत्र तत्र च्युतसंस्कृतिदोषो भवति । यथा  'दीनत्वामनुनाथते कुचयुगम्' . अत्र 'अनुनाथते' इति पदं व्याकरणलक्षणविरुद्धं च्युतसंस्कृतिदोषेण दूषितः । 

३. अप्रयुक्तम्-प्रयुज्यमानतावच्छेदकरूपेण, अनुशासनसिद्धमपि कविभि र्यन्न प्रयुक्तं तदप्रयुक्तदोषमिति । यथा  'तथा मन्ये दैवतोऽस्य' अत्र पुल्लिङ्गः दैवतशब्दः आम्नातोऽपि कविभिर्न प्रयुक्त इत्यप्रयुक्तत्वं दोषः । 

४. असमर्थत्वम्-अनेन यत्तदर्थं परिपठितमपि प्रकृतस्थले विवक्षितार्थ सामर्थ्य रहितमप्रयुक्तत्वम् । यथा -

'सुरस्रोतस्विनीमेष हन्ति सम्प्रति सादरम्' ।

अत्र हन्तीति पदं गमनार्थेऽसमर्थमिति दोषः ।

५. निहितार्थम-अविवक्षितप्रसिद्धार्थप्रत्ययव्यवधानेन विवक्षिताप्रसिद्धार्थ बोधकत्वं निहितार्थम् । यथा -

यावकरसाद्रपादप्रहारशोणितकचेन दयितेन । 

मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥

अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोज्ज्वलीकृतत्वरूपोऽर्थो व्यवधीयते । 

६. अनुचितार्थम्-विवक्षितार्थतिरस्कारकधर्मव्यञ्जकोऽर्थो यस्य तदनु चितार्थम् । यथा -

'रणाश्वमेधे पशुतामुपागतः ।

अत्र कातरत्वाभिव्यक्त्या वर्णनीयस्य शौर्यस्य तिरस्कारात् पशुतामित्यनु चितार्थम् । 

७. निरर्थकपदस्वम्-वृत्तन्यूनतापरिहारमात्रप्रयोजनकमविवक्षितार्थकमिति निरर्थकम् । यथा-'मम हि गौरि ।' अत्र पादपूरणार्थमेव 'हि' इत्यस्य प्रयोगं निरर्थकमिति । 

८. अवाचकम्-विवक्षितधर्मविशिष्टस्य विवक्षितर्मिणः क्वापि न वाचकं यत्तदवाचकम् । यथा  . 'अमर्षशून्येन जनस्य जन्तुना' । अत्र जन्तुपदं विवक्षितेनादातृत्वेन रूपेणावाचकम् । 

9. अश्लीलम्-अश्रीरस्यास्तीत्यर्थे सिध्मादित्वाल्लच् प्रत्ययः । कपिल कादित्वाद्रेफस्य लत्वम् । तथा च काव्यभाववदिति पर्यवसन्नम् । कान्त्यभाव श्चातिप्रसक्त इति ब्रीडाजुगुप्सामङ्गलव्यक्तिहेतुकस्तद्विशेषो वक्तव्यः । तत्र व्रीडाव्यक्तावान्तरस्य तथा भावो यथा-'साधनं सुमहद्यस्य' अत्र सैन्यार्थस्य  साधनशब्दस्य पुंव्यञ्जनमर्थान्तरम् । जुगुप्साव्यक्ती तथाभूतार्थस्मृतिमात्रहेतुत्वम् यथा-'वायुं स्थिता तस्य सा' अत्र वायुंशब्दोऽपानवायुं स्मारयति । अमङ्गल व्यक्ती तु यथा-'मत्प्रियाया विनाशात्' अत्र विनाशशब्दस्य विवक्षित एवार्थो ऽमङ्गलः। 

१०. सन्दिग्धम्-विवक्षिताविवक्षितोभयार्थोपस्थापनानुकूलस्वरूपद्वयसन्देह विषयः सन्दिग्धम् । यथा  'आशी:परम्परां वन्द्याम् ।' - अत्र 'वन्द्याम्' इति पदं बन्दीशब्दे सप्तम्यन्तं वन्द्याशब्दे द्वितीयान्तं वेति सन्देहः। 

११. अप्रतीति:-अप्रतीतमिति ननोऽल्पार्थतया शब्दानुशासनातिरिक्त शास्त्रमात्रप्रसिद्धम् । तथा  'सम्यग्ज्ञानमहाज्योतिर्गलिताशयताजुषः' । अत्राशयशब्दो मिथ्याज्ञानजन्यवासनार्थः । 

१२. प्राम्यम् - ग्राम्यं ग्रामे केवले लोके प्रसिद्धं न तु शास्त्रेऽपि । यथा 'कटिश्च हरते मनः ।' अत्र कटिशब्दः लोकानभिज्ञं प्रति तदर्थानुपस्थिति दूषकताबीजम् इति । 

१३. नेयार्थम्-यत्र रूढिप्रयोजनाभ्यां विना या लक्षणा निषिद्धा तद्विष यत्वम् नेयार्थत्वम् । यथा  -

'करोति ते मुखं तन्वि चपेटापातनातिथिम् ।'

अत्र चपेटादिपदं निर्जितत्वे लक्षणया प्रयुक्तम् । 

१४. अविमष्टविधेयांशदोषः-अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत् । प्राधान्यं च विधिप्रतीतियोग्यता। सा चानुपसर्जनीभूतत्वे सत्युद्देश्या नन्तर्यम् । यथा-  

'मूर्नामुद्धृत्तत्कृता विरलगलगलद्रक्तराधाः ।'

अत्र नगरीरक्षण एव यत्प्रयासस्तन्मू| महिमा मिथ्येति मिथ्यात्वं विधेयम् । 

१५. विरुद्धमतिकृत-विरुद्धमतिकृत्पदान्तरसं निधानेन प्रकृतप्रतीतिन्य कारकप्रतीतिजनकम् । तच्चेदमनेकधा प्रवर्त्तते । क्वचित्समासान्तरविग्रहेण । यथा  सुधाकरकराकारविशारदविचेष्टितः ।  अकार्यमिश्रमेकोऽसौ तस्य किं वर्णयामहे ॥ अत्राकार्य कार्यमन्तरेण मित्रमिति विवक्षितम् । अकार्ये मित्रमिति तु प्रतीयते ।

(ख) पदांशवोषाः 

उपरिनिर्दिष्टपददोषेषु कतिचित्पदांशगतदोषा अपि भवन्ति ।  'पदस्यांशेऽपि केचन ।' 

केचन दोषाः, पदस्यांशे, एकदेशे भवन्तीति भावः । विश्वनाथमते तु दुःश्रवत्व-निहितार्थत्व-अवाचकत्व-अश्लीलत्व-नेयार्थत्वञ्च पञ्च एव पदांशदोषाः भवन्ति । मम्मटभट्टमते तु-श्रुतिकटु-निहितार्थत्व-निरर्थकत्व-अवाचकत्व-अश्ली लत्व-सन्दिग्धत्व-नेयार्थत्वञ्च सप्त पदांशदोषाः भवन्ति । पदगतदोषमिवेतेषां दोषाणामपि स्वरूपमस्ति ।

(ग) वाक्यदोषाः 

साकाङ्क्षनानापदवृत्तिदोषो वाक्यदोषः । च्युतसंस्कारादित्रयाणां स्वा भावादेवान्वयबोधस्वरूपायोग्यानामन्वयबोधने पदान्तरविरहप्रयुक्तत्वविरहेण साकाङ्क्षत्वाभावान्न वाक्यदोषत्वमिति । प्रदीपकारस्तु-अत्र यत्र पदान्तर साहित्येन पदानां दुष्टत्वं स वाक्यदोषः । विवरणकारस्तु-विशिष्टकार्थ तात्पर्यकपदसमूहो वाक्यं तदपेक्षदोषत्वमेव वाक्यदोषत्वम् । तत्र षोडशपददोषे च्युतसंस्कृतिः, असमर्थस्तथा निरर्थकं विहाय सर्वे त्रयोदश पददोषाः वाक्यदोषा अपि भवन्ति । ते च-श्रुतिकटु-अप्रयुक्त-निहितार्थ-अनुचितार्थ-अवाचक त्रिधाऽश्लील-सन्दिग्ध-अप्रतीत-ग्राम्य-नेयार्थक्लिष्ट-अविमृष्ट-विधेयांश-विरुद्धमति कृदन्तान्ताः । एतदतिरिक्त एकविंशतिदोषाणामपि चर्चा कृता मम्मटेन । तद्यथा -

प्रतिकूलवर्णमुपहताप्लुतविसर्गविसन्धिहतवृत्तम् ।

न्यूनाधिककथितपदं पतत्प्रकर्ष समाप्तपुनरात्तम् ॥

अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् ।

अपदपदसमासं सङ्कीर्णगभितं प्रसिद्धिहतम् ॥

भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा ॥

१. प्रतिकूलवर्णम्-प्रतिकूलाः विवक्षितरसादेः अनुगुणाः आस्वादोद्बोध प्रतिबन्धकाः वर्णाः यत्र वाक्ये तत्प्रतिकूलवर्णम् । 

२. उपहतविसर्ग:-यत्र उपहतः उपघातं प्राप्तः विसर्गस्तत्रोपहतविसर्गदोषः ।

३. सविसर्गः-लुप्तः लोपं प्राप्तः विसर्गः यत्र तत्र लुप्तविसर्गदोषो भवति । 

४. विसन्धिः-विशब्दोऽत्र वैरूप्यार्थकः । परः सन्निकर्षः वर्णानामति शयितः सन्धिः संहितारूपः । संहिता च स्वारसिकार्धमात्राकालव्ययेनोच्चारणम् । तदेवाह-सन्धेर्वैरूप्यमिति । वैरूप्यञ्च त्रिधा भवति, विश्लेषोऽश्लीलत्वं कष्टत्वञ्च । 

( क ) विश्लेष:-सन्ध्यभावः ।

(ख ) अश्लीलत्वम्-सन्धिकारणत्वेन यत्राश्लीलता प्रतीतिर्भवति ।

(ग ) कष्टत्वम्-श्रुतिकटुत्वम् ।

५. हतवृत्तदोषः-हतं लक्षणानुसरणेऽप्यश्राव्यम् अप्राप्तगुरुभावान्त लघु रसाननुगुणं च वृत्तं यत्र तत् हतवृत्तम् । हतवृत्तदोषोऽपि त्रिधा भवति । 

( क ) अश्राव्यत्वम्,

( ख ) प्रकृतरसानुगुणत्वम्,

( ग ) पादान्तलघोर्गुरुकार्याक्षमत्वम् । 

६. न्यूनपदत्वम्-तत्र न्यूनपदं न्यूनं पदं वाचकशब्दो यत्र तत् । द्योतक न्यूनतायां त्वनभिहितवाच्यत्वं न्यूनपदत्वम् । 

७. अधिकपदम्-उपात्तेप्याकृतिपदे यथा कथञ्चित्तेनैवोपमितिपर्यवसाना दित्याकृतिपदमधिकम् । 

८. कथितपदम्-उपात्तपदस्य प्रयोजनं विना पुनरुपादाने कथितपदत्वम् । 

9. पतत्प्रकर्षः-पतन् हसन् प्रकर्ष उत्कर्षो यत्र वाक्ये तदित्यर्थः । अल ङ्कारकृतस्य बन्धकृतस्य वा प्रकर्षस्य यत्रोत्तरोत्तरपातस्तत्र पतत्प्रकर्षदोषः । 

१०. समाप्तपुनरात्तम्-समाप्तं जनितविवक्षितान्वयबोधकं सत् तदन्वयि शब्दोपादानेन पुनरुपात्तं पुनरनुसन्धानविषयत्वं समाप्तपुनरात्तदोषमिति । 

११. अर्थान्तरैकवाचकः-यत्र प्रथमार्धगतं वाक्यं द्वितीयार्धगतेनैकेन पदेन पूर्यते तत्रार्धान्तरैकवाचकमिति । 

१२. अभवन्मतयोगपदम् न भवतीत्यभवन् अविद्यमानो मतोऽभिमतः इष्टः योगः सम्बन्धो यत्र वाक्ये तदभवन्मतयोगम् । 

१३. अनभिहितवाच्यम्-वाच्यशब्दोऽत्रार्थपरो नास्ति प्रत्युतशब्दपरः, अर्थपरत्वे सति वाक्यदोषत्वानापत्तेः । तथा च अनभिहितं अनुक्तं वाच्यम् अवश्यवक्तव्यं यत्र तदिति । 

१४. अपदस्थपदम्-अपदस्थपदसमासम् । तत्राद्यं पदपदं स्थानार्थकम् । तथा चास्थानस्थ पदमस्थानस्थसमासं चेति दोषद्वयम् । 

१५. अपदस्थसमासम्-यद्रसव्यञ्जको यः समासस्तद्रसव्यञ्जकस्थानम पहाय स्थानान्तरे तत्समासपातोऽस्थानस्थसमासत्वम् । 

१६. सङ्कीर्णम्-यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति तत्र सङ्कीर्णम् । 

१७. गभितम्-यत्र वाक्यान्तरं प्रथमवाक्यस्य मध्ये प्रविष्टं भवति तत्र गभितम् । 

१८. प्रसिद्धिहतम्-यत्र प्रसिद्धार्थकस्य शब्दस्य तादृशसम्बन्धिनि अप्रयोगस्त्वमिति । एवं सति अप्रसिद्धशब्दप्रयोगात् अर्थप्रतीतिविलम्बेन रस प्रतीतेरपि विलम्बात् अस्य दोषत्वमिति । 

19. भग्नप्रकमम्-भग्नो नष्टः प्रक्रमः प्रस्तावो यत्र वाक्ये तद्भग्नप्रक्रमम् । 

२०. अक्रमम्-यत्पदानन्तरं यत्पदोपादानमुचितं ततोऽन्यत्र तदुपादानं यत्र तदक्रमम् । 

२१. अमतपरार्थम्-अमतः प्रकृतविरुद्धः प्राकरणिकरसविरुद्धरसव्यञ्जकः द्वितीयार्थो यत्र वाक्ये तदित्यर्थः ।

(घ) अर्थदोषाः 

सम्प्रति वाक्यार्थप्रतीतिपश्चाद्भावित्वेन वाक्यदोषानन्तरमर्थदोषानाह -

अर्थोऽपुष्ट: कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ।

सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च ॥

अनवीकृतः सनियमानियमविशेषाविशेषपरिवृत्ताः ।

साकाङ्क्षो पदयुक्तः सहचरभिन्नः प्रकाशित विरुद्धः ।

विध्यनुवादायुक्तस्त्यक्तपुनः स्वीकृतोऽश्लीलः ॥ 

त्रयोविंशतिमर्थदोषानाह -

१. अपुष्ट:-यस्यार्थस्यानुपादाने शब्देनाप्रतिपादने विवक्षितार्थस्य बाधः पुष्टत्वं तद्विरहः अर्थात् पुष्टाद्भिन्न अपुष्ट इति । 

२. कष्टः-क्लिष्टत्वाद्यभावेऽपि कष्टगम्यार्थत्वं तत्त्वम् । तद्बीजं तु तात्पर्यार्थस्य दुर्जेयतया तज्ज्ञानविलम्बेनैव रसप्रतीतिप्रकर्षविलम्बनं कष्टत्वम् । 

३. व्याहतम्-द्वितीयं पुरस्कृत्य तदन्यथाकरणरूपं व्याहतत्वम् ।

४. पुनरुक्तः–वाक्यार्थस्य पुनरुक्तत्वं निष्प्रयोजनाभिधानेन श्रोतुर्वैमुख्यम् । अत एव प्रयोजनसत्त्वेनादोषत्वात् अनित्योऽयं दोषः । 

५.दुष्क्रमः-दुष्ट: अनुचितः क्रमो यत्रेत्यर्थः, दुष्टत्वञ्च क्रमस्य लोकशास्त्र विरुद्धत्वम् । 

६. प्राम्यः-ग्राम्यः ग्रामसम्भवः, अविदग्धोक्तिप्रतिपादितो रिरंसादिः । पामरैर्यत्र कथ्यते । वैदग्ध्यवक्रिमवलं हित्वैव वनितादिषु । 

७. सन्दिग्धः-सन्देहविषयः तत्प्रयोजकरूपवानिति यावत् । एवञ्च प्रकर णाद्यभावात् सन्दिह्यमानोऽर्थः सन्दिग्ध इति फलितम् । 

८. निर्हेतुः-निष्क्रान्तो हेतुर्यस्मात्, अनुपात्तहेतुकोऽर्थो निर्हेतुरिति यावत् । 

9.१०. प्रसिद्धिविरुद्धः, विद्याविरुद्धः-प्रसिद्धिविद्याविरुद्धौ । तथा च प्रसिद्धिविरुद्धो विद्याविरुद्धश्चेति दोषद्वयम् । तत्र प्रसिद्धिविरुद्धो यत्रार्थे न प्रसिद्धिविरुद्धः । स च द्विविधः, लोकप्रसिद्धिविरुद्धो कविप्रसिद्धिविरुद्धश्चेति । 

११. अनवीकृतः-भङ्गयन्तरेण प्रकारान्तरेण यन्नवत्वं तन्न प्रापित एक भङ्गिनिर्दिष्टोऽनेकार्थ इत्यर्थः । ' 

१२. सनियमपरिवृत्तः–'सनियमानियमविशेषपरिवृत्ताः' इत्यत्र सनिय मादिभिः, चतुभिः परिवृत्तपदान्वयात् सनियमपरिवृत्तादि चतुष्टयं लभते । परिवृत्तिश्च सनियमानियमयोविशेषाविशेषयोश्चेति । 

१३. अनियमपरिवत्त:-अनियमपरिवृत्ते नियमवाचकस्याधिकस्योपादा नात् अधिकपदत्वम् । विशेषपरिवृत्ते त्ववश्यवाच्यस्यानुक्तेरनभिहितवाच्यस्य सविशेषस्यानुक्तेरनभिहितवाच्यत्वमिति । 

१४. विशेषपरिवृत्त:-विशेषवाचकशब्दप्रयोगस्यावश्यके सामान्यवाचक पदस्य प्रयोगः विशेषपरिवृत्तदोषो भवति ।। 

१५. अविशेषपरिवृत्तः—सामान्यवाचकशब्दप्रयोगस्यावश्यके विशेषवाचक शब्दस्य प्रयोगः अविशेषपरिवृत्तः दोषो भवति । 

१६. साकाक्षा:-आकाङ्क्षया सह वर्त्तत इति साकाङ्क्षस्तस्य भावः । तत्त्वञ्च अनुपात्तार्थाकाङ्क्षाविषयार्थकत्वम् । 

१७. अपवयुक्तः-अपदेऽस्थाने युक्तः सम्बद्ध इत्यर्थः । एवं च प्रकृतार्थविरु दार्थकपदशालित्वमपदयुक्तत्वम् । तदुक्तं विवरणे-'यत्र यदभिधानं विवक्षित प्रतीतिविघटकं तादृशेऽनुपयुक्त स्थाने तदभिधानमपदयुक्ततेति ।

१८. सहचरभिन्नः-सहचरेषु समभिव्याहृतेषु, सहचरेभ्यः समभिव्या हृतेभ्यो वा भिन्नो विजातीय इत्यर्थः । विजातीयत्वं चोत्कृष्टत्वापकृष्टत्वा भ्याम् । एवञ्च समभिव्याहृत विजातीयार्थकत्वं सहचरभिन्नत्वम् । 

19. प्रकाशितविश्व:-प्रतिपादितविवक्षितार्थविरोधिव्यञ्जकार्थकत्वं प्रका शितविरुद्धत्वम् । 

२०. विध्ययुक्तः-विधेयतात्पर्याप्त्ययोग्ये तात्पर्यार्पणत्वं तत्त्वम् । विधिरत्र समापिका क्रिया। विवक्षितार्थस्यानिर्वाह एव दूषकताबीजम् । 

२१. अनुवाबायुक्त:-अनुवादायुक्तः अयुक्तानुवाद इत्यर्थः । अयुक्तत्वं चात्र विध्यनुगुणत्वम् । अनुवादश्च सिद्धस्यैव कथनम् । विधिविरुद्धत्वमेवं दूषकता बीजम् । अयमपि नित्यो दोषः । 

२२. त्यक्तपन:स्वीकृत:-पूर्वं त्यक्तोऽनन्तरं पुनः स्वीकृतः पुनरुपात्त इत्यर्थः । क्रियाकारकान्वयेन निराकाङ्क्षतया समाप्तेऽपि वाक्ये पुनः कारकान्तराभिधानं त्यक्तपुनःस्वीकृतत्वम् । 

२३. अश्लील:-अश्लीलो व्रीडादिसमर्पकोऽर्थः । यथा -

उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः । 

यथा सुजायते पातो न तथा पुनरुन्नतिः ॥

शब्दान्तरेणाप्युपादीयमानोऽयमर्थः पुंव्यञ्जनादिसाधारण्येन प्रतीते बीडादायी। 

(ङ) रसदोषाः 

रसगतदोषाणां निरूपणमानन्दवर्धनेनाऽपि कृतम्, किञ्च तन्निरूपणं नाधिक व्यवस्थितोऽभवत  -

विरोधिरससम्बन्धिविभावादिपरिग्रहः ।

विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ।।

अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् ।

परिपोषं गतस्यापि पौनःपुन्येन दीपनम् । 

रसस्य स्याद्विरोधाय वृत्त्यनौचित्यमेव च ॥

आनन्दवर्धनापेक्षया मम्मट-विश्वनाथाभ्यां कृतं रसगतदोषाणां विवेचन मधिकव्यवस्थितं तर्कसङ्गतञ्च वर्तते । मम्मटेन त्रयोदशरसदोषाणामुल्लेखः कृतः स्वग्रन्थे । विश्वनाथेन च चतुर्दशरसदोषाणां विवेचनं कृतम् । तस्य चतुर्दशः रसदोषः अर्थानौचित्यमस्ति  'अर्थानौचित्यमन्यच्च दोषाः रसगताः स्मृताः ।  -सा० द०,७१५ आनन्दवर्धनमते तु अनौचित्यं विना रसभङ्गस्यान्यत्कारणं नास्त्येवेति -

अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । 

प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ।।

वृत्तिः मम्मटेन प्रतिपादितास्त्रयोदशरसदोषास्तु -

१. व्यभिचारिभावस्य स्वशब्दवाच्यत्वम्-वाच्यता ताटस्थ्यलक्षणया  ब्रह्मपदवत् । लोके यथा गोप्यानां स्तनादीनां साक्षात्प्रकाशने नोपादेयता तथानुभावादिबहुव्यङ्गयत्वेन चमत्कारनिदानानां व्यभिचारिभावानां स्वशब्द प्रकाशनेनेत्यर्थः । 

२. रसस्य स्वशब्देन शृङ्गारादिशब्देन वाच्यत्वम्-रसस्य सामान्यतः रस वाच्यतादोषः विशेषतश्च शृङ्गारपदवाच्यत्वं दोषः शृङ्गारपदोपात्तसम्भोग शृङ्गाररसाक्षिप्तस्वविभावानुभावव्यभिचारिभिर्व्यज्यते रसः किन्तु, शृङ्गारपद वाच्यत्वादास्वादापकर्ष इति भावः । 

३. स्थायीभावस्य स्वशब्दवाच्यत्वम् स्थायीभावस्य विशेषतः, उत्साहादि पदेन वाच्यत्वं दोषम्भवति । 

. अनुभावानां कष्टकल्पना-यत्रानुभावं पर्यवसाययति प्रकरणादि अनु सन्धानसापेक्षतया विलम्बेन विगमयन्ति तत्र कष्टकल्पनेति । 

५. विभावानां कष्टकल्पना-रसविशेषाणामभिव्यक्ती यदि रसान्तरस्य बोधो भवति तत्र विभावस्य कष्टकल्पना भवति ।  बोधनं ब्रह्मापदवत  २२०  अलङ्कारशास्त्रस्येतिहासः

६. प्रतिकूलविभावादिग्रहः-प्रतिकूल: प्रकृतिरसादेविरुद्धो यो रसादिः तद्विभावानुभावव्यभिचारिणां ग्रहो ग्रहणम् उपादानमिति । 

७. पुनः पुनः दीप्तिः-दीपितस्य स्वसामग्रीलब्धपरिपोषस्य अन्तरा विच्छिद्य विच्छिद्य ग्रहणं वेद्यान्तरसम्बन्धेन धारायाः विच्छेदात् । पुनः पुन  र्दीप्तिस्तु, अङ्गरसादीनामेव न त्वङ्गिन इति । 

८. अकाण्डे प्रथनम्-अकाण्डेऽनवसरे प्रथनं विस्तारः रसस्य वर्णनमिति ।

९. अकाण्डे छेदः-अनवसरे यत्र रसस्य विच्छेदो भवति । 

१०. अङ्गस्याप्यतिविस्तृतिः-यत्र प्रधानरसं परित्यज्याप्रधान एव रसः प्राधान्येन आस्वाद्येत तत्राङ्गस्याप्यतिविस्तृतिदोषो भवति । 

११. अङ्गिनः अननुसन्धानम्-अङ्गिनः अर्थात् यत्र प्रधानस्य नायकस्य नायिकाया वाननुसन्धानमपरामर्शो विस्मरणमिति । 

१२. प्रकृतीनां विपर्ययः-यत्प्रकृतौ यद्वर्णनमनुचितं तत्र तद्वर्णनं प्रकृति विपर्ययो भवति । 

१३. अनङ्गस्याभिधानम्-अनङ्गस्य प्रकृतरसविरुद्धस्य अभिधानं प्रशंसनं यत्र भवति तत्रानङ्गस्याभिधानदोषो भवति । अर्थानौचित्यं देशकालादीनामन्यथा यद्वर्णनं तथा सति हि काव्यस्यासत्यता प्रतिभासेन विनेयानामुन्मुखीकारा सम्भवः ।

(च) अलङ्कारदोषाः 

पूर्वोक्तदोषेभ्यः पृथगलङ्कारदोषाणामसम्भत्वं प्रतिपादयतः मम्मटविश्व नाथाविति । तद्यथा -

एषां दोषा यथायोगं सम्भवन्तोऽपि केचन ।

उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ।।

एभ्यः पृथगलङ्कारदोषाणां नैव सम्भवः ।

तथाप्यत्र कतिचिद्दोषाः निदर्शनरूपेणैव  -

१. अनुप्रासदोषः-अनुप्रासालङ्कारस्य त्रयो दोषाः सन्ति-

(क) प्रसिद्धय भावः

( ख ) वैकल्यम्,

(ग) वृत्तिविरोधश्च ।

एतेषामन्तर्भावः, प्रसिद्धिविरुद्ध अपुष्टार्थ-प्रतिकूलवर्णदोषेषु भवन्ति क्रमेणैव । 

२. यमकदोष:-यमकस्य त्रिषु चरणेषु प्रस्थापनम् अयुक्तदोषत्वेन दूषितं भवति अस्यान्तर्भावः अप्रयुक्तदोषे एव भवति । 

३. उपमादोष: 

(क ) उपमायामुपमानस्य जातिगत-प्रमाणगतश्च वा न्यूनताजन्यदोषः वस्तुत अनुचितार्थत्वदोष एवाऽस्ति । 

(ख ) साधारणधर्मस्थिते न्यूनत्वम् अधिकत्वञ्च दोषः न्यूनपदत्वमधिक पदत्वञ्च दोष एवास्ति । 

(ग ) उपमानस्योपमेयस्य वा लिङ्गभेददोषो वचनभेददोषो वा वस्तुतः भग्नप्रक्रमः दोष एवास्ति । 

(घ ) उपमायाः कालभेद-पुरुषभेद-विध्यादिभेददोषाणामन्तर्भावोऽपि भग्नप्रक्रमदोषे एवाभवत् । 

(ङ) उपमायामसादृश्यदोषः वस्तुतः अनुचितार्थत्वदोष एवेति । 

४. उत्प्रेक्षादोषः-

( क ) उत्प्रेक्षायामपि मन्ये, शके, ध्र वम् एव शब्दा वक्तुं सहन्ते न यथाशब्दोऽपि केवलस्यास्य साधर्म्यमेव प्रतिपादयितुं पर्याप्तत्वात् तस्य चास्यामविवक्षितत्वात् इति तत्राशक्तिरस्यावाचकत्वं दोष इति । 

( ख ) उत्प्रेक्षायामुत्प्रेक्षितस्य निर्विषयत्वदोष अनुचितार्थत्वदोष एवास्ति । 

५. समासोक्तिदोषः-साधारणविशेषणवशादेव समासोक्तिरनुक्तमपि, उप मानविशेष प्रकाशयतीति तस्यात्र पुनरुपादाने प्रयोजनाभावात् अनुपादेयत्वं यत तत् अपुष्टार्थत्वं पुनरुक्तं वा दोष एव । 

6. अप्रस्तुतप्रशंसादोषः-अप्रस्तुतप्रशंसायामपि साधारणविशेषणः प्रस्तुतस्य प्रतीतो पुनः स्वापदोपादनस्य यद्वैयर्थ्यं तदपुष्टार्थत्वमेव दोष इति । 

दोषाणां नित्यत्वमनित्यत्वञ्च

१. सर्वेषां दोषाणां निर्दुष्टता-सर्वेषां श्रुतिकटुप्रभृतीनां दोषाणाम् अनु करणे प्रतिपादितदूषकताभावाददोषत्वम्भवति । अनुकरणत्वञ्च स्वसदृश शब्द मात्रबोधतात्पर्यकोच्चारणविषयत्वम् । साहित्यदर्पणकारेणाप्युक्तम्  - 'अनुकारे च सर्वेषां दोषाणां नैव दोषता।' 

२. दुःश्रवत्वदोषस्यादोषता–काव्यस्यात्मारसस्तदपकर्षकत्वाभावे दुःश्रव त्वादेरदुष्टत्वमाद्यम्, अनपकर्षकत्वे सति प्रकर्षकत्वे पुनर्गुणत्वम्, इति भाक्त मेतत्, साक्षात् गुणत्वस्य रसधर्मभूतेषु माधुर्यादिष्वेवोपलम्भात् । माधुर्यादयो हि साक्षाद्रसधर्मभूताः, दुःश्रवत्वादयस्तु परम्परासम्बन्धेन तदुपकारितयेति । 

वक्तरिक्रोधसंयुक्ते तथा वाच्ये समुद्धते । 

रौद्रादौ तु रसेऽत्यन्तं दुःश्रवत्वं तथा पुनः ॥

३. अश्लीलत्वदोषस्यादोषत्वम्-सुरतारम्भस्य या गोष्ठी संलापः सादौ यत्र तत्र अश्लीलत्वमपि गुणमेवेति -

सुरतारम्भगोष्ठयादावअश्लीलत्वं तथा पुनः । 

4. अप्रयुक्तत्वकोषस्य मदोषत्वम् श्लेषादेः अवस्थायामप्रयुक्तत्वदोषमपि दोषो न भवति । 

५. निहितार्थत्वदोषस्यादोषता-श्लेषादेरवस्थायां निहितार्थत्वदोषोऽपि दोषो न भवति -

स्यातामदोषौ श्लेषादौ निहितार्थाप्रयुक्तते।

६. अप्रतीतत्वदोषस्यादोषत्वम् -

गुणः स्यादप्रतीतत्वं ज्ञत्वं चेत् वक्तृवाच्ययोः । 

स्वयं वापि परामर्शे............. ।

7. कषितपदत्वदोषस्यादोषता-विहितस्यानुवाद्यत्वे उद्देश्यस्य प्रतिनिर्देश्ये क्रोधे, दीनतयोक्ती, लाटानुप्रासे, दयायां, प्रसन्नतापादाने, अर्थान्तरसङ्क्रमित वाच्ये, हर्षे, अवधारणे तथा विहितानुवाद्यत्वादिष्वेकादशस्थलेषु कथितं पदं कथितपदत्वसंज्ञको दोषः पुनर्गुण एवेति । 

८. सन्दिग्धदोषस्यादोषता–व्याजस्तुतिपर्यवसायी सन्दिग्धत्वदोषोऽपि गुणो भवति ।  सन्दिग्धत्वं तथा व्याजस्तुतिपर्यवसायि चेत् । -सा० द० ७।२०

9. कष्टत्वदोषस्यादोषत्वम्-वैयाकरणादिके जने प्रतिपाद्ये बोधव्ये अथवा वक्तरि कष्टत्वम्, दुःश्रवत्वं वा दोषो गुण एव भवति । 

१०. प्राम्यत्वदोषस्यादोषता-अशिक्षितजनानामुक्तिषु ग्राम्यत्वं नाम दोषः अदोषो भवति । 

११. निर्हेतुत्वदोषस्यादोषता-प्रसिद्धार्थे निर्हेतुता दोषो न भवति । लोके प्रसिद्ध विषये निर्हेतुता नाम दोषस्तु दुष्टतां न प्राप्नोति । चमत्कारातिशया जननात् गुणतामपि नैव गच्छतीत्यपि ज्ञेयम् । 

१२. ख्यातविरुद्धतादोषस्यादोषत्वम् -ख्याते प्रसिद्ध कवीनां समये सम्प्रदाये  • ख्यातिविरुद्धता नाम दोषो गुण एव स्यात् । कवि समयख्यातानि च यथा  मालिन्यं व्योम्नि पात्रे यशसि धवलता वर्ण्यते हासकीयो  रक्तौ च क्रोधरागौ सरिदुदधिगतं पङ्कजेन्दीवरादि ।' इत्यादि ।

१३. पुनरुतत्वदोषस्यादोषता -

धनुर्व्यादिशब्देषु शब्दास्तु धनुरादयः ।

आरूढत्वादिबोधाय प्रयोक्तव्या स्थिता अमी॥ 

धनुर्व्यादिशब्देषु विद्यमाना धनुरादयः शब्दास्तु आरूढत्वादिबोधाय आरूढत्वप्रतीतये धनुरादिषु यो जितत्वावगमायेत्यर्थः, प्रयोक्तव्या इति अग्रिमेण सम्बन्धः अतः पुनरुक्तत्वमदुष्टतां प्रतिपद्यते । 

१४. न्यूनपदत्वदोषस्यादोषत्वम्  उक्तावानन्दमग्नादेः स्यान्यूनपदता गुणाम् । -सा० द० ७।२७ आनन्दप्रवाहे स्थितस्य शोकदुःखमग्नादेश्च न्यूनपदता नाम दोषो गुण एव भवति। 

१५. अषिकपदत्वदोषस्यादोषता - 'गुणः क्वाप्यधिकं पदम् ।' 

यत्र क्वचित् विशेषप्रतिपत्तिस्तत्रावधारणस्थल इति यावत् अधिकं पदम् अधिकपदत्वं नाम दोषो गुण एव भवति ।

१६. समाप्तपुनरातत्वदोषस्यादोषता  समाप्तपुनराप्तत्वं न दोषो न गुणः क्वचित् ।'

क्वचिदन्वयस्य समाप्तावपि वाक्यान्तरेण पुनरुपादानस्थले समाप्तपुनरात्तत्वं नाम दोषो न वा गुणो भवेत् । 

१७. गभितरवदोषस्यादोषत्वम्  'गर्भितत्वं गुणः क्वापि ।' 

क्वापि चमत्काराधायकस्थले गभितत्वं नाम प्रागुक्तदोषो गुण एव भवति ।

१८. पतस्प्रकर्षदोषस्यावोषत्वम् -

'पतत्प्रकर्षता तथा ।' 

अस्योदाहरणस्थले 'चञ्चद्भुज' इत्यादी चाभिधेयस्यानुद्धतत्वेन तथा पतत्प्रकर्षों युक्त इत्यस्यादुष्टत्वम् । 

रसगतदोषाणामनित्यत्वं तथा तद्दोषाणां परिहारः

'उद्देश्यप्रतीतिविघातको दोषः' इति दोषसामान्यलक्षणम् । स चायं दोषो द्विविधः-नित्योऽनित्यश्च । तत्रानुकरणात्, अन्येन प्रकारेण समाधातुमशक्यो नित्यः यथा च्युतसंस्कृत्यादिः । अन्यादृशस्त्वनित्यः, यथा अप्रयुक्तादिस्तस्य श्लेषादावदोषत्वादिति बोध्यम् । अथवा सर्वदैव हेयो नित्यः यथा च्युतसंस्कृ त्यादिः तदन्यस्त्वनित्यः, यथा शृङ्गारादी हेयमपि श्रुतिकटु रौद्रादावुपादेयमे वेति । अथ विशेषलक्षाणि तत्र नित्यानित्यरूपेण द्विविधोऽप्ययं दोषस्त्रिविधः शब्द दोषोऽर्थदोषो रसदोषश्चेति । वाक्यार्थबोधात् प्राक् प्रतीयमाना शब्दगाः, ततः परं प्रतीयमाना परम्परया रसापकर्षकाऽर्थगाः, तादृशा साक्षादसापकर्षकाः रसगाः। तत्र यदि विशेषावस्थायां रसौचित्यस्य भंगो न भवति, तर्हि तत्र रसदोषोऽपि न भवति । निम्नावस्थायां रसदोषेषु दोषत्वं न भवति 

१. कचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः ।

अनुभावविभावाभ्यां रचना यत्र नोचिता ॥ 

यथासम्भवं शब्दार्थदोषाणामदोषत्वं गुणत्वं चोपपाद्येदानीं रसदोषाणां विषयविशेषे यथायथमदोषत्वं गुणत्वं चोपपादयत्यनेन क्वचिद् व्यभिचारिणः सञ्चारिभावस्य न तु रसस्थायिनोरपीति ।  यत्रानुभावविभावमुखेन प्रतिपादने विशदप्रतीतिर्नास्ति, यत्र च विभावा नुभावकृतपुष्टिराहित्यमेवानुगुणं तत्र व्यभिचारिणः स्वशब्देनोक्तौ न दोषः। 

२. प्रकृतरसविरुद्धे विभावानुभावव्यभिचारिभावानां बाध्यत्वेन कथनम् दोष स्थानेऽपि गुणो भवति । 

'सञ्चार्यादेविरुद्धस्य बाध्यत्वेन वचो गुणः ।'

३. निम्नावस्थायां परस्परविरुद्धरसस्य वर्णनेऽपि दोषो न भवति -

( क ) विरुद्धोऽपि कश्चिद्रसः प्रधानेन रसेन सह स्मर्यमाणश्चेत् न दुष्टो भवति। 

( ख ) अथ विरुद्धोऽपि कश्चिद्रसः साम्येन विवक्षितश्चेत् न दुष्टो भवति । 

(ग) विरुद्धावपि यो रसी, अङ्गिनि प्रधाने उत्कर्षाश्रयेऽङ्गत्वमुपकार कत्वमर्थादुत्कर्षकारकत्वमाप्तौ चेत् तावपि परस्परं मिथः न दुष्टाविति । 

स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः । 

अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टो परस्परम् ॥

निम्नोपायेन रसस्य विरोधरूपदोषस्य परिहारं कर्तुं शक्यते -

( क ) अवलम्बनैक्येन विरोधे भिन्नालम्बनतया अर्थात् आधारक्येन च विरोधे भिन्नाधारतया वर्णने रसदोषं परिहर्तुं शक्यते । 

(ख ) यो रसः नैरन्तर्येण, अवधानेन तु यो रसो विरुद्धः स रसान्तरेण, अन्तरितो भूत्वा रसदोषं परिहर्तुम् शक्यते। 

आश्रयैक्ये विरुद्धो यः स कार्यों भिन्नसंश्रयः । 

रसान्तरे नान्तरितो नैरन्तर्येण यो रसः ॥

मम्मटाद्याचार्याणां मते औचित्याद् बुद्धिमद्भिः अन्येषामपि दोषाणां दोष त्वेनादोषता, कुत्रापि विद्यमानदोषत्ववैपरीत्येनैव गुणता, कुत्रापि स्वभावत एव गुणता, कुत्रापि च अनुभयात्मता दोषगुणत्वोभयातिरिक्तता ज्ञेया, सर्वत्र हि औचित्यानुसारादेव दोषगुणादीनां व्यवस्थितेरिति। 

अन्येषामपि दोषाणामित्यौचित्यान्मनीषिभिः ।

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

काव्यालङ्कारयोः क्रमिकविकासः काव्यस्य विकासक्रमःकाव्यालङ्कारयोः क्रमिकविकासः अलङ्कारशास्त्रस्य विकासक्रमःकाव्यालङ्कारयोः क्रमिकविकासः अलङ्कारत्वम् काव्यालङ्कारयोः क्रमिकविकासः अलङ्कारशास्त्रम् काव्यालङ्कारयोः क्रमिकविकासः काव्यस्य प्रयोजनम्काव्यालङ्कारयोः क्रमिकविकासः काव्यहेतु-विमर्शःकाव्यालङ्कारयोः क्रमिकविकासः विलक्षणव्युत्पत्तिःकाव्यालङ्कारयोः क्रमिकविकासः अभ्यासःकाव्यालङ्कारयोः क्रमिकविकासः रुद्रटमतम्काव्यालङ्कारयोः क्रमिकविकासः वामनमतम् काव्यालङ्कारयोः क्रमिकविकासः मम्मटाचार्यमतम्काव्यालङ्कारयोः क्रमिकविकासः वाग्भटमतम् काव्यालङ्कारयोः क्रमिकविकासः पीयूषवर्षमतम् काव्यालङ्कारयोः क्रमिकविकासः काव्यलक्षणम्काव्यालङ्कारयोः क्रमिकविकासः काव्यभेदविचारःकाव्यालङ्कारयोः क्रमिकविकासः दृश्यकाव्यभेदाः काव्यालङ्कारयोः क्रमिकविकासः अर्थाधारमधिकृत्य काव्यस्य वर्गीकरणम्काव्यालङ्कारयोः क्रमिकविकासः पण्डितराजजगन्नाथस्याभिमतम् काव्यालङ्कारयोः क्रमिकविकासः गुणनिरूपणम्काव्यालङ्कारयोः क्रमिकविकासः दोषविवेचनम्काव्यालङ्कारयोः क्रमिकविकासः दोषस्वरूपम्काव्यालङ्कारयोः क्रमिकविकासः दोषाणां वर्गीकरणम्काव्यालङ्कारयोः क्रमिकविकासः दोषाणां नित्यत्वमनित्यत्वञ्चकाव्यालङ्कारयोः क्रमिकविकासः सम्बद्धाः लेखाःकाव्यालङ्कारयोः क्रमिकविकासः सन्दर्भाःकाव्यालङ्कारयोः क्रमिकविकासः

🔥 Trending searches on Wiki संस्कृतम्:

१७५१५९०२८६३५६०८६८०११८८१७८१४६८११६६१६८९७४१६०११८०७८८०१७४६८२७१०४६९९९७४२८५७५२१७५५६३४१५०५९६३१४०३१५४८१६२९१३९२९०२७१०८९३६१७००५१९१२१२६४१३७८१७२१७६१०९२१२५०८०८१४९११६४०१६६१७७२९४६१२९८५५०३४८३७८३६११६५१४८४४१५१९११२७६१४६२३४६९४८१५२६२१६१५२९१७२९४१६७०२जया किशोरी१७४३३३३९२१३६७१५२५२४७३८५८८५३३३८३🡆 More