महादेवगोविन्द रानडे

महादेवगोविन्द रानडेवर्यः(Mahadev Govind Ranade) महाराष्ट्रराज्यस्य महान् देशभक्तः ।

महादेवगोविन्द रानडे
महादेवगोविन्द रानडे
जन्म १८ जनवरी १८४२
निफाडग्रामम्, नाशिकमण्डलम्, महाराष्ट्रराज्यम्, भारतम्
मृत्युः १६ जनवरी १९०१
शिक्षणस्य स्थितिः एलफिंस्टन महाविद्यालय, Government Law College, Mumbai Edit this on Wikidata
वृत्तिः विद्वान्, स्वातन्त्र्यसङ्ग्रामी, सामाजिकक्रान्तिकारश्च
भार्या(ः) रमाबाई रानडे

जन्म बाल्यञ्च

महादेवगोविन्द रानडे १८४२ तमे वर्षे जनवरिमासस्य १८ दिनाङ्के नाशिकमण्डले निफाडे इत्येतस्मिन् ग्रामे जन्म प्राप्तवान्। माता सखूबाई रानडे । सः बाल्यावस्थायां विद्याभ्यासे बुद्धिमान् नासीत् । परन्तु, शान्तियुक्तः तथा दृढः आसीत्। मुम्बईनगरे एल्फिन्स्टन् संस्थायां माध्यमिकविद्याभ्यासं समाप्य रानडेमहोदयः, तस्यामेव संस्थायाम् अध्यापकरूपेण कार्यं कृतवान् । तस्मात् एकस्मिन्नेव संवत्सरे इन्द्रप्रकाशः इति आङ्ग्लपत्रिकायाः मराठीसाप्ताहिकपत्रिकायाः च सम्पादकः जातः । १९६८ तमे वर्षे एल्फिन्स्टन् महाविद्यालये आङ्ग्लभाषायाः इतिहासस्य च अध्यापकरूपेण चितः।

सामाजिकानि राजकीयानि च कार्याणि

अष्टादशे शतके पाश्चात्यविद्याभ्यासः, आङ्ग्लन्यायशासनपद्धतिः, क्रैस्तगुरूणां प्रभावश्च हिन्दूसमाजे आसीत् । एतेन हिन्दूसमाजे नूतनभावोद्रेकः उत्पन्नः । अयं भारतस्य धार्मिक-सामाजिक-राजकीयक्षेत्राणां परिवर्तनकालः आसीत् । अस्मिन् समये रानडेवर्यः राजकीयक्षेत्रं प्रविष्टवान् । १८७१ तमे वर्षे न्यायाधीशः अभवत् । तदा विग्रहाराधना, जातिभेदः, विधवाविवाहनिषेधः, अस्पृश्यता, सहगमनपद्धतिः, बाल्यविवाहः इत्येतेषां दोषाणां निर्मूलनार्थं परिश्रमं कृतवान् । रानडेवर्यस्य प्रथमपत्न्याः मरणानन्तरं रमाबाई नामिकां विधवां परिणीतवान् । स्वयम् आदर्शप्रायः सन् समाजस्य उन्नतौ भागं गृहीतवान् । भारतराष्ट्रियकाङ्ग्रेस् पक्षेण सह निकटसम्पर्कं स्थापितवान् । समाजस्य उन्नत्यर्थं इण्डियन् न्याशनल् सोशियल् कान्फरेन्स् इति संस्थाम् आरब्धवान् । अस्मिन्नेव समये स्थानीयन्यायशासनं यत् आरब्धं तत् रानडेमहाभागस्य श्रमस्य फलम् ।

चित्रवीथिका

आधाराः

  • Brown, D. Mackenzie. "Indian Political Thought: From Ranade to Bhave". (Berkeley: University of California Press: 1961).
  • Mansingh, Surjit. Historical Dictionary of India., vol. 20, Asian Historical Dictionaries. s.v. "Shivaji". London: Scarecrow Press, 1996.
  • Masselos, Jim. Indian Nationalism: A History. (New Delhi: Sterling Publishers, 1985).
  • Wolpert, Stanley. India. (Berkeley: University of California, 1991). 57.
  • Wolpert, Stanley. Tilak and Gokhale: Revolutions and Reform in the Making of Modern India. (Berkeley: University of California, 1962). 12.

Tags:

महादेवगोविन्द रानडे जन्म बाल्यञ्चमहादेवगोविन्द रानडे सामाजिकानि राजकीयानि च कार्याणिमहादेवगोविन्द रानडे चित्रवीथिकामहादेवगोविन्द रानडे आधाराःमहादेवगोविन्द रानडेमहाराष्ट्रराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

४४७७०२११३२३१९१७६८०५१२६१८०९८४६९२७२९३१४३५३४२९१४१०८८१२१२१२२७४१४३१११०३१२०११५१६९९५२३०१७८३१५५११३४५२१४९९१७८७२५१४८३८५८७५१७९६८३१११५१४५६२८१८१२६९१७२२१७०११२९६९११५१२६६५२६१७२८२२९१२५१८५४१५८१४६५११७४२७७१८१११२८१५५३१३०६५४९८८०७५५१७६८५२२१६१८५७७४५१४१५३८०१५१११३७२१२३४९९१३८११५२४२९६१४५१२००🡆 More