मया प्रसन्नेन...

श्लोकः

मया प्रसन्नेन... 
गीतोपदेशः

श्रीभगवानुवाच -

    मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।
    तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तचत्वारिंशत्तमः(४७) श्लोकः ।

पदच्छेदः

मया प्रसन्नेन तव अर्जुनेदं रूपं परं दर्शितम् आत्मयोगात् तेजोमयं विश्वम् अनन्तम् आद्यं यत् मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥

अन्वयः

अर्जुन ! प्रसन्नेन मया आत्मयोगात् तेजोमयं विश्वम् अनन्तम् आद्यं यत् मे त्वदन्येन न दृष्टपूर्वम् इदं परं रूपं तव दर्शितम् ।

शब्दार्थः

    अर्जुन = हे अर्जुन !
    प्रसन्नेन = प्रशान्तेन
    आत्मयोगात् = स्वसामर्थ्यात्
    तेजोमयम् =कान्तिमयम्
    विश्वम् = समस्तम्
    अनन्तम् = अन्तशून्यम्
    आद्यम् = प्रथमम्
    यत् मे रूपम् = यत् मम रूपम्
    त्वदन्येन = भवदितरेण
    न दृष्टपूर्वम् = पूर्वम् अनवलोकितम्
    इदम् = तादृशम् एतत्
    परम् = उत्कृष्टम्
    रूपम् = स्वरूपम्
    तव = ते
    दर्शितम् = प्रदर्शितम् ।

अर्थः

हे अर्जुन ! अनुग्रहबुद्धिना मया स्वसामर्थ्यात् कान्तिमयं समस्तम् अन्तशून्यं प्रथमम् एतत् उत्कृष्टं स्वरूपं ते प्रदर्शितम् । मम एतत् रूपं भवदितरेण न कदापि पूर्वं दृष्टम् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

मया प्रसन्नेन... श्लोकःमया प्रसन्नेन... पदच्छेदःमया प्रसन्नेन... अन्वयःमया प्रसन्नेन... शब्दार्थःमया प्रसन्नेन... अर्थःमया प्रसन्नेन... सम्बद्धसम्पर्कतन्तुःमया प्रसन्नेन... सम्बद्धाः लेखाःमया प्रसन्नेन...

🔥 Trending searches on Wiki संस्कृतम्:

८४३७५६४८१३२०२४०६३१२५०१३४६८३५१३६०६५८९८४७६८६८०८४५६४४६२७९१५१४६९१२६४४०३१४८३२६४५९५४१३०१३६३५१२१२९३७३५२१३२३४४७१७२८६३०४३६४६३१२४६१६८५१३९९१४३२५५७५१९१६०५५३८४८५५५०१५४९७३८१७२९३८०१४३३३८८१५२०१३३३५७८४७१८१०१६५८२१६१३७५१४२८६७११३३१८८८२२९१६३८३६४३८७३१६९७३६७१३७२७२३४०८२०६८८९१५९७🡆 More