बौद्धदर्शनस्य मतानि

बौद्धदर्शनस्य अनेकानि मतानि सन्ति।

बौद्धचतुष्टयान्तर्गतं माध्यमिकतम्

बौद्धदर्शनस्य तत्त्वं जिज्ञासवो माध्यमिक-प्रभृतयो बौद्धविद्वांसः शून्यवाद मेव तत्त्वतो व्याहरन्ति, व्यवहरन्ति, समुपस्थापयन्ति चेति शुन्यतत्त्वमेव सोप पत्तिकं सलक्षणकञ्च विविच्यते ।

यद्यपि माध्यमिकस्यापि प्रक्रियोपदेशः सौत्रान्तिकवदेव चास्ति अङ्गीकार तावच्छेदककुक्षौ । तथापि अस्य माध्यमिकस्य मतेऽर्थस्याऽननुमितत्वेनाऽनुमानस्य प्रत्यक्षमूलकत्वस्याऽनुभवसिद्धत्वेनाऽदोषाद् भेदः सुस्पष्ट एव । परमोच्चकोटि कश्चायं शून्यवादः परिगण्यते ।

सर्वेऽपि दार्शनिकाः प्रायः शून्यत्वेनाऽभावं मन्यमाना एव तन्मतस्य निरा करणाय प्रवर्तन्ते । परन्तु 'प्राप्तौ सत्यां निषेधः' इति न्यायेन शून्यत्वपदार्थस्या ऽभावत्वे एव तन्मतस्य निराकरणं साधु सङ्गच्छते। किन्तु शून्यत्वपदार्थो नाऽभाव इति । माध्यमिकाः खलु शून्यत्वमनिर्वचनीयत्वेन व्याख्यातवन्तः । तथाहि -

'न सन्नासत् न सदसत् न चाऽप्यनुभयात्मकम् ।

चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥'

यदसत्कारणैस्तन्न जायते शशशृङ्गवत् ।

सतश्वोत्पत्तिरिष्टा चेज्जतिं जनयेदयम् ।।

एकस्य सदसद्भावौ वस्तुनो नोपपद्यते ।

एकस्य सदसदभ्योऽपि वैलक्षण्यञ्चोक्तिमात्रतः ।।

चतुष्कोटिविनिर्मुक्तं शून्यं तत्त्वमिति स्थितम् ।

अत एवाऽस्य माध्यमिकमतस्य यत्र कुत्रापि शून्यवादीयं निराकरणं समनु भूयते तत् केवलं शून्यत्वेनाऽभावं मन्यमानैरेव दार्शनिकैस्तथाविधं निराकरणं विधीयते, इयमेव चास्ति वस्तुस्थितिः । वस्तुस्थितिमाश्रित्य खलु शून्यवादो नहि कदापि कथमपि निराकर्तुं शक्यते । माध्यमिकमतेऽस्य चराचरात्मकस्य जगतोऽस्यैव शून्यवादस्य विवर्ततयोपलभ्यमानत्वेन मिथ्यात्वं सत्ताशून्यत्वञ्च प्रमीयते । यथा वेदान्तिनां नये जगतो ब्रह्मविवर्तभूतत्वेन मिथ्यात्वं स्वयमस्ति त्वविहीनत्वञ्च सिद्धयति । यथा वा रज्जौ भासमानस्य सर्पस्य रज्जुविवर्तत्वेन तस्यापि मिथ्यात्वं सत्ताशून्यत्वञ्च सुस्पष्टमेव । तथैव शून्यवादी माध्यमिकोऽपि जगतो मिथ्यात्वं सत्ताशून्यत्वं च वदति, शून्यस्यैव च विवर्तभूतं प्रभूतं याव ज्जगदिदं भासमानं भवतीति माध्यमिको ब्रूते इति विज्ञेयम् । उक्तञ्च -

'मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत्' ।

सर्वथा शून्यं वदन् शून्ये च जगति सञ्चरन् खलु माध्यमिको बौद्धः सर्वमेव घट-पटादिरूपं विषयजातं तद्विषयकञ्च ज्ञानं सर्वथा मिथ्याभूतं सत्ताविहीनञ्चाऽभिधत्ते ।

या कापि सत्तायाः प्रतीतिर्जायते सा केवलं भ्रान्तिभूता कल्पनामात्रमेव । यथा-रज्ज्वां जायमाना सर्पत्वप्रकारिका प्रतीतिमिथ्याभता सती कल्पना मात्रत्वेन समनुभूयमाना केवलं भ्रान्तिभूताऽनुभूयते, न तु प्रमात्मिकापीति ।

वस्तुतस्तु महात्मा भगवान् श्रीबुद्धः स्वीयं समस्तमपि प्रवचनात्मक सदपदेशं पालिभाषायामेव कृतवान् । परन्तु तावतापि यावत्कालावच्छेदेन बौद्धधर्मस्य तदर्शनस्य वा हीनयान-महायानेति नाम्ना सिद्धान्तद्वयं प्रचलितं जातन्तत्र महायानधर्म-दर्शनपरा ग्रन्थाः सन्ति संस्कृतभाषायामेव सम्बद्धा निबद्धाश्च ।

एवं बौद्धधर्मदर्शनप्रतिपादनपरा अपि अतीव प्राचीना ग्रन्था 'त्रिपिटके'ति नामधेयेन प्रसिद्धिं गताः सन्तः समनुभूयन्ते । येषां ग्रन्थानां निर्माण प्रकाशनं वा तदीयं प्राचीनतमत्वं सूचयति । तत्र च कतिपयपिटकानां नामधेयम् -

१. काश्यपेनाऽभिधम्मपिटकम्,

२. उपातिना-विनयपिटकम्,

३. आनन्देन सुत्तपिटकम्, मगधेषु राजगृहसभायां प्रागुक्तं पिटकत्रयं श्रावितम् ।

तत्रापि सुत्तपिटकं साकल्यावच्छिन्नेषु खलु पञ्चसु निकायेषु निम्नो ल्लिखिततां गतेषु विभक्तं विहितं सत् समनुभूयते । तेषां निकायानां नामानि समुल्लिख्यन्ते, यथा-

१. दीघनिकायः,

२. मज्झिमनिकायः,

३. संयुत्तनिकायः,

४. अङगुत्तरनिकायः,

५. खुद्दक निकायः,

एतानि च सन्ति तेषां नामानि ।

एवं विनयपिटक-अभिधम्मपिटके च सुत्तविभङ्गखण्डयोविभक्ते स्तः । बौद्धेषु प्रथमष्टीकाकारस्तथा 'विशुद्धिमग्ग'-ग्रन्थलेखक: श्रीबुद्धघोष एवाऽऽसीत् । तञ्च ग्रन्थं ४०० ईसवीये वर्षे स्वास्तित्वमक्षुण्णतया संरक्षणपरायणः सन् लिखित

वानित्यहमपि श्रीशशिबालागौड़स्तदीयपरम्पराक्रमानुसारतो मन्ये ।।

बौद्धानामाक्रमणानन्तरं वैदिकधर्मस्य विलुप्त्यनन्तरं पुनरभ्युदयो जातः पुनरुत्थानं वा ज़ातम्, तदनन्तरकालावच्छेदेनैव बौद्धदार्शनिकग्रन्थानां सङ्कलनम्, प्रकाशनम्, निबन्धनं वा संस्कृतभाषायामेव गुप्तसाम्राज्ये समभूत् ।

ततस्तेन निबन्धेन, प्रकाशनेन वा बौद्ध दर्शनस्य तथाविधस्य धर्मस्य च प्रचुरप्रचारो जातो भारतेऽपि वर्षे ।

नैतावन्मात्रमेव पर्याप्तं बहवो जना वेदान्ताचार्यप्रभृतिपरीक्षां समुत्तीर्णता गता अपि अर्थपदलोलुपाश्च ते धर्म मतिमददाना अश्रद्दधानाश्च ते संस्कृत विश्वविद्यालये वेदान्ताध्यापनलक्षणलक्षितमनित्यं कृत्यं समाप्ति नयन्तः खलु धर्मपरिवर्तनतां गताः श्रूयन्ते, समनुभूयन्ते च बौद्ध दर्शनकक्षाऽध्यापनपदमधि कृत्य तत्रैव इतः कियत्पूर्वकालावच्छेदेन सन्तिष्ठमानाः सन्त इतीदानी सेवा निवृत्तास्ते व्यावहारिकं सुखं समनुभवन्ति ।

योगाचारमतम्

योगाचारमतावलम्बिनो बौद्धदार्शनिकाः 'योगस्य आचारस्य चार णात योगाचार-नाम्ना कथ्यन्ते'। योगस्य आचारस्य च विज्ञानसम्बावरा इमे वैज्ञानिका अपि व्याहियन्ते ।।

शून्यवादसिद्धान्तावलम्बिनो बौद्धदार्शनिका यथा 'माध्यमिक'-नाम्ना गीयन्ते, तथैव विज्ञानसिद्धान्तानयायिनो बौद्धदार्शनिका 'योगाचारे'ति नाम्ना भण्यन्ते । अस्य योगाचारसम्प्रदायस्य प्रादुर्भावः पौर्वापर्यदृष्टितो विचार्यमाणे माध्यमिकस्य शून्यवादं निराकर्तुमेव जातः ।

इदञ्च मतं दृष्टिसृष्टिभेदतः सिद्धान्तद्वये विभक्तं समभूदिति बौद्धसिद्धान्त विदो वदन्ति । यथा-आध्यात्मिक्या दृष्ट्या खल्विदं मतं 'विज्ञानवादे'ति नाम्ना व्यवह्रियते । अयमेव विज्ञानवादश्चास्ति बौद्धन्यायस्य कृते जन्मदाता ।

अस्य सम्प्रदायस्य सम्प्रवर्तको जन्मदाता वा चास्ति असङ्गोपाह्वः 'श्रीवसु बन्धुः' इति च बौद्धग्रन्थानां पौर्वापर्यक्रमानुशीलनतो विज्ञायते । अतोऽस्य विज्ञानवादस्य मूलतः प्रचारकर्तृत्वेनाऽयमेव वसुबन्धुः योभाजनभूतो भवतीत्यत्र नास्ति कापि विप्रतिपत्तिः ।

श्रीवसुबन्धोराविर्भावकाल: 'सम्राट्' इति पदप्राप्तस्य 'समुद्रगुप्त'स्य चतुर्थ शताब्दी चास्तीति बहवो वदन्ति विवदन्ते चात्र मनीषिणः ।

यद्यपि विज्ञानवादस्य मूलभूत सिद्धान्तानां समर्थकः श्रीअश्वघोष एव सर्व प्राथम्येन परिगण्यते, अत एव श्रीअश्वघोषश्चास्ति ब्रह्माऽद्वैतविज्ञानसिद्धान्त समर्थकः । एतद्विज्ञानसिद्धान्तानां मूलतः समर्थनं प्रतिपादनं वा लङ्कावतार सूत्रे एव मिलति ।

तथाप्यस्य विशेषतः प्रसिद्धि ( निरूपणम् =प्रस्फोरणं वा ) श्रीमैत्रेयनाथस्य प्रधानशिष्यः श्रीवसुबन्धुरेव कृतवान् । अत एव विज्ञानवादसिद्धान्तस्य प्राधा न्येन परिपोषकश्चास्ति केवलमसङ्गः ।

यद्यपि लङ्कावतारसूत्रान्तर्गतस्थलविशेषेषु महान् सिद्धान्तभेदः समुप लभ्यते । यथा तत्रैव बाह्य जगतः प्रवृत्तिविज्ञानकार्यत्वं स्वीकृतमस्ति । तत्रैव च पुनरग्रे गत्वा प्रवृत्तिविज्ञानकार्यत्वं जगतो निषिध्याऽऽलयविज्ञानकार्यत्वमङ्गी कृतम् । इदमेव चास्ति सैद्धान्तिक रूपम् ।

यत आलयविज्ञानस्य समष्टिविज्ञानरूपतास्वीक्रियमाणे सति तदेवाऽऽलय विज्ञानं समष्टिरूपत्वेन सर्वस्यापि प्रवृत्तिविज्ञानस्य बाह्यजगतश्च कारणमस्तीति मन्तव्यम् । अथवा प्रवृत्तिविज्ञानं जगतोऽवान्तरकारणमस्ति, आलयविज्ञानञ्च प्रधानमिति मत्वाऽपि विरोधपरिहारो विधातुं शक्यते ।

अपि च यथा समुद्रे परिदृश्यमाना वीचयो वायुना प्रेर्यमाणाः सन्तो नृत्यन्ति, नहि कदाचिद् विश्रान्ति भजन्ते । तथैवाऽऽलयविज्ञाने विषयरूपपवनप्रेरिताः प्रवृत्तिविज्ञानतरङ्गा अपि नृत्यमानाः सन्तो नहि ते कदाचिद् विश्रामं लभन्ते । तथा चोक्तम्

'तरङ्गा उदधेर्यद्वत् पवनप्रत्ययेरिताः ।

नृत्यमानाः प्रवर्तन्ते व्युच्छेदश्च न विद्यते ।

आलयौघस्तथा नित्यं विषयपवनेरितः ।

चित्रस्तरङ्गविज्ञानैर्नृत्यमानः प्रवर्तते ॥

एतन्मते सर्वेऽपि व्यवहारा जगतो मिथ्यात्वप्रतिपादनपरा शङ्कराभिमत वदेव सम्पादनीयाः, विज्ञानाऽद्वैतवादोऽपि शङ्कराचार्याऽभ्युपगतब्रह्माऽद्वैत सिद्धान्तवदेव विज्ञेयः ।

एतावांस्तु विशेष: यदत्र क्षणभङ्गुरवादः, नैरात्म्यवादः, निरीश्वरवादश्च स्वीक्रियन्ते । परन्तु श्रीशङ्करमते त्रयाणामभावः।

लङ्कावतारसूत्रनिर्माता साक्षादस्ति भगवान् बुद्ध एव, अतः सूत्राणि च सन्ति साक्षाद् बुद्धवचनानीति चास्ति केषाञ्चिद् विदुषां कथनम् । अत्रेदमस्ति कारणं यत् खलु दक्षिणलङ्कायां वर्तमानस्य सीमान्तकूटपर्वतस्योपरि सन्तिष्ठ मानो भगवान् बुद्ध एव साक्षात् लङ्कावतारसूत्राणि समुपदिदेश ।

योगाचारस्येदमप्यस्ति कथनं यत् खलु बाह्यपदार्थानां व्यवहारं सम्पाद यितुमेव केवलं घट-पटादीनां, चैत्र-मैत्रादीनां संज्ञाकथनमस्ति न पुनः स्वरूप परिचयदृष्ट्या । यथोक्तम् -

'दृश्यं न विद्यते बाह्यं चित्तं चित्रं हि दृश्यते ।

देहयोगप्रतिष्ठानं चित्तमात्रं वदाम्यहम् ॥

अर्थात् बाह्यपदार्थो न दृश्यते, नापि च स्वास्तित्वं ब्रूते, अर्थात् नापि च तेषां कापि सत्ता। वेदान्तमतसिद्धघट-पटादिपदार्थवत् । केवलं चित्तमेव = विज्ञानमेव विचित्रं = नाना-रूपेण भासमानं भवतीति भावः ।

योगाचारमते विज्ञप्तिः (चित्तम्- विज्ञानञ्च) अस्ति खलु तादात्म्यापन्नमेक मेव वस्तू । अस्यैव तादात्म्यापन्नस्य विज्ञानस्य चास्ति सत्त्वम् । घट-पटादयः सर्वेऽपि पदार्थाः सन्ति तस्यैव विज्ञानस्य विवर्तभूता इति विज्ञानस्यैवाऽऽकार विशेषस्वरूपतामापन्नास्ते घट-पटादयः पदार्था नहि स्वातन्त्र्येण स्वास्तित्व साधयितुं प्रभवन्तीति विज्ञानसत्तैव तेषां घट-पटादीनां सत्ता ।

अपि चायं योगाचारमतप्रवर्तको 'वसबन्धः' विज्ञानात्मवादी चास्ति विज्ञानाऽद्वैतवादी। यतः विज्ञानातिरिक्तो नास्ति कश्चिदपि पदार्थः स्वास्तित्व सम्पन्नः । घट-पटादयः सर्वेऽपि पदार्थाः सन्ति विज्ञानस्यैवाऽऽकारविशेषा इत्युक्तं प्राक् ।

तच्च विज्ञानं क्षणिकम् । क्षणिकत्वञ्चात्र स्वाऽव्यवहितोत्तरक्षणवृत्तिध्वंस प्रतियोगित्वरूपम् । एतेन न केवलं विज्ञानस्य किन्तु विज्ञानाकारभूतानां सर्वे षामेव घट-पटादिपदार्थानां ( वस्तूनाम् ) एव क्षणिकत्वं विज्ञेयम् ।।

इदमत्रावधेयमस्ति सुषुप्तौ विषयानुभूति व जायते । परन्तु सुषुप्तिकाला वच्छेदेन निराकारा ( निर्विषयिणी ) क्षणिकाऽऽलयविज्ञानधारा सर्वथा निरा बाधा सती सन्तिष्ठतेऽतो न तदानीं घट-पटादिरूपविषयाऽभासप्रसङो दाने शक्यते, विज्ञानधारायास्तदानीं सत्त्वेऽपीति भावः ।

विज्ञान-बाह्यघट-पटादिविषयाणाञ्चास्त्यभेदः इत्युक्तं प्राक् । तथाहि -

'विज्ञानमात्रमत्रोक्तं योगाचारेण धीमता।

ज्ञानं ज्ञेयं विना नास्ति बाह्यार्थोऽप्यस्ति चेतनः ॥

नीलपीतादिभिश्चित्रर्बुद्धयाकारैरिहान्तरैः ।

सौत्रान्तिकमते नित्यं बाह्यार्थस्त्वनुमीयते ।।

विषयत्वविरोधस्तु क्षणिकत्वेऽपि नास्ति नः ।

विषयत्वं हि हेतुत्वं ज्ञानाकारार्पणक्षमम् ॥'

अत्राशङ्कते यज्ज्ञानाद्भिन्न कालस्यार्थस्य ग्राह्यत्वमेवाऽनुपपन्नमिति चेत्तदप्य नुपपन्नम् । इन्द्रियसनिकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पकतया समर्पितेन चाऽऽकारण तस्याऽर्थस्याऽनुमेयतोपपत्तिरपि जायते सौत्रान्तिकनये । उक्तञ्च -

'भिन्न कालं कथं ग्राह्य मिति चेद् ग्राह्यतां विदुः ।

हेतुत्वमेव च व्यक्तेर्जानाकारार्पणक्षमम्' ।।

इत्थं च यथा धूमेन वह्निरनुमीयते, भाषया देशोऽनुमीयते, शारीरिपुष्टि दर्शनेन च भोजनमनमीयते, तथैव ज्ञानाकारेण ज्ञेयो विषयोऽनमीयते । तथा चोक्तम्

'अर्थन घटयत्येनां नहि मुक्त्वाऽर्थरूपताम् ।

तस्मात् प्रमेयाधिगतेः प्रमाणं भेदरूपता' । -तत्रैव ।

तत्र च 'अहम्' इत्याकारकं विज्ञानमालयविज्ञानम् । घट-पटाद्युल्लेखि 'अयम्' इत्याकारकम्, 'इदम्' इत्याकारकञ्च विज्ञानं प्रवृत्तिविज्ञानं कथयति । यथोक्तम् -

'तत् स्यादालय विज्ञानं यद्भवेदहमास्पदम् ।

तत् स्यात् प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत्' । —तत्रैव ।

सौत्रान्तिकमतम्

'अर्थोऽस्ति क्षणिकस्त्वसावनुमितो बुद्धयेति सौत्रान्तिकाः' ।

अयं सौत्रान्तिकनाम्ना व्याहियमाणो बुद्धमतसमीक्षणविधानार्थमेव खल सौत्रान्त्रिको बौद्धः सूत्रमेव अर्थात् सूत्रान्तमेव प्रामाणिकं मन्यमानोऽयं स्वमात्मानं 'सौत्रान्तिके'ति संज्ञया संज्ञितवान् ।

एतावता खल्विदं समीचीनमेव प्रतिभाति यत् सर्वथा प्रामाणिकस्य सूत्र स्यान्ते गुरुं प्रति प्रश्नकर्तृत्वेन 'सौत्रान्तिके ति नामकरणं नितान्तं युक्तियुक्तं रोचते ।

भगवतो बुद्धस्य सूत्रान्तानां सर्वथा प्रामाणिकानां शिक्षायाः मूलाधारभूत त्वेन भ्रान्तिविपर्ययादिदोषाणां तत्राऽवसर एव नास्तीति सूत्राणां ( सूत्रान्तानां) प्रामाणिकत्वम्, अभ्रान्तत्वम्, सर्वथा निर्दोषत्वञ्च मन्यमानोऽयं सौत्रान्तिकेति संज्ञया संज्ञितोऽभूत् ।

अर्थात् सन्ति त एव सौत्रान्तिका ये वुद्धवचनस्य केवलं प्रामाण्यं स्वीकृर्वन्ति सूत्रान्तञ्च प्रमाणयन्ति । अर्थाद् ये कात्यायनीपुत्रादिशास्त्रकारद्वारा विनिर्मित 'अभिधर्मग्रन्थानां प्रामाण्यं नाऽभ्युपगच्छन्ति यतस्तेषां ग्रन्थानां वुद्धोक्तप्रामाण्य दिशा प्रामाण्यानवगाहनात् । म

अत एव अभिधर्मकोशव्याख्यायां पृ० ११; ३० पङ्क्तौ लिखितमस्ति यत्

'ये सूत्रप्रामाणिका न तु शास्त्रप्रामाणिका' इति ।

एतन्मतानुसारं ज्ञानमपि सत्यम्, ज्ञेयमपि सत्यम्, कथञ्चिदसत्यत्वप्रकारि कायां सम्भावनायां जायमानायामपि तात्त्विकी असत्यता तु नास्त्येव, यतोऽनु भूयमानस्य घट-पटादेः कथमप्यपलपितुमशक्यत्वात्, मिथ्यात्वं वदितुमशक्य त्वादित्यर्थः । तथैव ज्ञानस्यापीति ।

सौत्रान्तिकाः खल सत्ताविषये ज्ञान-ज्ञेययोः सत्तामङ्गीकुर्वाणाः सन्तः सर्वास्तितावादमभ्युपगच्छन्तीत्यतस्ते सर्वेषामेव धर्माणां वाह्यपदार्थानाञ्चाऽस्ति त्वमङ्गीकुर्वन्ति, नहि केवलं चित्तस्वरूपस्यैव विज्ञानस्य सत्तां स्वीकुर्वन्ति ।

एवमेतन्मते पृथिवी-जल-तेजो-बायवश्चत्वार एव सन्ति पदार्थाः । घट पटादिकम्, तथा स्थूलजलादिकञ्च खल्वस्ति तत्तत्परमाणुपुञ्जरूपमिति नास्ति न्यायवैशेषिकमतसिद्धं तादृशपुजातिरिक्तमवयविस्वरूपम् इति ।

एवमत्र नये विशेष-समवायाऽभावानां त्रयाणां पदार्थत्वमेव नाङ्गीक्रियते । गुणकर्मादीनां द्रव्यान्तर्भूतत्वान्नैव तेषां पार्थक्यकथनं साधु सङ्गच्छते । एवमेव सामान्यापरपर्यायभूताया जातेरपि पदार्थत्वमेव नास्ति । जातेरपोहवादाऽङ्गी कारेणैव निराकरणात् । अपि च

'न याति न च तत्रासीत् न चोत्पन्नं न चांशवत् ।

जहाति पूर्वं नाधारमहो ! व्यसनसन्ततिः' ।

इत्यादिना जातेनिराकरणं स्वयमेवोहनीयम् ।

आत्मा चैतन्मते शरीरेन्द्रियबुद्धिसुखदुःखधर्माऽधर्मसमुदायस्वरूप एवेति ध्येयम् । प्रत्यक्षाऽनुमानयोरेव चास्ति प्रामाण्यम् । न चैतन्मते शब्दस्यास्ति प्रामाण्यम्, तस्य प्रागेव दर्शितत्वात् ।

प्रश्न:-बाह्य जगतश्वास्ति चेत् सत्यत्वम् ( कीदृशी सत्ता स्वीकार्या, प्रत्यक्षसत्ता स्वीकार्या, अनुमेयसत्ता वेत्युच्यताम् ?

उत्तरम्-विज्ञानस्य चास्ति प्रत्यक्षसत्ता, बाह्यजगतश्चास्ति अनुमेयसत्ता इति । सौत्रान्तिकाः खलु बाह्यार्थस्य घट-पटादेरनुमेयत्वं वदन्ति । तेषामयमाशयः यत्-यादृशक्षणावच्छेदेनापि केनचित् पदार्थेन सममस्माकमिन्द्रियाणां सम्बन्धो जायते तादृशक्षणाव्यवहितोत्तरद्वितीयक्षणस्तस्य पदार्थस्य प्राथमिको क्षणो गण्यते स चेन्द्रियसम्बद्धः पदार्थस्तस्मिन्नेव प्रथमक्षणे क्षणिकत्वात् समु त्पद्य पुनस्ततो द्वितीयक्षणे स्वास्तित्वं समापयति, अर्थात् तद् द्वितीयक्षणे स्वस जातीयं समुत्पाद्य स्वयं स्वास्तित्वं समाप्ति नयति । अत एव स्वाऽव्यवहितोत्तर क्षणवृत्तिध्वंसप्रतियोगित्वरूपं क्षणिकत्वं सर्वेषु पदार्थेषु घट-पटादिषु सङ्घटते ।

अत एवाऽयं सौत्रान्तिकः सन्ततिवादी क्षणिकवादीति गण्यते । एतन्मते सर्वमेव वस्तु क्षणिकम्, यद् वस्तु क्षणमात्रमेव सन्तिष्ठते तदेव क्षणिकं,

नान्यत् ।

तुल्यवित्तिवेद्यतया क्षणधर्मवान् क्षणिक इत्यपि वक्तुं शक्यते । यथा-दण्ड धर्मवान् दण्डी दण्डिको वेत्यलं पल्लवितेन ।

वैभाषिकमतम्

अयञ्च वैभाषिकसम्प्रदायो वर्ततेऽतीव प्राचीनम् । अत एव वैभाषिका हीनयानाऽवलम्बिनः सन्तीति कथयन्त्यन्ये दार्शनिका विद्वांसः । सम्प्रदायश्वायं प्राचीनकाले सर्वास्तितावादनाम्नैव प्रसिद्धि प्राप्त आसीत् ।

वैभाषिकाणां सर्वास्तिवादित्वं श्रीशङ्कराचार्योऽपि पुष्टीकृतवान् स्वाय शाङ्करभाष्ये । तथाहि -

'तत्र ते सर्वास्तिवादिनो' बाह्यमन्तरञ्च वस्तु अभ्युपगच्छन्ति भूतञ्च, भौतिकञ्च, चित्तञ्च, चैत्तञ्चेति ।'

एवं षडदर्शनाचार्यः श्रीवाचस्पति मिश्रोऽपि शाङ्करभाष्यस्य भामताटाकाया वैभाषिकनिष्ठं सर्वास्तिवादित्वं समर्थितवान् । तथा चोक्तम्

'यद्यपि वैभाषिक-सौत्रान्तिकयोरवान्तरभेदोऽस्ति, तथापि सर्वास्तिताया मस्ति सम्प्रतिपत्तिरित्येकीकृत्य उपन्यस्तः'। अपि च--

'अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते ।

सौत्रान्तिकेन प्रत्यक्ष ग्राह्योऽर्थो न बहिर्मतः ॥

आकारसहिता बुद्धिर्योगाचारस्य सम्मता ।

केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः ।।

एतेनेदमेवाऽऽयातं यत् सौत्रान्तिक-वैभाषिकयो स्ति महान् भेदः, स्वल्प मेवाऽन्तरमस्तीति न दोष इति ध्येयम् ।

सर्वास्तिवादमतानुसारं सकलानेव जागतिकान् पदार्थान् बाह्याभ्यन्तर रूपान् समभ्युपगच्छति वैभाषिकः । अत एवेदं सर्वास्तिवादीति संज्ञाविधानमस्य सर्बथाऽन्वर्थकत्वेन साधू सङ्गच्छते ।

बौद्ध भिक्षूणां चतुर्थसङ्गीतेरवसरेऽस्य सर्वास्तिवादसम्प्रदायस्य आर्यकात्या यनीपुत्रविनिर्मितस्य 'ज्ञानप्रस्थान'-नामकग्रन्थस्योपर्येका महती सर्वास्तिवाद सिद्धान्तान् प्रकाशयित्री प्रामाणिकी टीका विनिर्मिता चास्तीति श्रूयते, या च 'विभाषा' इति नाम्ना महती प्रसिद्धि प्राप्ता चास्तीति तां विभाषामादायैवाऽस्य सम्प्रदायस्य वैभाषिकेति नामकरणं सर्वथा समीचीनमेव संवृत्तमिदमहं समुचित मेव मन्ये ।

विभाषया दिव्यन्ति चरन्ति वेति वैभाषिकाः । आहोस्वित् विभाषां वदन्ति ( कथयन्ति ) इति वैभाषिका इत्यपि तुल्यवित्तिवेद्यन्यायेन सर्वथा व्याहर्तुं शक्यते ।

अस्मिन् वैभाषिकनये केवलं ज्ञानस्य ज्ञानविषयीभूतानाञ्च बाह्यपदार्थानां सत्यत्वम्, प्रत्यक्षत्वम्, क्षणभङ्गुरत्वञ्च स्वीकृतमस्ति ।

तथा चोक्तम् -

'प्रत्यक्षं क्षणभङ्गुरञ्च सकलं वैभाषिको भाषते' ।

अनेनैव चतुर्णा बौद्धानां मतानि प्रदर्शितानि भवन्ति । तथाहि -

'मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत् ।

योगाचारमते तु सन्ति मतयस्तासां विवर्तोऽखिलः ।।

अर्थोऽस्ति क्षणिकस्त्वसावनुमितो बुद्धयेति सौत्रान्तिकाः ।

प्रत्यक्षं क्षणभङगुरञ्च सकलं वैभाषिको भाषते ।।

एतेन चतुर्णामेव बौद्धदार्शनिकानां स्वस्वमतानुसारमात्मविषयकं गूढं रहस्यं सक्षेपेण दर्शितम् इति न तत्र काप्यनुपपत्तिरापत्तिर्वा इति विज्ञेयम् ।

इदमत्राऽवधेयमस्ति यद वैभाषिका अपि सौत्रान्तिकवदेव बाह्याथघट टादीनां सत्तां स्वीकुर्वन्ति । परन्तु एतावांस्तु विशेषः यत् सौत्रान्तिका बाह्यार्थघट-पटादीनामनुमेयत्वं मन्यन्ते । वैभाषिकाश्च पुनः प्रत्यक्षविषयता स्वीकुर्वन्ति बाह्य घट-पटादिपदार्थानाम् । ..

अनात्मवादः

कातपयाऽऽस्तिकजना दार्शनिका आत्मन: स्वरूपमित्थं निरूपयन्ति विचार यन्ति च किमिदमात्मनोऽस्तित्वं केवलमस्मिन्नेव जन्मनि पर्याप्तमस्ति आहास्विद तज्जीवनान्तरं कालान्तरेऽपि ( जन्मान्तरेऽपि ) तदीयमस्तित्वं सन्तिष्ठमानं भवति ।

यम-नचिकेतसोः संवादेन सुस्पष्टमिदं विज्ञायते यत्-आत्मनोऽस्तित्वं कालान्तरेऽपि अर्थात् सर्वस्मिन् काले स्वास्तित्वं संस्थापयन्नक्षुण्णतया वर्तते -

इत्यत्र नास्ति लेशतोऽपि विवादः । अन्यथा कृतहान-अकृताभ्यागमप्रसङ्गः स्यात् इत्यतो ह्यात्मनो नित्यत्वं नितान्तमावश्यकम् ।

अपि च प्राणिमात्रान्तर्गता बहवः प्राणिनः खल्वेतद्वर्तमानकालीनं सुखं सम्यक समनुभूय वदन्ति यदग्रिमेऽपि जन्मनि वयमेवमेव सुखिनो भवेमः—इत्य नेनाप्यात्मनो नित्यत्वं सिद्धयति । उक्तञ्च -

'सुखी भवेयं दुःखी वा माऽभूवमिति तृष्यतः ।

यैवाहमिति धीः सैव सहजमात्मदर्शनम् ॥' -श्रुतमात्रम् ।

आत्मनः पारमार्थिकत्वखण्डनम्

बुद्धो हि भगवान् स्वयमनात्मवादस्य स्वभावत एव महान् पक्षधर आसीत् । अत एव बौद्ध दर्शनस्य सर्वथाऽऽधारभूतभित्तिश्चास्ति केवलमनात्म वादः । अस्मादेव हेतोर्भगवान् बुद्धः साभिनिवेशोऽनात्मवादं व्यवस्थापयामास ।

अनात्मवादमधिकृत्यैव साक्षाद् बुद्धो बौद्धाश्च स्वीयं सकलं बौद्धसिद्धान्त सिद्धमाचारविचारादिकं सम्पादयन्ति सञ्चालयन्ति च ।

अनात्मवादस्थापनस्य महात्मनो बुद्धस्येदमेव चरमं लक्ष्यमासीत् यत् सर्वे एव सांसारिका जना आत्मनो यथार्थस्वरूपमविज्ञायैव तत्प्रसन्नतायै सर्वथा व्यर्थ मेव खलचितानुचितकर्मादिकं समाचरन्ति । यज्ञ-यागादिरूपं स्वशास्त्रसमर्थितं तथा सर्वथा निषिद्धं परस्त्रीगमनमपि समनुतिष्ठन्ति केवलमात्मनः प्रसन्नतायै । आत्मा कीदृश स्वरूपवान्, कीदृश रंगरूपादिमान्, का चास्ति तस्याकृतिः, कीदृशश्चास्ति तस्य परिमाणः ह्रस्व-लघु-महदादिरूपः ? ____इत्थञ्चेत्यादिरूपेण नैव वराका भवन्तो वेदप्रामाण्यमभ्युपगन्तारो दार्शनिका विद्वांसो यदाऽऽत्मनः स्वरूपं विजानन्ति, परिचिन्वन्ति कथं पुनस्तत्प्रसन्नतायै यज्ञ-यागादिरूपकार्याणां समनुष्ठानं ब्रुवन्ति प्रकुर्वन्ति च--'छिन्ने मूले नैव पत्रं न शाखा' अर्थात् आत्मनः स्वरूपात्मके मूले छिन्ने सति तत्र पत्रशाखादिरूपेण नित्यत्वाऽनित्यत्वादिप्रकारको विचारोऽपि सर्वथा निरर्थक एवेति मन्तव्यम् । तत्रोदाहरणमाह -

भगवान् बुद्धो ब्रूते यत्-हे भिक्षवः ! यथा कश्चित् चैत्रप्रभृतिर्व्यक्तिविशेषो मैत्रनामकं व्यक्तिविशेष प्रति ब्रूते यत्- 'शकुन्तला'-नाम्नी युवती महिला चास्त्यतीव सौन्दर्य-आह्लादकत्वादिधर्मावच्छिन्नेति तामदृष्ट्वैव केवलं श्रवण मात्रेण तां युवतीं हृदयङ्गमाञ्चेद् विधातुं कामयते मैत्रनामकः कश्चिद् विपश्चित्तदन्यो वा।

तदा हे भिक्षवः ! किमतः परं तेषामनभिज्ञत्वं मौयं वेति ते एव वेद प्रामाण्याऽभ्युपगन्तारो विदाकुर्वन्तु विचारयन्तु च । अपि च -

'मुखमस्तीति वक्तव्यं दशहस्ता हरीतिकी'। - प्रायः श्रूयते ।

इति प्राचीनोक्त्या दशहस्ता हरीतिकीवत् साऽपि स्वरूपाऽऽकृत्या दृष्टा युवती शकुन्तला मिथ्या। एवं स्थिते मैत्रनिष्ठस्य तदीयहृदयङ्गमत्वस्याऽपि मिथ्यात्वेन वैयर्थ्यमेवेति मन्तव्यम् ।

अत आशामोदकायमानायाः केवलं श्रवणमात्रेण पदार्थोपस्थितिविषयी भूतायाः, शाब्दबोधविषयीभूताया वा तस्या युवत्याः परमार्थतो मिथ्यात्वेन सत्ताशून्यत्वमेव निश्चीयताम् ।

आत्मनोऽपि तथात्वेन वस्तुतः सत्ताशून्यत्वमेव प्रमीयताम् इति दूरेऽपास्ता तदीया यज्ञ-यागादिभिः, परस्त्रीगमनादिभिश्च तस्याऽऽत्मनः प्रसन्नतेति यज्ञ यागादीनां भवच्छास्त्रविहितानामपि विधानं सर्वथा व्यर्थमेवेति ध्येयम् ।

अतो हे भिक्षवो जनाः ! आत्मनो विषयेऽपरिवर्तनशीलत्वस्य ध्वंसाप्रति योगित्वे सति प्रागभावाऽप्रतियोगित्वरूपस्य नित्यत्वस्य च नहि कदापि सम्भाव यितुं शक्यते अत एव तादृशीं बुद्धोक्तां मूलभूतां प्रभूतां सरणि समनुसरन्तो वैभाषिका अपि बौद्धदार्शनिका नहि कस्यापि मूलकारणस्यैकस्य जगदुत्पादनविषये व्यवस्थां प्रकुर्वन्ति । नहि ते कदापि कथमपि विष्णोर्वा, महादेवतो वा आहो स्वित् प्रकृतितो वा कस्मादप्येकस्मात् कारणात् जगतो जान स्वीकुर्वन्ति ।

यद्येवं स्यात अर्थात भावभूतपदार्थानां सर्वेषामेवैककारणतः समुत्पत्तिर्यदि स्यात्तदा कारणान्तरानपेक्षत्वेनेश्वरो युगपदेन अर्थात एककालावच्छेदेनैव जगतो जनि विदध्यात् । परन्तु नैवं भवति तत्र भावानां समुत्पत्तौ क्रमोऽपेक्ष्यते । अतो कार्याणां कादाचित्कत्वं तत्रापेक्षितं भवति । तथा चोक्तम्

नेश्वरो जन्मिनां हेतुरुत्पत्तिविकलत्वतः ।

गगनाम्भोजवत् सर्वमन्यथा युगपद्भवेत् ॥

अतो नास्तीश्वर आत्मा वा परमार्थतो वस्तुभूतः पदार्थः । अत एवाऽस्माभि बौद्धदार्शनिकै.रात्म्यवादो निरीश्वरवादो वा स्वीक्रियते ।

श्रीअश्वघोषः

१८९२ ईसवीये वर्षे 'सिलवां लेवी' नामकः कश्चिन्महाशयः श्रीअश्व घोषस्य महाकवेर्महादार्शनिकस्य च 'बद्धचरित'-नामकग्रन्थस्य प्रथमसग प्रका शितवान् । तावत्कालपूर्वकालावच्छेदेन 'योरोप'-प्रदेशे नहि कोऽपि जानातिस्म यद् अश्वघोषश्चास्ति कश्चिदेको महान् कविः, महान् दार्शनिकश्चेति ।

इदमत्रावधेयमस्ति यद् अश्वघोषोऽपि पूर्व वैदिकधर्मावलम्बी ब्राह्मणत्व जात्यवच्छिन्नश्च सन् 'साकेते' 'साकेतम्' वा स्वीयं निवासस्थानं विदधानः खलु बौद्धधर्मावलम्बी संवृत्तः । अयञ्च महानुभावो महानेव दार्शनिकः सन् महाकविरप्यासीदित्यत्र सौन्दरनन्द-बुद्धचरितप्रभृतिग्रन्था एव सन्ति प्रमाणम् । तत्र महाकविः श्रीअश्वघोषः खलु बौद्ध मतावलम्बनानन्तरमद्वैतं ब्रह्मेत्येक परमार्थतत्त्वं प्रस्फोरितवान् । तथाहि

आकाशसममात्मानं सङ्क्षिप्य त्वपरो बुधः ।

तदैवाऽनन्ततः पश्यन् विशेषमधिगच्छति ॥

अध्यात्मकुशलेष्वन्यो निर्वात्मानमात्मना ।

किञ्चिन्नास्तीति सम्पश्यन्नाकिञ्चन्य इति स्मृतः ॥

अपि च -

ततो मुजादीषिकेव शकुनिः पञ्जरादिव ।

क्षेत्रज्ञो निःसृतो देहान्मुक्त इत्यभिधीयते ॥

एतत्तत् परमं ब्रह्म निलिङ्गं ध्रुवमक्षरम् ।

यन्मोक्ष इति तत्त्वज्ञानं कथयन्ति मनीषिणः ।।

इति बुद्धचरितनामकमहाकाव्य घटकीभूतैरेभिश्चतुभिः श्लोकात्मकैः पद्यैः श्रीअश्वघोषस्य महाकवित्व-महादार्शनिकत्वोभयधर्मावच्छिन्नत्वं सूचितं भवतीति

विज्ञेयम् ।

अस्य माता परमतपस्विनी जगद्वन्द्या 'श्रीसुवर्णाक्षी'-नाम्नी परमसनातन धर्मावलम्बिनी आसीदित्यत्र नास्ति लेशतोऽपि विचिकित्सावसरः ।

अयञ्चाऽप्यश्वघोषः कस्यचिज्जन्म-जन्मान्तरीणकर्मवैगुण्यरूपकारणवशादेव बौद्धधर्मावलम्बी संवृत्त इत्यहं 'शशिबालागौडः' अस्येतिहासं पौर्वापर्यक्रमञ्च विज्ञाय खल्वनुमानतो ब्रवीमि ।

एवमयं श्रीअश्वघोषो बौद्धधर्मावलम्बी सन् महायानमार्गीयधर्मोपदेष्टा ऽप्यासीत् ।

राजा कनिष्कः ( १२०-१६० ईसवीये वर्षे ) 'पटना' इत्याख्यां पाटलि पुत्रेति बिहारप्रान्तीय राजधानीमाक्रम्य श्रीअश्वघोष 'पुरुषपुरे' जायमानाया बौद्धधर्ममहासभाया उपसभापति नियुक्तवान् । अनेन महानुभावेन श्रीअश्वघोषेण निम्नोल्लिखिता बहवो ग्रन्था विरचिताः । तथाहि

१. 'बुद्धचरित'-नामकमेकं महाकाव्यम्,

२. 'सौन्दरनन्द'-नामकं द्वितीयं महाकाव्यम्,

३. 'सूत्रालङ्कारः',

४. 'महायानश्रद्धोत्पादः',

५. 'वज्र सूचिः',

६. 'गण्डिस्तोत्रम्',

७. 'शारिपुत्रप्रकरणञ्चे'ति सप्तसङ्ख्याकाः ग्रन्थाः विरचिताः ।

अपि च सौन्दरनन्दमहाकाव्येनाऽप्यस्य श्रीअश्वघोषस्य महादार्शनिकत्वं महाकवित्वञ्च सुस्पष्टतया प्रतीयमानं भवति । तथाहि

'रिरंसा यदि ते तस्मादध्यात्मे धीयतां मनः ।

प्रशान्ता चानवद्या च नास्त्यध्यात्मसमा रतिः' ।।

दिङ्नागः

अयञ्च बौद्ध दर्शनाचार्यो बौद्ध दर्शनमहामनीषी श्रीदिङ्नागः ४८०-५२० ईसवीयवर्षीयः स्वीयजीवनास्तित्वसंरक्षणपरो बौद्धन्यायशास्त्रीयपदार्थानाम तीव गूढज्ञानवत्त्वेन बौद्धनैयायिकेष्वतीव श्रेष्ठत्वेन परिगण्यमान आसीत् ।

अस्य दिङ्नागस्य विषये तदानीन्तनानां बौद्धविदुषामियमासीत् किंवदन्ती यद्-बौद्ध दर्शनाऽध्ययनाऽध्यापनयोस्तदर्थज्ञानज्ञापनयोस्तथा बौद्धधर्म-दर्शना चार्योक्तकर्मानुष्ठानाऽनुष्ठापनयोश्चायमेवास्ति दक्षो बौद्धश्रेष्ठो दिङ्नागः । अतोऽयं प्रमाणपुरुषो यदपि कार्य नियमेनाऽनुतिष्ठति तदेव कार्य प्रमाणसिद्धं युक्तिसिद्धं कर्तव्यत्वेनाऽनुष्ठेयञ्च मन्यते लोकः ।

अयञ्च श्रीदिङ्नागश्चास्ति वसुबन्धुशिष्यस्तथा निम्नोल्लिखितानां नाना ग्रन्थानाञ्चास्त्ययं निर्माणकर्ता । तथाहि -

१. 'सटीकप्रमाणसमुच्चयः',

२. 'न्यायप्रवेशः',

३, 'हेतुचक्रडमरू:',

४. 'आलम्बनपरीक्षा',

५. 'प्रमाणशास्त्रप्रवेशः',

इत्यादिग्रन्थानां बौद्धदर्शन मार्गप्रदर्शकानां रचनां कृतवान् स्वयं दिङ्नागः । गोतमीयन्यायशास्त्रीयभाष्य भूतस्य प्रभूतस्य वात्स्यायनस्याऽयं खण्डनमपि कृतवान् श्रीनागः । केवलं चत्वारिंशद् ( ४० ) वर्षावस्थायामेवाऽयं प्रागुक्तम् ( उपर्युक्तं ) सर्वमनित्यं कृत्यं परिसमापितवान्, गतवांश्चेति विज्ञेयम् ।

वसुबन्धुः

अयञ्च 'श्रीवसुबन्धु'-श्वासीत् साक्षादाचार्यप्रवरश्रीदिङ्नागस्य विद्यागुरुः । सर्वानेव बौद्धशास्त्रसम्बन्धिनो धार्मिकान् दार्शनिकांश्च ग्रन्थान् श्रीवसुबन्धोः सकाशादेवाऽधीतवान् श्रीनागः । अनेनैव श्रीवसुबन्धोः पाण्डित्यं ( बौद्धशास्त्रीयं वैदुष्यं ) सर्वथा महदुच्चकोटिक प्रतीयते श्रीदिङ्नागगुरुत्वेन ।

अयञ्च महानुभावः श्रीवसुबन्धुः श्रयते यत्- 'पेशावर'-नामकस्य प्रदेश विशेषस्य जनिमान् सन् कौशिकगोत्रोत्पन्न आसीत् ।

अपि चाऽयं खल श्रीबन्धुः ४२०-५०० इसवाय 4२०-५०० ईसवीये वर्षे स्वास्तित्वसंरक्षण परायणः सन् नालन्दा-विद्यालयेऽध्यापकस्य 'श्रीआसङ्ग'स्याऽनुजभ्राता चाऽऽसीत् हशत च कस्यचित् प्रामाणिकस्य बौद्धविदुषः प्रामाण्यं समुपस्थापितं मया शशि बालागी नेत्यत्र नास्ति लेशतोऽपि सन्देहानध्यवसायावसर इति ।

अयञ्च बौद्धदर्शनविद्वान् महामनीषी श्रीवसुबन्धुः ४८९ ईसवीये वर्षे श्रीसङ्गभद्रस्य समानकालीनतामापन्नः सन्नेवाऽशीति (८०) वर्षाऽवस्थायां स्वर्ग प्रति प्रस्थितवान् विद्वान् ।।

अपि चाऽयं श्रीबन्धुः काशी-गया-अयोध्या-काञ्ची-शाकल्य-कौशाम्बीप्रभृति तीर्थेषु परिभ्रमन् चरन् विचरंश्च सात्त्विकतापूर्वकं स्वीयं सात्त्विकजीवनं यापयन् कालं नीतवानिति ।

'अभिधर्मकोश'-नामको ग्रन्थोऽनेनैव महानुभावेन श्रीवन्धुना विरचित इति । अयञ्च ग्रन्थो वर्तमानकालावच्छेदेन द्वित्रिभागेषु मिलतीत्यपि विज्ञेयम् ।

वसुबन्धुः कथयति यद्-आलयविज्ञानम् अनिवृत्तम्, अव्याकृतञ्चास्तीति प्रवाहवत् स्रोतसि सर्वथाऽनुवर्तमानं सत् सन्तिष्ठते । 'तच्च वर्तते स्रोतसौ घवत्' इति चास्ति कथनं श्रीवसुबन्धोः । तच्च कथनञ्चास्ति सर्वथाऽनुभवसिद्धं याथार्थ्य गभितमेवेति विज्ञेयम् ।

यतः 'यत् सत् तत् क्षणिकम्' इति व्याप्तिबलेन भावमात्रस्यैव क्षणिकत्वेन विज्ञानस्यापि क्षणिकत्वात्, तदन्तर्गतस्याऽऽलयविज्ञानस्यापि तथात्वेन क्षणिकत्वं विज्ञेयम् ।

प्रश्नः-नन्वेवं क्षणिकत्वपक्षे सुषुप्त्यवस्थायामालयविज्ञानरूप आत्मा नैव सिद्धयेत् । यतः पूर्वोत्पन्नविज्ञानस्य विनाशात्, विज्ञानान्तरस्योत्पादकाभावाच्च ।

उत्तरम् — पूर्वपूर्वविज्ञानस्योत्तरोत्तरविज्ञानं प्रति कारणत्वेन सुषुप्त्यवस्था यामप्यालयविज्ञानधारा 'अहम्' इत्याकारिकारिका निराबाधा सती सञ्चरति । अतः सुषुप्तावात्मा आलयविज्ञानरूपो निराबाधस्तिष्ठति । मृगमदवासनावासित वसन इव पूर्वपूर्वविज्ञानजनिताः संस्कारा उत्तरोत्तरविज्ञाने सङ्क्रान्ता भवन्ति, इत्यतः स्मरणादेरपि नास्ति काचिदनुपपत्तिः ।

अतश्चाऽऽलयविज्ञानरूपोऽयमात्मा नास्ति कदापि नित्यः शाश्वतो नापि चोच्छिन्नः । अत एवेदं विज्ञानसन्तानमनादिकालत एवोच्छेदं विनवाऽनवरतं प्रवाहितं भवतीति वसुबन्धुः स्वीयं प्रकाशं प्रकाशयति । क्षणिकत्वावच्छिन्नत्वेन चेदं विज्ञानं प्रतिक्षणं जायते नश्यति च पौर्वापर्यक्रमेण परिवर्तितं प्रवर्तितञ्च भवति ।

नागार्जुनः

अयञ्च 'श्रीनागार्जुनः' खल्वार्यत्वेन व्यवह्रियमाणत्वेन 'आर्यनागार्जुने'ति नाम्ना तदानीन्तनकालावच्छिन्नर्जनाह्रियमाण आसीत् । ___ अयं खलु 'आर्यनागार्जुनः' शतत्रयात्मके ( ३०० ) ईसवीये वर्षे माध्यमिकः शून्यतत्त्वस्य शून्यवादस्य वा पथप्रदर्शनप्रवर्तको बभूव । तस्मादेव कालादयं शून्यवादः पूर्णतया प्रचलितः प्रसृतश्चाऽभूत् ।

तदानीमेव लम्बायमाने कालेऽयमेव श्रीआर्यनागार्जुनः 'कृष्णा' इति नाम्न्यो नद्यास्तटवर्तिनि श्रीपर्वते महतीं कठिनं तपश्चर्यां चरन्नासीत् । तादृशकठिन तमरूपावच्छिन्नतपोबलप्रभावेनैवाऽयं श्रीनागार्जुनः स्वकीयं बौद्धमतैकदेशीयं स्वतन्त्रमेकं स्वीयबुद्धिवैभवं शून्यवादम् आहोस्वित् शून्यतत्त्वं संस्थापितवान् ।

श्रूयते यत् नालन्दा-विश्वविद्यालयस्याऽयमेव खलु श्रीनागार्जुनः संस्थापकः सम्प्रवर्तकश्वासीत् ।

अयञ्च श्रीनागार्जुनः श्रीनिमिचन्द्रस्य राज्ञः शतत्रयात्मके ( ३०० ) ईस वीये वर्षे स्वास्तित्वसम्पन्नः सन् समकालीन आसीत् ।

अनेन श्रीनागार्जुनेन स्वयं विनिर्मिताः सम्पादिताश्च सन्ति बहवो ग्रन्था इति । येषां ग्रन्थानां नामानि सन्ति खल्वधो लिखितानि । तथाहि

१. 'माध्यमिककारिका' अथवा 'माध्यमिकसूत्रम्',

२. 'अष्टसाहस्रिका',

३. 'प्रज्ञापारमिता',

४. 'उपायकौशल्यम्',

५. 'विग्रहव्यावर्तिनी',

६. 'युक्तिषष्ठिका',

७. 'शून्यतासप्ततिः',

८. 'प्रतीत्यसमुत्पादहृदयः', इत्यादयः सन्ति ग्रन्थाः प्रसिद्धिं गताः श्रीनागार्जुनस्य ।

तत्र 'माध्यमिककारिका'-ग्रन्थे, 'माध्यमिकसूत्र'-नामके वा ग्रन्थे चतुःशतक( ४००)कारिकाः सन्ति । अस्योपरि श्रीनागार्जुनः 'अकुतोभया'-नाम्नीमेकां टीकां लिखितवान् । अस्याः केवलं तिब्बतीभाषायामेवाऽनुवादो मिलति नान्यत्र कुत्रापीति च ।

अयमपि विषयः परम्परया कर्णाकर्णिकया श्रुतिगोचरतां गतः समायाति यत्-४०० ईसवीये वर्षे मिहिराकुलेन हूणजातीयेन गान्धारदेशं महता वेगेन समाक्रम्य बौद्धदर्शनानां तादृशधर्मग्रन्थानाञ्च महती क्षतिळधायि । तेन संस्कृत भाषायां सुनिबद्धाः ग्रन्थाः-आधिक्येन विलोपं गताः श्रूयन्ते । येनाऽधुनातन कालावच्छेदेनापि ते नोपलभ्यन्ते इति ।

चीनदेशीयभाषायामवश्यमेवाऽनुवादितास्ते मिलन्ति, परन्तु नैव ते सर्वजन सुखकरा सर्वजनसमुपयोगिनः सन्तीति नूनं विभावनीयम् । ___ अयमेव खलु नागार्जुनो माध्यमिकसम्प्रदायस्यापि स्थापनां कृतवान्, अय मेव च शून्यवादोऽप्यभिधीयते शून्यतत्त्वमेव वा । उक्तञ्च

'मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत्' ।

श्रीधर्मकोतिः

६०० ईसवीये वर्षे लब्धसत्ताकेन श्रीधर्मकीर्तिना-१. 'प्रमाणवार्तिक'स्य २. 'न्यायबिन्दो'श्चेत्येतद् द्वयस्य ग्रन्थस्य निर्माणं कृतम् । ग्रन्थद्वयमिदं श्रीसम्पूर्णानन्द-संस्कृत-विश्वविद्यालयीयपरीक्षायामपि चास्ति निर्धारितम् । मया शशिबालागोडेन स्वयमेवैतद् ग्रन्थद्वयं स्वीयाध्यापनकालावच्छेदेनाऽनुभूतम् ।

तथा-उद्योतकराऽपरनामधेय-श्रीभारद्वाजविरचित-'न्यायवार्तिक'स्य चास्ति खण्डनकर्ताऽयमेव खल 'धर्मकीति'-नामको बौद्धदार्शनिको बौद्धविद्वान् इति विवादशून्यतापंरोऽयं विषयः ।

अयञ्च वार्तिककारः श्रीधर्मकीतिर्भगवतो बुद्धस्य प्रामाण्यं बोधयितुं तदीया मभ्याससाध्यां करुणामेव साधनं ब्रूते । तथा चोक्तम् -

'साधनं करुणाऽभ्यासात् सा बुद्धेर्देहसंश्रयात् ।

असिद्धोऽभ्यास इति चेन्नाश्रयप्रतिषेधतः ॥

'अभ्यासात् सा' इत्यस्य व्याख्यां कृतवान् मनोरथनन्दी। तथाहि— 'गोत्र विशेषात् कल्याणमित्रसंसर्गादनुशयदर्शनाच्च कश्चिन्महासत्त्वः कृपायामुपजात स्पृहः सादरनिरन्तराऽनेकजन्म-जन्मान्तरीणपरम्पराप्रभवाऽभ्यासेन सात्मीभूत कृपया प्रेर्यमाणः सर्वसत्त्वानां समुदयहान्या दुःखहानाय मार्गभावनया निरोध प्रापणाय च देशनां कर्तृकामः स्वयमसाक्षात्कृतस्य देशनायां विप्रलम्भसम्भा वनाच्चतुरार्यसत्यानि साक्षात्करोतीति भगवति मार्गदर्शनं कृपाप्रामाण्यस्य' । -तत्रैव ।

अपि च श्रावकात् प्रत्येकबुद्धाच्च बुद्धानामेतावांस्तु विशेषः । यथोक्तवान् धर्मकीर्तिः -

'परार्थवृत्तेः खड्गादेविशेषोऽयं महामुनेः ।

उपायाभ्यास एवाऽयं तादाच्छासनं मतम् ॥ -तत्रैव, १।१७६ ।

तत्र सम्यकसम्बद्धस्य स्वयं परार्थवृत्तित्वेन सर्वोत्तमत्वं परिगण्यते । तां दयां सत्त्वदृष्टिमूलिकां मन्यमानो वार्तिककारः श्रीधर्मकीर्तिः 'वस्तुधर्मः सा' इति कथयति । उक्तञ्च -

'दुःखज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनीं।

वस्तुधर्मा दयोत्पत्तिर्न सा सत्त्वानुरोधिनी ॥ -तत्रैव ।

अपि च पुनस्तस्यैव पुष्टीकरणम् -

'दुःखसन्तानसंस्पर्शमात्रेणैवं दयोदयः । -तत्रैव, १।१७८ ।

महायानविचारः

महायानमपि वज्रयान-मन्त्रयानभेदेन भिन्नमेव जातम् । अर्थात् शाखाद्वये विभक्तमभूत् । तत्र वज्रयाने तन्त्राणाम्, मन्त्रयाने च मन्त्राणां प्रतिपादनमस्ति । द्वयोरेवाऽनयोर्यानयोरधिकांशतो विचारो विशेषरूपेण बंगलाप्रदेशे. मिथिला प्रदेशे च मिलति । एवम् उडीसाप्रदेशे तथा आसामप्रदेशेष्वपि कियन्मात्रं समु पलभ्यते इति महदेव चमत्काराधायकत्वं विज्ञेयम् ।

तत्रेदं श्रूयते यद्-बंगलाप्रदेशे कमच्छातोऽग्रिमक्षेत्रे चास्ति कश्चन महान् दुर्लद्ध्यः पर्वतः, यस्मिन् पर्वते साक्षात् युञ्जानयोगिमहात्मवृन्दः सन्तिष्ठते । तत्रत्येयं किंवदन्ती श्रूयते यद्य दि कश्चन मृतव्यक्तिरपि तत्र कदाचित् कथञ्चित् गच्छेत्तदा तत्र सन्तिष्ठमानास्ते महात्मानो मृतशरीरेऽपि प्राणसञ्चारं कुर्वन्ति स्म ।

एवंविधा एव महात्मानो महान्तस्तान्त्रिका मिथिलायामपि मिलन्ति स्म । अधुना मिलन्ति न बेति नाऽहं शशिबालागौडो जाने ।

अस्तु विस्तृतोऽयं विषयः, अस्य महायानस्य प्रवर्तकाः सन्ति महा साङ्घिकाः । अस्य महायानस्यैव परम्पराक्रमेण योगाचारसम्बन्धितविज्ञान वादस्य तथा माध्यमिकसम्मतशून्यवादस्य च विकासक्रमो जातः ।।

एवं योगाचारी योऽस्ति विज्ञानवादः स समस्तं चराचरात्मकं जगदिदं चेतन भित्तौ संस्थाप्य जडवादं सर्वथा समापितवान् । सर्वेऽपि ये सन्ति घट-पटादयः पदार्थास्ते सर्वेऽपि सन्ति विज्ञानस्यैवाऽऽकारविशेषाः, नहि ते सन्ति विज्ञानतो. भिन्ना इति ।

एवं माध्यमिकस्य शून्यवादोऽपि अभूतपूर्वचितोऽयमस्ति विषयः । यं शून्यवादमधिकृत्याऽन्ततो गत्वा भगवान् शङ्कराचार्योऽपि शून्यवादस्यैव शरणं गतवान् । यथोक्तवान् श्रीहर्षः खण्डनखण्डखाद्यग्रन्थे

'अन्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः ।

नान्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः ॥

अन्यच्चापि श्रूयताम्-

'यदि कारण सत्तासहित यदि वा सत्ताहीन ।

उभयपक्ष कारण असत् जानो तुम मतिपीन ॥ -तत्रैव ।

महायानस्य प्रसिद्धा ग्रन्थाः -

१. 'अष्टसाहस्रिका',

२. 'प्रज्ञापारमिता',

३. 'गण्डव्यूहम्',

४. 'दश भूमीश्वरः',

५. 'समाधिराजः',

६. 'लङ्कावतारः',

७. 'सद्धर्मपुण्डरीकम्',

८. 'तथागतगुह्यकम्',

९. 'ललितविस्तरः',

१०. 'सुवर्णप्रभासः'-

एते च प्रसिद्धि गता ग्रन्था महायानस्य मया शशिबालागौडेनोपर्युक्ता दर्शिताः । इतोऽतिरिक्ता अपि सन्ति ग्रन्था ये च समयाभावात् लेखविस्तरभयाच्च नैव प्रदर्श्यन्ते, प्रदर्शयितुं वा नैव शक्यन्ते इति ।

हीनयानमार्गः

अयञ्चास्ति सर्वानुभवसिद्धो विषयो यद्-यदा कस्यापि गृहस्य, संस्थाया वा जातिविशेषस्य वा जनानां सङ्ख्या वृद्धि गता भवति तदा तत्र सर्वत्र परस्परं पार्थक्यं विभाजनं वा नितान्तमावश्यकं भवतीत्यत्र नास्ति कोऽपि विचिकित्सा वसरः ।

एवमेव भगवता बुद्धेन प्रचालितस्य बौद्धधर्मस्य, बौद्धदर्शनस्य च सङ्ख्या यावत्कालपर्यन्तं न्यूनाऽऽसीत् तावत्कालपर्यन्तं पार्थक्यं वा विभाजनं नैव जातम् ।

परन्तु यदा बौद्धधर्मस्य बौद्धदर्शनाऽध्येतृणामबाधतया सङ्ख्या वृद्धि गता ऽभूत् तदा तत्रापि मतभेदस्य जायमानत्वं सर्वथा स्वाभाविकमेव, अतस्तत्रापि हीनयान-महायानभेदेन विभाजनं समभूत् । तत्र हीनयानं प्राचीनानां महायानं नवीनानाम् ।

तत्र हीनयानमपि कर्मवादं स्वीकरोति किन्तु नैवेश्वरवादमिति । महात्मनो बुद्धस्योपदेशा आधिक्येनाऽत्रैव हीनयाने समुपलभ्यन्ते ।

भगवान् बुद्धो भिक्षुजनान् प्रति ब्रूते-हे भिक्षवः ! भवन्तः सर्वे एव 'आत्मदीपो भव' अर्थात् आत्मानं प्रकाशयन्तः सर्वानेवाऽऽत्मनः प्रकाशयन्तु । अंर्थात् सर्वतः प्राक् स्वात्मनि प्रकाशं नयन्तो भवन्तः पश्चादन्यस्मिन्नप्यात्मनि प्रकाशं प्रयच्छन्तु विस्तारयन्तु च । इदञ्च खल विषयजातमज्ञानाऽन्धकारनिरा करणे पर्यवस्यति ।

सकलमार्गसहितं बौद्धदर्शनमिदं तदवलम्बिभ्यः सर्वेभ्य एव स्वावलम्बित्वं प्रयच्छति शिक्षयति च, येन बौद्धधर्मावलम्बिनो जनाः बौद्ध दर्शनाध्येतारो वा जना 'वीरपुरुषाः' इत्युपाधिधारिणो भवन्तु । अयमेव खलु हीनयानमार्गः 'श्रावकयान'-नाम्ना तथा 'स्थविर'-नाम्नापि कथ्यते इति । अयमेव वादः स्थिरः साक्षाद् भगवता बुद्धेन समुपदिश्यमानत्वात् इति ।

हीनयानमार्गस्य प्रसिद्धाः ग्रन्थाः

१. 'अभिधर्मसङ्ग्रहः',

२. 'खगाविसामसुत्तम्',

३. 'कारण्डव्यूहम्',

४. 'सुखावनीव्यूहम्',

५. 'अमितायुानसूत्रम्',

६. 'वज्रच्छेदिका'-इत्यादयो ग्रन्थाः सन्ति हीनयानमार्गप्रदर्शनपराः ।

अयमेव खलु मार्गो वीरपुरुषत्वं प्रापयति । एवमेवाऽत्रापि सन्ति बहवोऽप्रसिद्धि प्राप्तिपरा ग्रन्था ये सर्वे नाऽत्र लेखविस्तरभयात् प्रदर्श्यन्ते ।

सम्बद्धाः लेखाः

Tags:

बौद्धदर्शनस्य मतानि बौद्धचतुष्टयान्तर्गतं माध्यमिकतम्बौद्धदर्शनस्य मतानि योगाचारमतम्बौद्धदर्शनस्य मतानि सौत्रान्तिकमतम्बौद्धदर्शनस्य मतानि वैभाषिकमतम्बौद्धदर्शनस्य मतानि अनात्मवादःबौद्धदर्शनस्य मतानि आत्मनः पारमार्थिकत्वखण्डनम्बौद्धदर्शनस्य मतानि श्रीअश्वघोषःबौद्धदर्शनस्य मतानि दिङ्नागःबौद्धदर्शनस्य मतानि वसुबन्धुःबौद्धदर्शनस्य मतानि नागार्जुनःबौद्धदर्शनस्य मतानि श्रीधर्मकोतिःबौद्धदर्शनस्य मतानि महायानविचारःबौद्धदर्शनस्य मतानि हीनयानमार्गःबौद्धदर्शनस्य मतानि हीनयानमार्गस्य प्रसिद्धाः ग्रन्थाःबौद्धदर्शनस्य मतानि सम्बद्धाः लेखाःबौद्धदर्शनस्य मतानि

🔥 Trending searches on Wiki संस्कृतम्:

१२४६५५०८६०१८०११४३५९३७१६८९१६४५१३११८८३११६४१४२२१७४४३७०१७८२१६७६७११३२७१४६०२४११३१०५११४४८९६३२०१११२४८५६१२७५६७२३१६१७०९१४७१७७४१७७११०१७८४३४५३१४२०३३३१२४७१९५१५७०१५१११०४६१५९७५३८९९५८३९७६५७१३१५४२५४३६५४९९१४८७६३५१२८३५२४९१६१८१६८६२०६१८१४६५११७७९१४६११७०६११३७१०३८३६७५९३१४८५१६४०१८११९१६१५१८१४९७१४४१🡆 More