निघण्टो: चतुर्थाध्यायस्य शब्दा: अत्र निर्वचिता: । एते शब्दा: नानार्थका: (Homonym) अथवा अनवगतसंस्कारा: । तेषां नाम ऐकपदिका: इति । नैगमकाण्डस्यारम्भे उक्तं हि -
एकार्थमनेकशब्दमित्येतदुक्तम् । अथ यान्यनेकार्थान्येकशब्दानि तान्यतोऽनुक्रमिष्याम: । अनवगतसंस्काराश्च निगमान् | तदैकपदिकमित्याचक्षते । (निरु.४.१.१.)
नैघण्टुककाण्डे पठिता: शब्दा: समानार्थसूचका: । अस्मिन् काण्डे पठिता: शब्दा: प्रत्येकस्मात् भिन्ना: । अतैव नैघण्टुककाण्डे निघण्टुपठितानां सर्वेषां शब्दानां निर्वचनं न कृतम् । अत्र नैगमे काण्डे सर्वे शब्दा: प्रत्येकतया निर्वच्यन्ते ।
नानार्थकस्य शब्दस्य निर्वचनप्रकार: कथमिति उदाहरणमेकं पश्याम: -
दमूनस् = दमूना दममना वा, दानमना वा, दान्तमना अपि वा दम इति गृहनाम तन्मना स्यात् । मनो मनोते: । (निरु.४.१.५.)
जुष्ठो दमूना अतिथिर्दुरोणे..... । (ऋक्.५.४.५.) इति निगमोद्धरणम् । अत्र चत्वार: अप्यर्था: सङ्गच्छन्ते । अत्र दमूना शब्द: विद्वान् शब्दस्य विशेषणम् । जितेन्द्रियाय दानिने, सत्संगेच्छुकाय, उत्तमगृहस्थाय विदुषे यज्ञार्थं आह्वानं विद्यते अस्मिन् मन्त्रे ।
अन्यदेकमुदाहरणम् - दयते शब्द: अनेकार्थक: इति निगमप्रामाण्येन सह दर्शयति ।
अस्य शब्दस्य धातु: पाणिनीयधातुपाठे एवं वर्तते - दय दानगतिरक्षणहिंसादानेषु । वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति । वनुयाम वनुष्यत: (ऋक्.८.४०.७.) इत्यपि निगमो भवति । (निरु.५.१.२.) अत्र वनुष्य इति नामधातु: हिंसार्थक: पठित: । कण्ड्वादिगणीयेन वन धातुना यक् प्रत्यय: उस् आगमश्च ।
एष: शब्द: अनवगतसंस्कार: = व्याकरणप्रक्रिया अस्पष्टा । पाणिनीयव्याकरणे अस्य शब्दस्य प्रक्रिया वर्तते । किन्तु यास्काचार्य: पाणिने: प्राचीन: इति अभिजानीयु: । पाणिने: प्राक् यास्ककाले एष: शब्द: अनवगतसंस्कार: ।
एवं नैगमकाण्डे द्विविधा: शव्दा: निर्वचिता: । ते मन्त्रोदाहरणसहिता: अध्येतव्या: ।
This article uses material from the Wikipedia संस्कृतम् article नैगमकाण्डम्, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.