उत्तरनल्लूर्नङ्कै

उत्तरनल्लूर्नङ्कै (Tamil: உத்தரநல்லூர் நங்கை) एका तामिल्मूलीया परैयार्जातीया काव्यरचका बभूव या १५ शताब्द्यामुवास। सा स्वसमयस्य जातिलिङ्गपदानुक्रमणानां विरुद्धं दृढदृष्टिकोणाय प्रसिद्धास्ति। स्वयं दलितत्वेन सा एतान्विचारान्स्वस्यैकमात्रे लब्धे ग्रन्थे पैचलुर्पदिगम्-ग्रन्थे सरागेण प्रकटयति।

जीवनचरितम्

तस्या नाम, उत्तरनल्लूर्नङ्कै, उत्तरनल्लूर् (तस्या जन्मभूमिः) एवञ्च नङ्कै (कन्या इत्यार्थः) इत्येतयोः पदयोस्संयोजनमस्ति। दलितत्वेन स्त्रीतत्वेन च तस्या वेदाध्यनयनं निषिद्धम्बभूव। तद्विहाय सा गोपनीयरूपेण एकस्माद्ब्राह्मणबालकाद्वेदानधिजगे। अन्ते सा तस्य ब्राह्मणबालकस्य प्रेम्णा पपात एवञ्च तं विवाहमपि चकार।

तस्या निषिद्धाय पवित्रग्रन्थाय अध्यनाय जातिनिषेधभङ्गाय  द्वन्द्वलङ्घनाय पैचलुर्ग्रामस्य ज्येष्ठास्तां जीवितदहनमृत्युदण्डमिति ददुः। यदा ज्येष्ठाः परैया-मार्गं तस्या मृत्युदण्डं कर्तुमाजग्मुः, तदा सा तान्सम्बोधयन्पैचलुर्पदिगमिति ग्रन्थं विरचयाञ्चकार। तस्माद्ग्रन्थादेकश्श्लोकोध उद्धृतः -

निम्बस्य चन्दनस्य च गन्धे विभिन्ने यदा ते दहतः ,

किन्तु एकज्वलितब्राह्मणस्य गन्धं वक्तुन्न शक्नुथ।

अग्निर्भिन्नो घ्रातो वा यदा अप्रक्षालित-पुलया¹ दहति?

द्रव्यं यद्दहति, अग्निशिखा या दाहयति, कथं भिद्येते?

हे पैचलुर्ग्रामस्य ज्येष्ठाः!

- ९ काव्यम् , पैचलुर्पदिगम्

¹ पुलया इति एकं दलितजातिं दर्शयति।


சந்தனம் அகிலும் வேம்பும் தனித்தனிக் கந்தம் நாறும்

அந்தணர் தீயில் வீழ்ந்தால் அவர்மணம் வீசக் காணோம்

செந்தலை புலையன் வீழ்ந்தால் தீமணம் வேற தாமோ?

பந்தமும் தீயும் வேறோ பாய்ச்சலூர்க் கிராமத் தாரே!

"- பாடல் 9, பாய்ச்சலூர் பதிகம்

सन्दर्भसूचिः

Tags:

तमिळभाषा

🔥 Trending searches on Wiki संस्कृतम्:

२७०११६६२२६३८८३५२८७७७७७१००४४६१२१०४१०४२०१५३५९०५९९७६०१२९३७९५१६०१६१६१३९८१६३८२३०१२७६७२७१३१३९४९६६३११५४८५३३४८१९१४०७३३९८१४३८१६४५१७४०६१४८४७९९५९२१५६११३२९९६४१७५११७०९४९९८४८१७०६९१५३७३१२५५१६८८८२०१३८०८०९५१९०११६५८१६९४६२४१७८८८०४९७८७२१८११९६७१०५१४३०३७४२६२९१६७८४८२३४५२३४🡆 More