अलङ्कारशास्त्रस्य सम्प्रदायाः विभिन्नानाम् आचार्याणां मतेषु आधारिताः सन्ति। अलङ्कारशास्त्रग्रन्थानाम् अनुशीलनेन अयम् अवगतो भवति यत्, यत्र अनेके सम्प्रदायाः आसन् । काव्यस्यात्मा कः ? इत्यस्मिन् विषये एवालङ्कारिकाणां समक्षे प्रधानतया विवेचनीयं कर्त्तव्यमासीत् । किमिदं तादृशं वस्तु विद्यते यद्विद्यमाने काव्ये काव्यत्वं तिष्ठति तद्रहिते च तदपसरतीति जिज्ञासाम् अवलम्ब्य स्वस्वबुद्ध्यनुसारेणोत्तरदानम् एव नानाविधसम्प्रदायानाम् उत्पत्तिरभूदिति पर्यालोचयन्त्येतिहासिककुशलाः।
उक्तजिज्ञासानिवृत्तये एव केचिद् अलङ्कारं केचिद्रीतिं केचिच्च ध्वनिं काव्यत्वेन प्रमाणयन्ति । भरतमुनितः आरभ्य कालक्रमेण समीक्षाभेदे विभिन्नशताब्दीषु नवीननवीनतरसम्प्रदायानाम् उत्पत्तिर्जाता। अलङ्कारसर्वस्वटीकाकर्त्रा समुद्रबन्धनेन अप्युक्तरूपेणैव सम्प्रदायोदयः प्रदर्शितः । तथा चोक तेन -
‘इह विशिष्टौ शब्दार्थौ काव्यम् । तयोश्च वैशिष्ट्यं धर्ममुखेन व्यापारमुखेन व्यङ्ग्यमुखेन वेति त्रयः पक्षाः । आद्येऽप्यलङ्कारतो गुणतो वेति द्वैविध्यम् । द्वितीयेऽपि भणितिवैचित्र्येण भोगकृत्त्वेन वेति द्वैविध्यम् । इति पञ्चसुपक्षेष्वाद्य उद्भटादिभिरङ्गीकृतः, द्वितीयो वामनेन, तृतीयो वक्रोक्तिजीवितकारेण, चतुर्थो भट्टनायकेन, पञ्चम आनन्दवर्धनेन ।'
अत्रेदं विचार्यते -
रमणीयौ शब्दार्थौ काव्यनाम्ना व्यपदिश्यते, शब्दार्थयोः रमणीयता च धर्ममुखेन यद्युच्यते, तदा गुणा अलङ्कारश्चेति द्वौ तादृशौ धर्मौ सम्भवतः, तत्र गुणकृतवैशिष्ट्यवादिनौ दण्डिवामनौ काव्यस्य जीवनाधायकं गुणमाहतुः अलङ्कृतं वैशिष्ट्यमाद्रियमाणा उद्भटादयश्चालङ्कारान् काव्यजीवनाधायकान् स्वीकुर्वन्ति । यदि च शब्दार्थयोः रमणीयता तद्व्यापारद्वारा मन्यते, तर्हि अपि व्यापारो द्विविधः सम्भवति - भणितिवैचित्र्यमूलो भोगकृत्वमूलश्च। तत्र भणितिवैचित्र्यकृतं वैशिष्ट्यम् अभ्युपगच्छन्तः कुन्तकादयो ‘वक्रोक्तिः काव्यजीवितमिति मन्यन्ते; भोगकृत्वमूलकं वैशिष्ट्यं मन्यमानश्च भट्टनायकादयो भोजकत्वरूपं व्यापारान्तरं मन्यन्ते, तदेव तत्र वैशिष्टयमभ्युपगच्छन्ति । भट्टनायको रससम्प्रदायान्तर्गत एव । केवलं भोजकत्वव्यापारमात्रमस्य नूतनम् ये पुनर्व्यङ्गयमुखेन शब्दार्थयोर्वैशिष्टयमाहुस्ते ध्वनिप्रस्थानं स्वीकुर्वन्ति; यथाऽनन्दवर्धनादयः।
षष्ठसम्प्रदायाविष्कर्ता क्षेमेन्द्रः खल्वेतत्परवर्त्यतस्तन्मतमेतेन न प्रदर्शितम् । वस्तुतस्तु ध्वनिमतं रसस्यैव विकसितं स्वरूपमस्ति इति मन्यते। आचार्यभरतः प्राधान्येन रूपकमेव दृष्ट्यां निधाय तदीयां मीमांसाञ्चक्रे । आचार्यानन्दवर्धनादियः ध्वनिसम्प्रदायस्य आचार्याः किञ्च ध्वनिपरिपोषकाः पण्डितपूज्यास्तद्-विचारं हि व्यापक-दृष्ट्या कृतवन्तः । रसो न वाच्यो भवितुमर्हति, स व्यङ्ग्य एव भूत्वा स्थातुं शक्यः । इमां विचारधारामुपसारयितुम् आनन्दवर्धनो ध्वन्यालोकमवतारयामास । काव्ये व्यङ्गयमेव प्रधानं तत्त्वमित्येतत् तदीयं मतमाचार्यमम्मटोऽभिनवगुप्तश्चान्वमन्येताम् । मम्मटस्तु व्यङ्गयस्य विशिष्टतां साधयितुं यं प्रयत्नञ्चकार स तु न केवलं ध्वनिमतं सुदृढतया प्रतिस्थापयामास अपि तु अलङ्कारशास्त्रमपि शास्त्राणां श्रेण्याम् आसयामास । तत्रासीनञ्चालङ्कारशास्त्रं पण्डितराज जगन्नाथस्ततोऽभिषिषेच । एवमस्मिन् शास्त्रे बहवः सम्प्रदायाः प्रचलिताः ।
वैदिकसाहित्ये रसशब्दस्योल्लेखः कृतो वर्तते सोमरसस्यार्थे – 'दधानः कलशे रसम्' आनन्दार्थेऽपि - ‘रसो वै सः' 'रसं ह्येवायं लब्धानन्दी भवति'। यद्यपि वैदिकसाहित्ये रसादिशब्दानामुल्लेखोऽवश्यं वर्तते, किन्तु आलङ्कारिकसम्प्रदायरूपे चैतत्स्वरूपनिश्चयकरणे सर्वप्रथमं श्रेयोभागिनं नाट्यशास्त्रकर्तारं भरतमुनिमेव वक्तुं शक्यतेऽस्माभिः। राजशेखरेण तु सर्वप्रथमं रसस्योपदेशो ब्रह्मणा नन्दिकेश्वराय प्रदत्तः इति प्रतिपादितः, परन्तु तत्प्रतिपादितः रससिद्धान्तः इदानीं पर्यन्तमभ्युपलब्धो न वर्तते।
अलङ्कारसम्प्रदायो भामहेन प्रवर्त्तितोऽपि तद्ग्रन्थव्याख्यातृभिः रूद्रटोद्भटादिभिरेव स्थिरता प्रापितः । काव्येऽलङ्कारस्य प्राधान्यमपि येन केनापि रूपेण दण्डिनोऽपि स्वीकृतमासीदेव । एतत्सम्प्रदायानुसारिणां मते अलङ्कारा एव काव्यजीवातवः । अलङ्कारहीनं काव्यस्वीकरणं तथैवोपहास्पदं यथोष्णतारहितमग्निस्वीकरणम् । एतदेवोक्तं पीयूषवर्षिजयदेवेन -
अङ्गीकरोति यः काव्यं शब्दार्थावनलङ्कृती।
असौ न मन्यते कस्मादनुष्णमनलङ्कृती ॥
रीतिमतस्य प्रतिपादकः प्रधानाचार्यो वामनः अस्ति । अस्य काव्यालङ्कारसूत्रनाम्ना ग्रन्थः स्वोपज्ञवृत्तिसहितः प्रसिद्धः । अस्मिन् ग्रन्थे काव्यात्मरूपेण रीतिरेवायं स्वीकृतः । एतन्मते - ‘रीतिरात्मा काव्यस्य' इति लक्षणं प्रतिपादितम् । इयमेव रीतिः शैलीत्युच्यते । रचनायां चेयं विशिष्टता, गुणानामवस्थित्या उत्पन्ना भवति । अत एव गुणोपरि रीतिरवलम्बिता तिष्ठति । इदं च रीतिमतं गुणसम्प्रदायनाम्ना व्यवहृतं भवति । "ओजः कान्तिमतीगौडीयाः” “समग्रगुणाः वैदर्भी'' “माधुर्यसौकुमार्योपपन्ना पाञ्चाली" वैदर्भीगौडीरीत्योः स्वरूपेण, विभेदप्रतिपादनस्य श्रेयः आचार्यदण्डिन एवोपरि वर्त्तते । आरम्भकाले रीतीनां सम्बन्धो देशविशेषेणैवासीत् । यत्प्रान्तिनो यादृश्यां शैल्यां विशिष्टतां प्राप्तवन्तस्तत्प्रान्तनाम्ना तादृशशैल्याः प्रसिद्धिरभूत् । तत्र वैदभ्यॊ वैदर्भदेशेन वराराभिधेन गौड्या वङ्गप्रदेशेन, पाञ्चाल्योः पाञ्चाल(पञ्जाब)प्रदेशेन, लाट्या लाट(गुजरात)प्रदेशेनाभिधेयेन सम्बन्धः आसीत् । गुणालङ्कारयोः परस्परं स्फुटं भेद इत्यस्य सर्वप्राथम्येन प्रतिपादनं वामनेनैव कृतम् ।
वक्रोक्तेर्महनीयभावुनाया बीजरूपेण सूचनकरणस्य श्रेयोभागी आचार्यभामहः अस्ति । तमेव बीजमादाय पूर्णरूपेणाङ्कुरित-पल्लवितकरणस्य सम्मानमाचार्यकुन्तकस्यैव वर्तते । यद्यपि भामहग्रन्थपर्यालोचनयाऽलङ्काराणामेव भामहेन प्राधान्यं दत्तम् तथापि रसवक्रोक्तिरीतिसम्प्रदायानां बीजमपि प्रदर्शितं मिलति । अनेन महात्मना हि वक्रोक्तेर्व्यापकत्वं प्रदर्श्य काव्यार्थमावश्यकत्वमेतस्याः इति प्रदर्शितम् । तथाहि - “युक्तं स्वभावोक्त्या सर्वमेतदिष्यते।" एनामेवाधारशिलामादाय कुन्तकेन ‘वक्रोक्तिजीवित-नामको ग्रन्थो विनिर्मितः । अयमेवातिशयोक्तिं च वक्रोक्तिनाम्ना व्यवहरति, ताञ्च सर्वालङ्काराणां जीवनाधायकत्वं व्यवस्थापितवान् ।
‘रसो न वाच्यः' इति साधयितुं प्रवर्त्तमान आचार्य आनन्दवर्धनो ध्वनेरावश्यकतामनुभूय ध्वनिसम्प्रदायं. प्रवत्ततवान् । आनन्दवर्धनात्पूर्वं वनेरभाववादः, लेक्षणाः-स्वरूपतावादः, अनिर्वाच्यतावादश्च प्रथते स्म । ध्वनिवादः सर्वांधिकव्यवस्थितरूपेण प्रचरितः । अस्य सम्प्रदायस्य सुविस्तृतचर्चा अव्यवहितोंत्तरकाले एव भविष्यति ।
औचित्यस्य भावना ध्वन्यादिसमस्तकाव्यतत्त्वानां मूलभावना। अयं सर्वसम्प्रदायादृतः कस्यापि मतस्याविरोधी च सम्प्रदायः क्षेमेन्द्रेण प्रवत्ततः । काव्यस्य सर्वेष्वप्यङ्गेषु औचित्यं नितान्तमपेक्षितम् । समस्तप्राचीनालङ्कारिका हि स्वस्वग्रन्थै औचित्यरक्षायै सङ्केतं निदिष्टवन्तः । तानेव पूर्वग्रन्थानाल काव्यतत्त्वस्य व्यापकरूपमादातुं क्षेमेन्द्रेण 'औचित्यविचारचर्चा' नामको ग्रन्थों ग्रथितः । रसस्य जीवनभूतः प्राणः ‘औचित्यमेव' इति स्पष्टमुद्घोषितं तेन । तथाहिं।
औचित्यस्य चमत्कारकारिणश्चारुचर्वणे । ___ रसजीवितृभूतस्य . विचारं कुरुतेऽधुना ।। ( का० ३ )
किमिदमौचित्यमिति जिज्ञासायां ‘यों यत्सदृशः, येन परस्परं सम्मिलने भवेत् तदेयोचितम् । अथ चोधितस्य अब औचित्यम् । तथा घोक्तमनेनैव -
उचितं प्राहुराचार्याः सदृशं किल यस्य यत् । ।
उचितस्य च यो भावस्तदौचित्यं प्रचक्षते ॥
अस्यौचित्यस्य पद-वाक्यार्थ-रस-कारक-लिङ्गवचनाद्यनेकस्थलेषुदाहरणानि प्रदर्य साहित्यरसिकानां महानुपकारः कृतः क्षेमेन्द्रेण । औचित्यस्य मूलतत्त्वमानन्दवर्धनेनैवोद्घाटितम् ध्वन्यालोके -
अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् ।
औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ।।
काव्यस्येदं मूलतत्त्वमिति ध्वन्यालोककारात् पूर्वमेव सिद्धान्तरूपेणाड़ीकृतमासीत् भरतेन नाटये पात्रेभ्यः देशस्यावस्थायाश्चानुरूपेण वेशविन्यासस्मो 'पदेशं दत्त्वैतत्तत्त्वोपर्येव विशेषाग्रहः प्रदशितः । तथाहि -
आदेशजो हि वेशस्तु न शोभा जनयिष्यति ।
मेखलोरसिबन्धे च हास्यायैवोपजायते ॥
एतत्कारिकाया भाष्यरूपमेव क्षेमेन्द्रस्याधोलिखितपद्यं दृश्यते -
कण्ठे मेखलया नितम्बफलके तारेण हारेण वा,
पाणौ नूपुरबन्धनेन चरणयोः केयूरपाशेन वा ।
शौर्येण प्रणते रिपौ करुणया नायान्तिके हास्यता
मौचित्येन विना रुचि प्रतनुते नालङ्कृतिर्नो गुणः ॥
इतः पूर्ववत्तभिरालङ्कारिकैः तत्त्वमेनमादायैव स्वस्वग्रन्थप्रणयनं कृतम् । अतः क्षेमेन्द्रस्यैव नैवेयमुद्भावना किन्तु पूर्वपूर्वाचार्यैः सूचिता या भावना तामेव स्वग्रन्थे स्पष्टरूपेण प्रदर्शयामास तत्रभवानाचार्यः क्षेमेन्द्रः । अयं च महानुभावः कश्मीरस्थो धनाढयब्राह्मणकुले समुत्पन्न आसीत् ।
This article uses material from the Wikipedia संस्कृतम् article अलङ्कारशास्त्रस्य सम्प्रदायाः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.